________________
उद्देशक : १, मूलं-५, {भा. १०५७]
२८३
[भा.१०५७] विहिभिन्नं पिन कप्पइ, लहुओ मासो उदोस आणाई।
तंकप्पती नकप्पइ, निरत्थगं कारणं किं तं ।। कृयदपिसूत्रे विधिभित्रमनुज्ञातंतदपिन कल्पते। यदिगृह्णन्ति ततोमासलघुआज्ञादयश्च दोषाः आह ननु सूत्रे भणितं तद् विधिभिन्नं कल्पते? गुरुराह-यद्यपि सूत्रे अनुज्ञातं तथापिन कल्पते । यद्येवं तर्हि निरर्थकं सूत्रम्, नैवम्, कारणिकं सूत्रम्। आह किं पुनः तत् कारणं यदद्यापि नाभिधीयते? ।। उच्यते, ब्रूमः[भा.१०५८] गेलनऽद्धाणोमे, तिविहं पुन कारणं समासेणं ।
गेलने पुवुत्तं, अद्धानुवरिं इमं ओमे ।। वृ. ग्लानत्वम् अध्वा अवमौदर्यम्, एतत् 'समासेन' सझेपेण त्रिविधं कारणम् । तत्र ग्लानत्वे इहैव प्रलम्बप्रकृते "विज्जे पुच्छणजयणा" इत्यादि पूर्वोक्तं द्रष्टव्यम्। अध्वनि तु 'उपरि' अध्वसूत्रे इहैवोद्देशके भणिष्यते । 'इदम्' अनन्तरमेव वक्ष्यमाणम् अवमे द्रष्टव्यम् ।। [भा.१०५९] निग्गंधीणं भिन्नं, निग्गंथाणंच भिन्न भिन्नं तु ।
जह कप्पइ दोण्हं पी, तमहं वोच्छं समासेणं॥ वृ-निर्ग्रन्थीनां नियमाद् विधिना षष्ठे भङ्गे भिन्नम्, निर्ग्रन्थानां च चतुर्थ-तृतीययोर्भङ्गयोर्मिन्नमभिन्नं वा, यथा द्वयोरपि वर्गयोः कल्पते तदहं वक्ष्ये समासेन ॥ यथाप्रतिज्ञातमेव निर्वाहयति[भा.१०६०] ओमम्मि तोसलीए, दोण्ह वि वग्गाण दोसु खेत्तेसु ।
जयणटियाण गहणं, भिन्नाऽभिन्नं व जयणाए।। वृ-अवमकाले साधवः साध्यश्च तोसलिविषयं गत्वा स्थिताः । तत्र द्वावपि वर्गों द्वयोः क्षेत्रयोः स्थितौ, एकस्मिन् क्षेत्रे संयता द्वितीयस्मिन् संयत्य इत्यर्थः । तथा यदुत्सर्गत एकत्र क्षेत्रे मिलितौ नावतिष्ठेते एषैव यतना तया स्थितौ यतनास्थितौ, यद्वा साधु-साध्वीप्रायोग्यं विधि ग्राहयित्वायौ स्थितौ तौ यतनास्थितौ, तयोरेवंस्थितयोः यतनया' वक्ष्यमाणया भिन्नस्याभिन्नस्य वा ग्रहणं कल्पते ॥आह कोऽयं नियमो येन तोसलेरेव ग्रहणं कृतम् ? उच्यते[भा.१०६१]आनुग जंगल देसे, वासेण विना वि तोसलिग्गहणं ।
पायं च तत्थ वासति, पउरपलंबो उ अत्रो वि॥ वृ-देशो द्विधा-अनूपो जङ्गलश्च। नद्यादिपानीयबहुलोऽनूपः, तद्विपरीतो जङ्गलः निर्जल इत्यर्थः । यद्वा अनूपो अजङ्गल इति पर्यायौ । तत्रायं तोसलिदेशो यतोऽनूपो यतश्चास्मिन् देशे वर्षेण विनाऽपि सारणीपानीयैः सस्यनिष्पत्ति; अपरं च 'तत्र' तोसलिदेशे 'प्रायः' बाहुल्येन वर्षति ततोऽतिपानीयेन विनष्टेषु सस्येषु प्रलम्बोपभोगो भवति; अन्यच्च तोसलि प्रचुरप्रलम्बः, तत एतैः,कारणैस्तोसलिग्रहणं कृतम् । अन्योऽपि य ईशः प्रचुरप्रलम्बस्तत्राप्येष एव विधि ।। [भा.१०६२] पुच्छ सहु-भीयपरिसे, चउभंगे पभमए अणुनाओ।
सेस तिए नाणुन्ना, गुरुगा परियट्टणे जंच॥ वृ-"पुच्छ" त्तिशिष्यः पृच्छति-यदुक्तंभवद्भि 'द्वयोर्वर्गयोः क्षेत्रद्वये स्थितयोः' इत्यादि तत्र संयतीनां पृथक्षेत्रे स्थितानां व्यापारो वोढुं दुःशको भवति, दोषदर्शिनश्च यूयं पृथक्षेत्रे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org