________________
बृहत्कल्प-छेदसूत्रम् - १प्रथमायामप्युत्पादयेत् । अथ वहवो गृहस्था द्रष्टव्या महता च कष्टेन ते श्रद्धां ग्राह्यन्ते ततो द्वयोरपि पौरुषयोः सर्वासु वा पौरुषीषु पर्यटति । यद्यपरे गीतार्थास्तस्य लब्धि नोपध्रन्ति तदा स तैः सहित एवोत्पादयेद् वा वस्त्राणि, प्रभावयेद् वा दानधर्म गृहिणां पुरतः । यथा-- ईध्शः साधूनां धर्म, न कल्पते अमीषां भगवतामुद्रमोत्पादनैषणादोषदुष्टं पिण्ड-शय्या वस्त्र पात्रचतुष्टयं ग्रहीतुम्, तदभीषां वस्त्रादावुपयोज्यमाने महती कर्मनिजरेत्यादि । अथ ते गीतार्थास्तस्य लब्धिमुपहन्युस्ततस्तैः 'असहितोऽपि' एकाकी उत्पादयतु वा प्रभावयतु वा, न कश्चिद्दोषः । इत्यं तावद् वस्त्रादीनां कल्पिको भवत्विति कृत्वा यथा आचार उत्सार्यते तथा प्रतिपादितम् । अथ दृष्टिवादो येन कारणेनोत्सार्यते तत् प्रतिपादयति
१९८
[भा. ७४४ ] कालियसुआनुओगम्मि गंडियाणं समोयरणहेउं । उस्सारिति सुविहिया, भूयावायं न अन्नेणं ॥
वृ- इह यो धर्मकथालब्धिसम्पन्नः परमद्यापि स्वल्पपर्यायत्वाद् द्दष्टिवादं पठितुमप्राप्तस्तस्य कालिक श्रुतानुयोगेन धर्मकथां कुर्वाणस्य गण्डिकाः- कुलकर- तीर्थकरगण्डिकादयो दृष्टिवादान्तर्गता उपयुज्यन्त इति तासां गण्डिकानां कालिक श्रुतानुयोगे समवतारणाहेतोरुद्देश- समुद्देशादिविधिं विना न कल्पते तासामध्ययनादिकमिति कृत्वा 'सुविहिताः' शोभनविहितानुष्ठाना आचार्या 'भूतवादं' दृष्टिवादमुत्सारयन्ति, न 'अन्येन' 'वाचको भूयात्' इत्यादिना कारणेन ॥ तदेवमाचारो दृष्टिवादश्च यथोत्सार्यते तथाऽमिहितम्, बाहुल्येनानयोरेवोत्सारणीयत्वात्; अत एवोक्तं पूर्वम्"आयारदिङिवायत्थजाणए" त्ति । अथ "कालमसज्झायऽवक्खेवे" त्ति यत् प्राक् पदत्रयमुक्तं तत्राऽऽद्यं पदद्वयं तावद् विवृणोति -
[ भा. ७४५ ]
सज्झायमसज्झाए, सुद्धासुद्धे व उद्दिसे काले ! दो दो अ अनोपसुं, ओएस उ अंतिमं एकं ॥
वृ-तस्योत्सारकल्पे क्रियमाणे स्वाध्यायिके अखाध्यायिके वा शुद्धे वा काले विवक्षितश्रुतमुद्दिशेत्, “सर्व वाक्यं सावधारणं भवति" इति न्यायादुद्दिशेदेव, न व्याधातं कुर्यात् । केन विधिना ? इत्यत आह-- "दो दो अ अनोएसुं" त्ति ओजः शब्देन विषममुच्यते, तद्विपरीता अनोजसः समा द्वि-चतुः षडादय उद्देशका यत्रोध्ययने तत्र अनोजस्सु उद्देशकेषु दिने दिने द्वौ द्वावुद्देशकावुद्दिशेत् । कथम् ? इति चेद् उच्यते-प्रथमायां पौरुष्यां प्रथममुद्देशकमुद्दिश्य समुद्दिश्य च द्वितीय उद्दिश्यते, द्वितीयस्यामुभयोरप्युद्देशकयोः तस्य अनुयोगो दीयते, ततश्चरमपौरुष्यां प्रथममुद्देशकमनुज्ञाय द्वितीयोद्देशकः समुद्दिश्यते अनुज्ञायते चेति चूर्णिलिखिता सामाचारी । तथा 'ओजस्सु' त्रि-पञ्ज- सप्तादिसङ्गखकेषु विषमेषूद्देशकेषु अन्तिममुद्देशकमेवोद्दिशेत्, यथा शस्त्रपरिज्ञाध्येयने । तथाहि तत्र सप्तोद्देशकाः, तेषु च त्रिभिर्दिवसैः षडुद्देशकानुद्दिश्य चतुर्थे दिवसे एक एव अवशिष्यमाणः सप्तम उद्देशक उद्दिश्यते । स च प्रथमपौरुष्यामुद्दिश्य समुद्दिश्य चरमायामनुज्ञायते ॥
[भा. ७४६ ]
एगंतरमायंबिल, विगईए मक्खियं पि वज्जेति । जावइअं च अहिज्जइ, तावइयं उद्दिसे केइ ।।
वृ- तथा 'एकान्तरम्' एकदिवसान्तरितमाचाम्लमसौ करोति, एकस्मिन् दिवसे
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International