________________
उद्देशक ः १, मूलं-६, [भा. १२७८]
३३९ पुनरावृत्तानां भूयः सङ्ग्रहो विधेयः । ये तु निसर्गेण-स्वभावेन विनीतास्तेषां स्मारणेव केवलं कर्तव्या,यथा 'इदमित्थं कर्त्तव्यम' इति ।। उपसंहरन्नाह[भा.१२७९] एवं पडिच्छिऊणं, निफ्फत्तिं कुणइ बारस समाओ ।
एसो चेव विहारो, सीसे निप्फाययंतस्स ।। वृ-'एवं देशदर्शनं कुर्वन् शिष्य-प्रतीच्छयकान् प्रतीच्छय निष्पत्तिं सूत्रार्थग्राहणादिना द्वादश 'समाः' संवत्सराणि करोति । गतं निष्पत्तिद्वारम् । अथ विहारद्वारं व्याख्यायते-"एसो चेव" इत्यादि । एष एव विहारः शिष्यान् निष्पादयतो वेदितव्यः । इयमत्र भावना-तस्य देशदर्शनं कृत्वागुरुपादमूलमागतस्य गुरुभिराचार्यपदमध्यारोप्य दिग्बन्धानुज्ञायांविहितायांनवकल्पविधिना विहरतोयः शिष्यनिष्पादनविधिस एवमेव द्वादशवर्षाणियावद् विज्ञेयः, तुल्यवक्तव्यत्वादिति।। अथैतदेव विहारद्वारमावृत्या जिनकल्पिकमाश्रित्य व्याचिख्यासुरिगाथामाह[भा.१२८०] अव्वोच्छित्ती मन पंचतुलण उवगरणमेव परिकम्मे ।
तवसुत्तसुएगत्ते उवसग्गसहे य वडरुक्खे ।। वृ-अव्यवच्छित्तिविषयं मनः प्रयुङ्क्ते । पञ्चानाम्-आचार्यादीनां तुलना-स्वयोग्यताविषया भवति, उपकरणं जिनकल्पोचितमेव गृह्णाति 'परिकर्म' इन्द्रियादिजयरूपंकरोति ।तपः-सत्त्वश्रुतैकत्वानि उपसर्गसहश्चेतिपञ्चभावनाभवन्ति । 'वटवृक्षे इति जिनकल्पंतीर्थकरादी-नामभावे वटवृक्षस्याधस्तात् प्रतिपद्यते इति द्वारगाथासमासार्थः ।। अथैनामेव विवरीषुराह[भा.१२८१] अनुपालिओ यदीहो, परियाओ वायणा विमे दिना।
निफाइया य सीसा, सेयं खु महऽप्पणो काउं ।। वृ-तेनाचार्येण सूत्रार्थयोरव्यवच्छितिं कृत्वा पर्यन्ते-पूर्वापररात्रकालसमये धर्मजागरिकां जाग्रतेत्थं चिन्तनीयम्, यथा-अनुपालितो मया दीर्घ 'पर्यायः' प्रवज्यारूपः, वाचनाऽपि मया दत्ताउचितेभ्यःप्रतीच्छकादिभ्यः, निष्पादिताश्च भूयांसः शिष्याः, तदेवंकृतातीर्थस्याव्यवच्छित्ति, तत्करणेन विहितमात्मनः ऋणमोक्षणम्, अत ऊर्द्धवं श्रेयः' प्रशस्यतरं ममात्मनो हितं कर्तुम्॥ किं नाम हितम् ? इति चेद् उच्यते[भा.१२८२] किनु विहारेणऽब्भुजएण विहरामऽनुत्तरगुणेणं ।
आओ अब्भुजजयसासणेण विहिना अनुमरामि ॥ वृ-'किन्नु' इति वितर्के, 'अभ्युद्यतविहारेण जिनकल्पादिना ‘अनुत्तरगुणेन' अनुत्तराःअनन्यसामान्या गुणाः-निरममत्वादयोयस्मिन् स तथा तेन अहं विहरामि? “आउ"त्ति उताहो "अब्भुजसासणेणं" ति सूचकत्वात् सूत्रस्याऽभ्युद्यतमरणविषयेण शासनोक्तेन विधिना 'अनुभ्रिये" अनु-पश्चात् संलेखनाथुत्तरकालं मरणं प्रतिपद्येऽहम् ? इति ।।
अभ्युद्यतविहार-मरणयोः स्वरूपमाह[भा.१२८३] जिन सुद्ध अहालंदे, तिविहो अब्भुजओ अह विहारो।
___ अब्भुञ्जयमरणं पुन, पाओवग-इंगिणि-परिना ।। कृजिनकल्पः शुद्धपरिहारकल्पोयथालन्दकल्पश्चेति त्रिविधोऽभ्युद्यतोऽथैष विहारो मन्तव्यः। अभ्युद्यतमरमं पुनस्त्रिविधम्-पादपोपगमनम् इङ्गिनीमरणं परिज्ञा' इति भक्तप्रत्याख्यानम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org