SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २४४ बृहत्कल्प-छेदसूत्रम् -१-१/१ परितापनाभिभूतः सन् सूत्रपौरुषीं न करोति मासलघु, अर्थपौरुषीं न करोति मासगुरु, सूत्र नाशयति चतुर्लघु, अर्थ नाशयति चतुर्गुरु, प्राशुकं स्थापयति चतुर्लघु, अप्राशुकं स्थापयति चतुर्गुरु, प्रत्येकस्थापने चतुर्लघु, अनन्तस्थापने चतुर्गुरु इत्यादि प्राग्वद् वक्तव्यम् । “महय" त्तिमहादुखेषड्लघु, मूर्छयांषड्गुरु, कृच्छ्रपाणेच्छेदः, कृच्छोच्छ्वासे मूलम्, समवहतेऽनवस्थाप्यम्, कालगते पाराञ्चिकम् ।। अथ “यच्च तृणग्रहणादिकमुपधिना विना भवेत्" इति पदं विवृणोति[भा.९०३] तणगहणे झुसिरेतर, अग्गी सट्ठाण अभिनवेजंच। एसणपेल्लण गहणे, काया सुत मरण ओहाणे । -वर्षाकल्पादावुपकरणेहृतेशीताभिभूतास्तृणानि गृह्णन्ति सेवन्ते । तत्रशुषिरतृणसेवने चतुर्लघु, अशुषिरतृणसेवने मासलघु। अग्नि सेवन्ते तत्र स्वस्थानप्रायश्चित्तम्, चतुर्लघु इत्यर्थः। अथाभिनवमग्निं जनयनति मूलम्, यच्चाग्निसमारम्भेऽन्येषां जीवानां विराधनं तनिष्पन्नमपि प्रायश्चित्तम् । अथोपकरणाभावेउद्गमादिदोषदुष्टं वस्त्रादि गृह्णन्त एषणांप्रेरयन्ति ततस्तन्नष्पन्नम्। "गहणे"त्ति शीतादिभिः परिताप्यमाना गृहस्थैरदत्तमपि वस्त्रादि गृह्णीयुस्तन्नियुस्तन्निष्पन्नम्। निशीथचूर्णिकृतातु "गणे" त्ति पाठो गृहीतः, तत्र चोपधिं विना शीतादिपरीषहमविषहमाणो यद्यन्यतीर्थिकेष्वेकः साधुर्गच्छतिमूलम्, द्वयोर्गच्छतोरनवस्थाप्यम्, त्रिषुपाराञ्चिकम् । “काय" त्ति अग्नि सेवमाना एषणांप्रेरयन्तो वायत्पृथिव्यादिकायान् विराधयन्ति तनिष्पन्नम् । “सुत" त्ति 'श्रुतं' सूत्रं तस्य पौरुषीं न कुर्वन्ति, उपलक्षणत्वाद् अर्थपौरुषीं न कुर्वन्ति सूत्रं नाशयन्ति अर्थ नाशयन्ति तन्निष्पन्नम्। “मरण"त्ति उपकरणं विनायोकोऽपिम्रियते तथापि पाराञ्चिकम्, "ओहाण"त्ति यद्येकः साधुरवधावति मूलम्, द्वयोरनवस्थाप्यम्, त्रिषुपाराञ्चिकम्॥ अथ ग्रहणाकर्षणादिरूपंषष्ठं प्रकारं भावयति[भा.९०४] गेण्हण गुरुगा छम्मास कड्डमे छेदो होइ ववहारे। पच्छाकडम्मि मूलं, उड्डहण विरुंगणे नवमं ।। वृ-प्रलम्बानि गृह्णानो यदि प्रलम्बस्वामिना दृष्टवा गृहीतस्ततो ग्रहणे चतुर्गुरुकाः । अथ तेनोपकणेहस्तेवागृहीत्वा राजकुलाभिमुखमाकृष्टस्ततआकर्षणेषण्मासागुरवः ।अथकारणिकानं समीपे व्यवहारे कारयितुमारब्धततश्छेदः । व्यवहारे विधीयमाने यदिपश्चात्कृतः पराजितस्ततो मूलम् । अथ चतुष्क-चत्वरादिषु 'एष प्रलम्बचौरः' इतिघोषणापुरस्करमुद्गग्धः हस्त-पादादौ वा अवयवे व्यङ्गितस्तत एवमुद्दहने "विरुंगणे"त्तिव्यङ्गने वा 'नवमम्' अनवस्थाप्यम् ।। [भा.९०५] उद्दवणे निव्विसए, एगमनेगे पदोस पारंची। ___अणवठ्ठप्पो दोसुय, दोसुय पारंचिओ होइ॥ वृ-अथान्यायोदीर्णकोपानलेन राजादिना अपद्रावितो निर्विषयो वा आज्ञप्तस्ततोऽपद्रावणे निर्विषये वा कृते पाराञ्चिकम् । अथवा एकस्यानेकेषां वा साधूनामुपरि प्रद्वेषं यदि व्रजति तदा पाराञ्चिकम्।अत्रच 'द्वयोः' उद्दहन-व्यङ्गनयोरनवस्थाप्यो भवति, 'द्वयोश्च अपद्रावण-निर्विषययोः पाराञ्चिक इति ॥अथ परिग्रहविशेषेण प्रायश्चित्तविशेषमाह[भा.९०६] आराम मोल्लकीए, परतित्थिय भोइएण गामेण । वणि-घड-कुडुवि-राउलपरिग्गहे चेव भद्दितरा ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy