________________
२९०
बृहत्कल्प-छेदसूत्रम् -१-१/५ किं पुन अस्थुवहया, पेसी पब्वायसरडूय।। वृ-इह ये व्रीहयः परिपक्वाः सन्तोम्राष्ट्रादौ भृज्यन्ते, ततः स्फटिता अपनीतत्वचः पृथुका इत्युच्यन्ते, आदिग्रहणेनान्यदपियदेवं निष्पद्यते तत्परिग्रहः यदितावत्पृथुकादयोऽग्निशस्त्रोपहता अप्यनाचीर्णाभवनतिकिं पुनरशस्त्रोपहताः पेश्यः प्रलम्बानामू‘यताः फालयः? तथा प्रम्लानानिम्लानवृन्तानि यानि 'सरडूनि' अबद्धास्थिकफलानि?, तान्यशस्त्रोपहतानि कथमाचीर्णानि भविष्यन्तीत्यर्थः । एतत्सर्वमपिपरीत्तविषयमुक्तम् ।। गतंपरीत्तद्वारम्।अथ साधारणद्वारमाह[भा.१०८३] साधारणे वि एवं, मीसा-ऽमीसे वि होंति भंगाओ।
पनगादी गुरुपत्तो, सबविसोहीय जय ताहे ।। वृ-साधारणम्-अनन्तं तत्रापि एवं प्रत्येकवद् मिश्रोपस्कृते निर्मिश्रीपस्कृते च चतुर्थतृतीयौ भङ्गौ भवतः । नवरं यदा तृतीयभङ्गे प्रत्येकप्रलम्बं निर्मिश्रोपस्कृतं न लभ्यते तदा मासलघुकादुपरि यत्रोद्गमादी लघुपञ्चरात्रिन्दिवान्यभ्यधिकान्यापद्यन्ते तत् स्वग्रामे वा परग्रामे वा गृह्णाति । एवं यदा पञ्चकादिहान्यागुरुमासं प्राप्तो भवति तदा साधारणं निर्मिश्रोपस्कृतं प्रथम चतुर्थभङ्गे तदलाभे तृतीयभङ्गे स्वग्राम-परग्रामयोर्गृह्णाति । यदा तृतीयभङ्गेनापि न प्राप्यते तदा सर्वेषुविशोधिकोटिदोषेषु यतस्व' प्रयलं कुरु। तत्राऽऽधाकर्म-कौद्दिशिकत्रिक-आहारपूतिकर्ममिश्रजातान्त्यद्विक-बादरप्राभृतिका अध्यवपूरकचरमद्विकरूपान् अविशोधिकोटिदोषान्मुक्त्वा शेषाः सर्वेऽप्यौधोद्देशिकादय उद्गमदोषा विशोधिकोटयः । तेष्वपि गुरु-लाधवालोचनतो यद् यद् अल्पदोषतरं तत् तत् पूर्वं पूर्व प्रतिसेवमानस्तावद् यतते यावत् चतुर्लघुस्थानानि ।। तेष्वपि यदा न लभ्यते तदा चतुर्लघुकादुपरि पञ्चकपरिहाण्या यतित्वा यदा चतुर्गुरुप्राप्तो भवति तदा किमाधाकर्म गृह्णातु? उत प्रथमद्वितीयभनौ ? इति, अत्रोच्यते[मा.१०८४] कम्मे आदेसदुगं, मूलुत्तरे ताहे बि कलि पत्तेगे।
____दावर कली अनंते, ताहे जयणाए जुत्तस्स ।। वृ-अत्राधाकर्मणि प्राप्ते आदेशद्विकं वक्तव्यम् । तद्यथा-आधाकर्मणि चत्वारो गुरवः, प्रत्येकप्रथमद्वितीययोर्भङ्गयोश्चत्वारो लघवः । एवं चप्रायश्चित्तानुलोम्येनाधाकर्म गुरुकम्, व्रतानुलोम्येन तुप्रथमद्वितीयभौगुरुकौ, तयोः प्रतिसेव्यमानयोः प्राणातिपातव्रतस्य लोपसद्भावादिति। अथवाआधाकर्मउत्तरगुणोपघातिवादलघुतरम्, प्रथम-द्वितीयभङ्गौ मूलगुणोपघातित्वादगुरुतरौ। एवमादेशद्वये कृतेऽप्याधाकर्मैव प्रथमतो ग्रहीतव्यं न प्रथम-द्वितीयभङ्गौ । कुतः ? इति चेद् उच्यते-धाकर्मणिजीवाः परेण व्यपरोपिताइतितत्र गृह्यमाणेन ताद्दशी निशूकतोपजायते याद्दशी प्रथम-द्वितीययोभङ्गयोरध्यक्षवीक्ष्यमाणानांजीवानामात्मनैवमुखेप्रक्षिप्य भक्ष्यमाणानांव्यपरोपणे भवति, अत आधाकर्मैव प्रथमतो ग्राह्यं न प्रथम-द्वितीयभङ्गाविति स्थितम् । “ताहे बि कलि पत्तेगि" ति यदा आधाकर्मापि न लभ्यते तदा प्रत्येकद्वितीयभङ्गे ग्रहीतव्यम्, तदभावे 'कलि' प्रथमो भङ्गः तत्रापि ग्राह्यम् । “दाव कली अनंते"त्ति यदा प्रत्येकस्यापि प्रथमो भङ्गो न प्राप्यते तदा 'द्वापरः' इति समयपरिभाषया द्वितीयः, कलिं' इतितुप्रथमउच्यते। ततश्चप्रथममन्तकायिके द्वितीयेन मङ्गेन, तदभावे प्रथमेनापि ग्रहीतव्यम् । यदा अनन्तस्यापि प्रथमो भङ्गो न प्राप्यते तदा ..सतनया युक्तस्य यत्र यत्राल्पतरः कर्मबन्धो भवति तत्तद् गृह्णानस्याशठपरिणामस्य संयम एव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org