________________
पीठिका - [भा. ७०६]
१८५
इति प्रज्ञापितौ स्वयं वा यद्युपरतौ ततः प्रायश्चित्तमप्युपरतम्; अथनोपरमेते ततो द्वितीयं सप्तरात्रं दिने दिने षड्लघवः; यदि द्वितीये सप्तरात्रेऽपि गते न प्रति निवृत्तौ तदा तृतीयं सप्तरात्रं प्रत्यहं षड्गुरवः । यद्येतावता स्थितौ ततः सुन्दरमेव, नो चेत् ततश्चेदः प्रधावति । तत्रैके आचार्या पञ्चरात्रिन्दिवादरभ्य च्छेदं प्रस्थापयन्ति, अपरे पुनश्चतुर्गुरुकादिति । पञ्चरात्रिन्दिवप्रस्थापनायां भूयोऽप्यादेशयुगम्, तद्यथा- केचिदाचार्या लघुभ्यः केचित्तु गुरुभ्यः पञ्चरात्रिन्दिवेभ्यः छेदं प्रारभन्ते । तत्र लघुपञ्चरात्रिन्दिवप्रस्थापनाप्रथमतो भाव्यते - सप्तरात्रत्रयानन्तरं तुरीयं सप्तरात्रं लघुपञ्चकच्छेदः, नवमं गुरुपञ्चदशकः, दशमं लघुर्विंशतिरात्रिन्दिवः, चतुर्दशं लघुमासिकः, पञ्चदशं गुरुमासिकः, षोडशं चत्रुलघुमासिकः, सप्तदशं चतुर्गुरुमासिकः, अष्टादशं लघुषाण्मासिकः, एकोनविंशं सप्तरात्रं गुरुषाण्मासिकच्छेद इति सर्वसङ्ख्यया त्रयस्त्रिंशं शतमहोरात्राणां भवति ।
J
गुरुपञ्चकप्रस्थापनायां तु सप्तरात्रत्रयानन्तरं सप्ताहोरात्राणि प्रथमत एव गुरुपञ्चकश्छेदः, ततः सप्ताहं लघुदशकः एवं पूर्वोक्तविधिना गुरुदशकादयोऽपि षडगुरुकान्ताश्छेदाः सप्ताहं सप्ताहं प्रत्येकं द्रष्टव्या इति; अत्र चाष्टादशभिः सप्तरात्रैः षड्विशं शतं रात्रिन्दिवानां भवति । यदा तु यतः प्रभृति तपः प्रायश्चित्तमुपक्रान्तं तत आरभ्य च्छेदविवक्षा क्रियते तदा चतुर्थे सप्तरात्रे प्रथमत एव चतुर्गुरुकच्छेदः, पञ्चमे षड्लघुकः, षष्ठे षडगुरु, एवं षड्भिः सप्तरात्रैर्द्वाचत्वारिंशद् दिनानि भवन्ति । इत्थं त्रयाणामादेशानामन्यतमेनादेशेन च्छिद्यमानोऽपि भूयस्त्वाद् यदा पर्यायी
च्छिद्यते ततो यद्यपि देशोनपूर्वकोटीप्रमाणः पर्यायोऽवशिष्यते तथापि स सर्वोऽपि युगपदेकदिनेनैव च्छिद्यते इति सर्वच्छेदलक्षणं ततो मूलम्, ततो द्वितीये दिवसेऽनवस्थाप्यम्, तृतीये पाराञ्चितम् ॥ अथ सामान्यतस्तपः स्थानानि च्छेदस्थानानि च परस्परं किं तुल्यानि ? किं वाहीना - ऽधिकानि ? उच्यते - तुल्यानि । यत आह
[भा. ७०७] तुल्ला चेव उ ठाणा, तव छेयाणं हवंति दोन्हं पि । पगाइ पणगड्डी, दोह वि छम्मास निडवणा ।।
वृ- तपश्छेदयोर्द्वयोरपि स्थानानि तुल्यान्येव भवन्ति, न हीनानि नाप्यधिकानीति एवशब्दार्थः । कुतः ? इत्याह- " पनगा" इत्यादि । यतः 'द्वयोरपि' तपश्छेदयोः पञ्चकं पञ्च रात्रिन्दिवान्यादौ कृत्वा पञ्चकवृध्या वर्द्धमानानां स्थानानां षअमासेषु 'निष्ठापना' समापनां भवति । इयमत्र भावना-लघुपञ्चकादीनि गुरुषाण्मासिकपर्यन्तानि यान्येव तपः स्थानानि तान्येव च्छेदस्यापीति तुल्यान्येवानयोः स्थानानि । एतेन च लघुपञ्चकादर्वाग् गुरुभ्यः षण्मासेभ्य ऊर्ध्वं छेदो न भवतीत्यावेदितं द्रष्टव्यम् ॥ अथ कीदृशस्य गणधरपदाध्यारोपणा विधीयते ? उच्यते[भा. ७०८] पढिय सुय गुणिय दारिय, करणे उवउत्तो छहि वि ठाणेहिं । छाणसंपत्तो, गणपरियट्टी अणुन्नाओ ॥
वृ- निशीथाध्ययने 'पठिते' सूत्रतः सम्पूर्णेऽप्यधीते, ततः श्रुते' अर्थतः सद्गुरुमुखादाकर्णिते, 'गुणिते' परावर्त्तना - ऽनुप्रेक्षाभ्यामत्यन्तस्वभ्यस्तीकृते, 'धारिते' चेतसि सम्यग्व्यवस्थापिते, ततः ‘करणे' तदुक्ताया विधि- प्रतिषेधरूपाया आज्ञाया विधाने, 'उपयुक्तः' प्रमादरहितः केषु ? इत्याह- 'षट्सु स्थानेषु' पञ्चसु महाव्रतेषु रात्रिभोजनविरमणषष्ठेष्वित्यर्थः, गाथायां प्राकृतत्वात् तृतीयार्थे सप्तमी । एतैः षड्भिः स्थानैः पठित-श्रुत-गुणितधारित यथोक्तकरण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org