________________
२८२
बृहत्कल्प-छेदसूत्रम् -१-१/५ स्मृतिकरणम् इतरासां कौतुकादयो दोषा भवन्ति । तस्मिश्चाङ्गादानाकारे गृह्यमाणे यश्चोड्डाहो भवति यथा 'नूनमेतेनैषा पादकर्ण करिष्यति' तन्निष्पन्नमपि प्रायश्चित्तम् ।।
तेन च प्रलम्बेन सा पादकर्म कृत्वा चिन्तयति[भा.१०५३] जइ ताव पलंबाणं, सहत्थणुनाण एरिसो फासो।
किं पुन गाढालिंगन, इयरम्मि उ निद्दओच्छुद्धे ।। वृ-यदितावत्प्रलम्बानांस्वहस्तेन नुन्नानां-"नुदंत्प्रेरणे" प्रेरितानामित्यर्थः ईशः स्पर्श, किं पुनर्गाढालिङ्गनेन 'इतरस्मिन्' अङ्गादाने पुरिषेण "निद्दओच्छुद्धे"त्ति निर्दयं यथा भवत्येवम् उत्-प्राबल्येन क्षिप्ते सति स्पर्शो भविष्यति? इति॥
ततश्चेत्यं विचिन्त्योदीर्णप्रबलमोहनीयकर्मा सा इदं कुर्यात्[भा.१०५४]पडिगमणमन्नतित्थिग, सिद्धे संजय सलिंग हत्थेय।
वेहानस ओहाने, एमेव अभुत्तभोगी वि ।। वृ- काचित् पार्श्वस्थादिभ्यः समागता भवेत् साऽपि तत्रैव प्रतिगच्छेत्, अन्यतीर्थिकेन वा सिद्धपुत्रेण वाऽऽत्मानं प्रतिसेवयेत्, संयतं वा उपसर्गयेत्, एतानि स्वलिङ्गे स्थिता कुर्यात् । हस्तकर्म वा भूयोभूयः कुर्यात, यद्वा 'मया व्रतानि भग्नानि' इति कृत्वा 'कथङ्कारं वा द्राधीयः कालपरिपालितं शीलरलमहं भझ्यामि ?' इति निर्वेददूनमानसा वैहायसं मरणं विदध्यात्, अथवा प्रबलमोहपरवशा अवधावनं विदध्यात् । एतानि पदानि भुक्तभोगिनी कुर्यात् । अभुक्तभोगिन्यप्येवमेव कुर्यात् ।। शिष्यः प्रश्नयति-न जानीमहे वयं कीशमविधिभिन्नम् ? कीशं वा विधिभिन्नम् ? इति । सूरिराह[भा.१०५५]भिन्नस्स परूवणया, उज्जुत तह चक्कली विसमकोट्टे ।
ते चेव अविहिभिन्ने, अभिन्ने जे वनिया दोसा।। वृ.असंयमदोषनिवर्तनार्थमविधिना विधिना च भिन्नस्य प्ररूपणा क्रियते । तत्र यत् चिर्भटादिकं विदार्य ऊर्द्धफालिरूपाः पेश्यः कृतं तद् ऋजुकभिन्नम्, यत् पुनस्तिर्यग् बृहत्यः कत्तलिकाः कृतं तत् चक्कलिकाभिन्नम्, एते द्वे अप्यविधिभिने मन्तव्ये। यत्तुपेश्यः कृत्वा पुनः श्लक्ष्णलक्ष्णतरादिभिः खण्डैरनेकशश्छित्वा तथा कृतं यथा भूयस्तदाकारंकजुनपार्यतेतदेवंविधं विषमकुट्टभिन्नमुच्यते, विषमैः-पुनस्तथाकर्तुमशक्यैः कुट्टैः-लक्ष्णखण्डैर्भिन्नमिति व्युत्पत्तेः । एतच्च विधिभिन्नम् । अत्र चाविधिभिन्ने त एव दोषा द्रष्टव्या येऽभिन्ने देवीदृष्टान्तेन वर्णिताः ।। कथम् ? इति चेद् उच्यते[भा.१०५६] कडेण व सुत्तेण व, संदानिते अविहिभिन्ने ते चेव ।
सविसेसतर व्व भवे, वेउब्वियमुत्तइत्थीणं ।। वृ- 'काष्ठेन वा' शलाकादिना 'सूत्रेण वा' दवरकादिना 'सन्दानिते' सङ्घातिते पूर्वाकारं स्थापिते इत्यर्थः, अविधिभिन्ने तएव दोषा ज्ञातव्या येऽभिन्ने भणिताः।सविशेषतरा वा भवेयुः, कथम् ? इत्याह-'विकुर्वितं' बेण्टकाद्याभरमेनालङ्कतं यदङ्गादानं तेन याः स्त्रियो भुक्तपूर्वास्तासां प्रव्रजितानां तत्रकाष्ठादिसन्दानितप्रलम्बे विकुर्विताङ्गादानकल्पे दृष्टे समधिकतरादोषाउपढौकन्ते।।
अथार्थतः कारणिकं सूत्रमुपदर्शयन्नाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org