SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २४३ उद्देशक ः १, मूलं-१, [भा. ८९७] जायसु ममं व कजे, मागिण्ह सयंत पडिसेहो॥ वृ-'यद् गृहीतं प्रलम्बं तद् गृहीतं नाम, द्वितीयं पुनरिं मा ग्रहीः' इति वचनं यद् वक्ति, यद्वा गृहीतं सत्प्रलम्बं तस्य प्रव्रजितस्य हस्ताद् 'हरति' उद्दालयति, भणति वा कार्ये समापतिते मामेव याचस्व, स्वयं पुनर्मा गृहाण' इत्येष सर्वोऽपि प्रतिषेध उच्यते ।। अथ खरण्टनामाह[मा.८९८] धी मुंडितो दुरप्पा, धिरत्यु ते एरिसस्स धम्मस्स । ___ अन्नत्थ वा विलब्मिसि, मुक्को सिखरंटणा एसा ॥ वृ-धिग्मुण्डितो दुरात्मा । धिगस्तु ते तव सम्बन्धिन ईद्दशस्य धर्मस्य, यत्रचौर्यं क्रियत इति भावः । यद्वा मया मुक्तोऽसि परमन्यत्रात्ममीशैश्चेष्टितैर्विडम्बना लप्स्यसे । एषा निष्पिपासनिर्भर्त्सना खरण्टना भण्यते।। उपालम्भमाह[भा.८९९] आमफलाणि न कप्पंति तुम्ह मा सेसए वि दूसेहिं । मा य सकज्जे मुज्झसु, एमाई होउवालंभो ।। वृ-आमफलानियुष्माकंग्रहीतुंन कल्पन्ते,अतःशेषानपिसाधून 'मादूषय निजदुश्चरितने माकलङ्कित्तान्कुरु,मच 'स्वकार्ये निरवद्यप्रवृत्यात्मकेचारित्रेमुहः, एवमादिकः सपिपासशिक्षारूप उपालम्भो भावति ॥प्रान्तापनोपधिहरणे भावयति[भा.९००] कर-पाय-दंडमाइसु, पंतावणगाढमाइजा चरिमं । अप्पो अअहाजाओष सव्वो दुविहो विजं च विना॥ वृ- कर-पाद-दण्डादिभिः आदिशब्दाद् लतादिभिश्च ताडनं प्रान्तापना । तस्यां चानागाढपरितापादिषु 'चरम' पाराश्चिकं यावत् प्रायश्चित्तम् ।अल्पं वा बहुं वा स उपधिं हरेत् । अल्पो नाम यथाजातः, निषधाद्वयोपेतं रजोहरणं मुखवस्त्रिका चोलपट्टकश्चेत्यर्थः । बहुः पुनः 'सर्व' चतुर्दशविध उपधिः अथवा 'द्विविधः' औधिकौपग्रहिकरूपः । यच्च तृणग्रहणादिकमुपधिं विना भवेत् तनिष्पन्नं प्रायश्चित्तम् ।। सम्प्रत्यनुग्रहादिपदेषु प्रायश्चित्तमाह[भा.९०१] लहुगा अनुग्गहम्मी, अप्पत्तिय गुरुग तीसु ठाणेसु । पंतावणे चउगुरुगा, अप्प बहुम्पी हिए मूलं ।। वृ-यस्य सम्बन्धी स आरामः स यदि चिन्तयति 'अनुग्रहो मे यद् मदीयानि प्रलम्बानि साधवो गृह्णन्ति' इत्यनुग्रहे मन्यमा चतुर्लघवः । अथाप्रीतिकं करोति तूष्णीकश्चतिष्ठति ततश्चतुगुरुकाः ।अथाप्रीतिकवशात्प्रतिषेधं खरण्टनामुपालम्भंवा कुर्यात् ततस्विष्वपि स्थानेषुप्रत्येक प्रत्येकंचुतुर्गुरवः ।प्रान्तापनेऽपिचतुर्गुरुकाः ।अल्पेवा बहौवा उपधौहतेमूलम् । यद्वोपधिनिष्पत्रम्, तद्यथा-उत्कृष्टे उपधौ चतुर्लघवः,मध्यमे मासलघु, जघन्ये रात्रिन्दिवपञ्चकम्।आह कथमेकत्रैव मूलम् ? उपधिनिष्पनं वा ? उच्यते-प्रमादतः प्रलम्बानि गृह्णत उपधिकरणे उपधिनिष्पन्नम्, दर्पतस्तु प्रलम्बानि गृह्णानस्योपकरणापहारे मूलम् ।। अथ “पंतावणगाढमाइ चरिमं पि (जा चरिम) पदं व्याचष्टे[भा.९०२]परितावणाइ पोरिसि, ठवमा महय मुच्छ किच्छ कालगए। __मास चउ छच्च लहु गुरु, छेओ मूलं तह दुगं च ।। वृ-प्रान्तापितस्य सतोऽनागाढा परितापना भवति चतुर्लधु, आगाढा भवति चतुर्गुरु, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy