________________
३३५
उद्देशक : १, मूलं-६, [भा. १२६४]
मेरासु य पत्तेयं, माऽसंखड पुव्वकरणेणं ॥ वृ- ये गीतार्थाः श्रुतधराः, बहुश्रुता गणि-वाचकादिशब्दाभिधेया इत्यर्थः, तेषामपि, किं पुनरितरेषाम् ? इत्यपिशब्दार्थ, विततसामाचारीकरणे नोद्यमानानां मैवं सामाचारीमन्यथाकारं कार्षी' इत्यादिवचनैर्मा भूदु “अचियत्तं" अप्रीतिकम्, यतोऽन्योऽन्यं गच्छानां काश्चिदनीद्दश्यः सामाचार्यस्ततः 'प्रत्येकं पृथक् पृथग् 'मर्यादासु' सामाचारीषुवर्तमानासुप्रवाहतःपूर्वाभ्यस्ताया एव सामाचार्या करणेन प्रतिनोदितानांमा ‘असंखडं' कलहो भवेदित्यात्मीया चक्रवालसामाचारी कथयितव्या ।। आह कथं पुनरभिधीयमानेऽप्रीतिकं भवेद् ? उच्यते[भा.१२६५] गच्छि वियारभूमाइ वायओ देह कप्पियारं से।
तम्हा उचकवालं, कहिति अनहिंडिय निसिं वा ।। वृ-अयंवाचकोविचारभूम्याम्आदिशब्दाद्भक्त-पानग्रहणादौगच्छतिअतोददत कल्पितारं कमपि कल्पिकं साधु 'से' तस्य वाचकस्य येन स समाचारी दर्शयति । तत एवमभिधीयमाने तस्य वाचकस्य महदप्रीतिकं भवति, यथा-अहो ! स्वगणं विमुच्य परगणमुपसम्पन्ना वयमप्येवं परिभूयामहे इति । यत एवं तस्मात् चक्रवालसामाचारी-प्रतिदिनक्रियाकलापरूपां तेषां पुरत आचार्या कथयन्ति यथा ते कल्पिका भवन्ति । यावच्च सा तेषांप्ररूप्यते तावत् “अनहिंडय'त्ति ते भिक्षार्थं न हिण्डाप्यन्ते, मा भूतु तेषां सामाचारीशिक्षणव्याघातः । अथ न संस्तरति ततः 'निशि' रात्रौ ते सामाचारी ग्राहयितव्या इति ॥गतं प्रतीच्छनाद्वारम् । अथ वाचनाद्वारम् । तेषां गृहीतसामाचारीकाणां सूत्रार्थवाचना दातव्या वाच्यमानानां च तेषां सामाचारीकरण प्रमाद्यतां यो विधिस्तमभिधित्सुरिश्लोकमाह[भा.१२६६] उवएसो सारणा चेव, तइया पडिसारणा।
छंदे अवट्टमाणं, अप्पछंदेण वजेज्जा ।। वृ-उपदेशः स्मारणाचैव तृतीया प्रतिस्मारणा, ततः 'छन्दे' उपदेशेऽवर्तमानं विनेयं गुरुरपि 'आत्मच्छन्देन' आत्माभिप्रायेण 'वर्जयेत्' परित्यजेदिति नियुक्तिश्लोकसमासार्थः ।। अथ विस्तरार्थः,तत्र गुरुभिस्तान्प्रति वक्तव्यम्-अस्माकमेषासामाचारी यनिद्राविकथादयःप्रमादाः परिहर्त्तव्याः, एष उपदेशः। अथ स्मारणामाह[भा.१२६७] निद्दापमायमाइसु, सई तु खलियस्स सारणा होइ।
ननु कहिय ते पमाया, मा सीयुसु तेसुजाणंतो।। वृ-निदैव प्रमादो निद्राप्रमादः, आदिशब्दाद् अप्रत्युपेक्षित-दुष्प्रत्युपेक्षितादिपरिग्रहः, तेषु 'सकृद्' एकवारंस्खलितस्य स्मारणा कर्तव्या भवति।तथा-भोमहाभाग! नन्वेतेपूर्वमेवास्माभिस्तव प्रमादाः कथिताः ततो जानन्नपि तेषु' प्रमादेषु मा सीदेत्येषा स्मारणा ।। अथ प्रतिस्मारणामाह[भा.१२६८] फुड-रुक्खे अचियत्तं, गोणो तुदिओ व मा हुपेल्लेज्जा।
सज्जं अओ न भन्नइ, धुव सारण तं वयं भणिमो॥ वृ-स्फुटं नाम-यस्तेन प्रमादः कृतः स परिस्फुटं नाभिधीयते किन्त्वन्यव्यपदेशेन भणितव्यम्, रूक्षं नाम-निष्पिपासम्, यथा-'निर्धर्म ! निरक्षर ! निशुक!' इत्यादि तदपि न वक्तव्यम्, यतः स्फुट-रूक्षेऽभिधीयमानेऽप्रीतिकं भवति । अत्रच गोद्दष्टान्तः-यथा 'गौः' बलीवर्दो महता भारेण Jain Education International
For Private & Personal Use Only
www.jainelibrary.org