________________
२७४
बृहत्कल्प-छेदसूत्रम् -१-१/२ मुपकरणं गुलिकादिकं गृहीत्वा सार्थ पूर्वमेव प्रत्युपेक्षणीयः, तेन पूर्वप्रत्युपेक्षितेन सार्थेन सार्द्ध गन्तव्यम् ॥अत्र विधिमाह[भा.१०२१] अद्धाणं पविसंतो, जानगनीसाए गाहए गच्छं ।
अह तत्थ न गाहेजा, चाउम्मासा भवे गुरुगा। वृ-अध्वानं प्रविशत्राचार्यो ज्ञायकः-गीतार्थस्तनिश्रया गच्छं सकलमप्यध्वकल्पस्थिति ग्राहयति अथ तत्र' अध्वप्रवेशेऽध्वकल्पस्थितिमाचार्यान ग्राहयेयुस्ततश्चतुर्मासागुरवःप्रायश्चित्तं भवेयुः। स्यान्मति-कः कथं वा गच्छमध्वकल्पं ग्राहयति ? इति, उच्यते[मा.१०२२] गीयत्येण सयं वा, गाहइछड्डितो पच्चयनिमित्तं ।
सारितितं सुयत्था, पसंग अप्पचओ इहरा ।। वृ-यद्याचार्य आत्मनाकेनापिकार्येण व्यापृतस्ततोऽन्येनोपाध्यायादिना गीतार्थेन, अथ नव्यापृतस्ततः 'स्वयम्' आत्मनैवान्यगीतार्थान्पुरतः कृत्वाअध्वकल्पसामाचारी गच्छंग्राहयति। सच कथकोग्राहयन्नन्तराऽन्तरा अर्थपदजातं छर्दयन् परित्यजन् कथयति । ततोयेते श्रुतार्था' गीतार्थास्ते 'तद्' अर्थपदजातं त्यक्तं सत् स्मारयन्ति, यथा-विस्मृतंभवतामेतचैतच्चार्थपदमिति। किंनिमित्तमेवं क्रियते ? इत्याह-अगीतार्थानां प्रत्ययनिमित्तम्, यथा सर्वेऽप्येते यदेनां सामाचारीमित्यमेव जानन्तितनूनंसत्यैवेयमिति । 'इतरथा' यद्येवंन क्रियते ततस्तेषामगीतार्थानां मध्ये येऽतिपरिणतास्ते अध्वन उत्तीर्णा अपि तत्रैव प्रसङ्गं कुर्यु, ये त्वपरिणामकास्तेषामप्रत्ययो भवेत्, यथा-एते इदानीमेव स्वबुद्धिकल्पनाशिल्पनिर्मितामेवंविधां स्थितिं कुर्वन्तीति । शिष्यः प्राह-या काचिदध्वनि प्रलम्बग्रहणे सामाचारी तामिदानीमेव भणत !गुरुराह[भा.१०२३] अद्धाणे जयणाए, परूवणं वक्खती उवरि सुत्ते।
ओमेऽववरिवोच्छिइ. रोगाऽऽयंकेसिमा जयणा ॥ वृ-अध्वनि गच्छतां याप्रलम्बग्रहणे यतना-सामाचारी तस्याः प्ररूपणमुपरि अध्वसूत्रे इहैवोद्देशके वक्ष्यति । अवमेऽपि यः कोऽपि विधि स सर्वोऽप्युपरि इहैव प्रलम्बप्रकृते वक्ष्यते। अत्र पुनर्यद् ग्लानत्वद्वारं तद् अभिधीयते । तच ग्लानत्वं द्विधा-रोग आतश्च । तयो रोगाऽऽतङ्कयोईयोरपि इयं वक्ष्यमाणलक्षणायतना॥तत्रतिष्ठतु तावद्यतना, रोगाऽऽतङ्कयोरेव कः परस्परं विशेषः? उच्यते[भा.१०२४] गंडी-कोढ-खयाई, रोगो कासाइगो उ आयंको ।
दीहरुया वा रोगो, आतंको आसुधाती उ॥ कृ-गण्डी-गण्डमालादिकः, कुष्ठं-पाण्डुरोगोगलत्कोष्ठंबा, क्षयः-राजयक्ष्मा, आदिशब्दात् श्लीपद-श्वयथु-गुल्मादिकः सर्वोऽपिरोगइतिव्यपदिश्यते।कासादिकस्तुआतङ्कः, आदिग्रहणेन श्वास-शूल-हिक्का-ज्वरा-ऽतीसारादिपरिग्रहः । अथवा दीर्घकालभाविनी सर्वाऽपि रुग् रोग उच्यते । यस्तु आशुघाती विसूचिकादिकः स आतङ्कः । अथ सामान्यतो ग्लानत्वे विधिमाह[भा.१०२५] गेलनं पि य दुविहं, आगाढं चेव नो य आगाढं।
आगाढे कमकरणे, गुरुगा लहुगा अनागाढे ॥ वृ-ग्लानत्वमपि द्विविधम्-आगाढं चैव नोआगाढं च अनागाढमित्यर्थः । आगाढे यदि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org