________________
उद्देशक : १, मूलं-१, [भा. ९३०]
२५
[भा.९३०] तंकाय परिचयई, नाणं तह दंसणंचरितंच ।
बीयाईपडिसेवग, लोगो जह तेहि सो पुट्ठो।। वृ-प्रलम्बं गृह्णन् 'तं कायं' वनस्पतिलक्षणं परित्यजति, तथा ज्ञानं दर्शनं चारित्रं चेति । बीजादिप्रतिसेवको लोको यथा असंयमेन स्पृष्टस्तथा सोऽपि साधुस्तैः प्रलम्बैरासेवितैरसंयमेन स्पृष्ट इति नियुक्तिगाथाक्षरार्थः । अथैनामेव विवरीषुराह[भा.९३१] कायं परिचयंतो, सेसे काए वए विसो चयई।
नाणे नाणुवदेसे, अवट्टमाणो उ अन्नाणी ।। वृ-प्रलम्बानि गृह्णानो वनस्पतिकायं परित्यजति, तं च परित्यजन् शेषानपि कायानसौ भावतः परित्यजति, तत्परित्यागे च प्रथमव्रतपरित्यागः, प्रथमव्रतपरित्यागे च शेषव्रतपरित्यागोऽप्युपजायत-इति "व्रतान्यप्यसौ परित्यजति" इत्युक्तम् । तथा 'ज्ञाने' ज्ञानविषये परित्यागे चिन्त्यमाने ज्ञानोपदेशे क्रियाद्वारेणाऽवर्तमानोऽसौ ज्ञान्यपि अज्ञानी मन्तव्यः ।। [भा.९३२] दंसण-चरणा मूढस्स नत्थि समया वन नस्थि सम्मंतु।
विरईलक्खण चरम, तदभावे नस्थि वा तंतु ॥ वृ-ज्ञानाभावादसौ मूढो भवति, मूढस्य दर्शन-चारित्रे न स्तः । यद्वा प्रलम्बग्रहणादस्य जीवेषु समता न विद्यते । समताया अभावाच्च सम्यक्त्वमपि नास्ति, तस्यापि सामायिकभेदतया समतारूपत्वात्।विरतिलक्षणंचरणंभणितम्, तच्च लक्षण प्रलम्बानि गृह्णतो न विद्यते। तदभावे' लक्षणाभावे 'तत्तु' तत् पुनश्चारित्रं नास्ति । वाशब्दः प्रकारान्तरद्योतकः ।। अथ "वीयाई" इत्यादि व्याख्यावते-फलाद् बीजं भवतीति कृत्वा बीजग्रहणम्, आदिशब्दात् फल-पुष्प-पत्रप्रबाल-शाखा-त्वक्-स्कन्ध-कन्द-मूलानि गृह्यन्ते ।शिष्यः प्राह-सर्वेऽपि वनस्पतयस्तावद् मूलादय एव भवन्ति अतः “मूलाईपडिसेवग" इति कर्तुमुचितकिमिति “बीयाईपडिसेवग"त्ति कृतम्? सूरिराह[भा.९३३] पाएण बीयभोई, चोयग ! पच्छानुपुब्दि वा एवं ।
जोनिग्घाते व हतं, तदादि वा होइ वनकाओ ।। घृ-लोकः प्रायेण बीजभोजी, तेन कारणेन बीजमादौ कृतम् । यद्वा हे नोदक ! स्वसमये त्रिविधाऽऽनुपूर्वीप्ररूप्यते, तद्यथा-पूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वीच त्रिविधाऽपिच यथावसरं व्याख्याङ्गमित्यत्र पश्चानुपूर्वी गृहीत । अथवा बीजं वनस्पतीनां योनि-उत्पत्तिस्थानम् अतस्तस्य घाते-विनाशे सर्वमपि मूलादिकं निरपेक्षतया हतं भवति।यदि वा तदादिर्वनस्पतिकायो भवति। तद्-बीजमादिर्यस्य स तदादि, सर्वेषामपि वनस्पतीनां तत एव प्रसूतेः । अतो बीजादिग्रहणं कृतम् ।। ततश्च[भा.९३४] विरइसभावं चरणं, बीयासेवी हुसेसघाती वि।
अस्संजमेण लोगो, पुट्ठो जह सो विहु तहेव ॥ वृ-यो बीजासेवी स नियमात् 'शेषाणां' मूलादीनामपि घाती विज्ञेयः । यश्च मूलादीनि घातयति तस्य विरतिस्वभावं यत् 'चरणं' चारित्रं तन्त्र भवति । यथा च बीजादिप्रतिसेवको लोकोऽसंयमेन स्पृष्टस्तथैवासावपि तैः प्रलम्बैरासेवितैरसंयमेन स्पृष्ट इति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org