________________
१८४
तदेवसिय तस्सा, मांसा चत्तारि भारिया ॥
वृ- अबहुश्रुतो नांम येनाऽऽचारप्रकल्पाध्ययनं नाधीतं अधीतं वापरं विस्मारितभू, अगीतार्थः येन च्छेदश्रुतार्थो न गृहीतो गृहीतो वा परं विस्मारितः, तस्मिन् अबहुश्रुतेऽ गीतार्थे यः 'गणं' गच्छं 'निसृजति' निक्षिपति तस्य चत्वारो भारिका मासाः । यो वा अभहुश्रुतो अमीतार्थो वागणं निसृष्टं धारयति तस्यापि चत्वारो मासी गुरुकाः । एतच्च 'तद्दैवसिक' तद्दिवसनिष्पन्नं प्रायश्चित्तम्, द्वितीयादिषु तु दिवसेषु धत् प्रायश्चित्तमापंद्यते तदुपरिष्टाद् वक्ष्यते ।। अथैनामेव नियुक्तिगाथां भावयति
वृहत्कल्प-छेदसूत्रम् -१
[भा. ७०४] अबहुस्सुअस्स देइ व, जो वा अबहुस्सुओ गणं धरए । भंगतिगम्मिं वि गुरुना, चरिमें भंगे अणुन्नाओ ॥
इह चत्वारो भङ्गाः, तद्यथा- अबहुश्रुतो नामैकोऽगीतार्थश्च १ अबहुश्रुतो गीतार्थः २ बहुश्रुतोऽगीतार्थः ३ बहुश्रुतो गीतार्थश्चेति ४ । तत्र अबहुश्रुतस्यागीतार्थस्य गणं ददाति चत्वारो गुरवः । अबहुश्रुतस्य गीतार्थस्य ददाति चतुर्गुरवः अस्य च प्रमादादिना सूत्रं विस्मृतम् अर्थं पुनः स्मरतीत्यबहुश्रुतस्य गीतार्थत्वम्, यद्वा आज्ञा-धारणादिमात्रव्यवहारेणाबहुश्रुतस्यापि गीतार्थत्वमिति । बहुश्रुतस्यागीतार्थस्य ददाति चत्वारो गुरवः, अनेन चाऽऽचारप्रकल्पाध्ययनं सूत्रतोऽधीतं न पुनरर्थतः श्रुत्वा सम्यगधिगतमिति बहुश्रुतस्यागीतार्थत्वम् । बहुश्रुतस्य गीतार्थस्य ददातीत्यत्र चतुर्थे भङ्गे शुद्धः । यो वा अबहुश्रुतों गीतार्थो धारयति २ बहुश्रुतोऽगीतार्थो धारयति ३ त्रिष्वपि चतुर्गुरुकाः । बहुश्रुतो गीतार्थो धारयतीत्यत्र शुद्धः । अत एवाह 'भङ्गत्रिकेऽपि' त्रिष्वप्याद्यभङ्गेषु गणदायक- धारकयोरुभयोरपि 'गुरुकाः ' चतुर्गुरवः । 'चरमे' चतुर्थे भङ्गे शुद्धत्वाद् दायको धारको या अनुज्ञातः, न तत्र कश्चिद्दोषः ॥ अत्र परः प्राह-यदेतत् प्रायश्चित्तं भणितं किमेतावता पर्यवसितम् ? किं वा न ? इति उच्यते-नेति । तथा चाह नियुक्तिकारः-
[भा. ७०५]
सत्तरतं तवो होइ, तओ छेओ पहावई । छेएणऽच्छिन्नपरियाए, तओ मूलं तओ दुगं ।।
वृ- सप्तरात्रमिति जातावेकचनम्, ततोऽयमर्थ त्रीणि सप्तरात्राणि यावत् चतुर्गुर्वादिकं तपो भवति । त्रिष्वपि सप्तरात्रेषु गतेषुयद्यनुपरतौ 'ततः ' सप्तरात्रत्यानन्तरं छेदस्तयोराचार्ययोरभिमुखं प्रकर्षेण धायति प्रधावति । छेदेनापि यस्य प्रभूतत्वात् पर्यायो न च्छिद्यते तस्मिन्नाचार्ये छेदेनाच्छित्रपर्याय एकेनैव दिवसेन मूलम् । ततो 'द्विकम् अनवस्थाप्य पाराञ्चिकयुगम् ॥
अथैनं श्लोकं विवरीषुराह
[ भा. ७०६] एक्केक्क सत्त दिने, दाऊण अइच्छियम्मि उ तवम्मि । पंचाइ होइ छेदो, केसिंचि जहा कडो तत्तो ॥
वृ- 'एकैकं ' तपश्चतुर्गुरुकादि सप्त सप्त दिनानि दत्त्वा ततस्तपः प्रायश्चित्तेऽतिक्रान्ते पञ्चकादिकश्चेदो भवति । केषाञ्चिदाचार्याणामयादेश: - 'यथा', यत एवं स्थानात् तपः 'कृत' प्राब्धं तत आरभ्य च्छोदोऽपि दीयते, चतुर्गुरुकादित्यर्थः । इयमत्र भावना तयोराचार्ययोः प्रथमतः सप्तरात्रं यावद् दिवसे दिवसे चतुर्गुरुकमू; यद्येतावति गते केनाप्यपरेण गीतार्थेन 'आचार्या ! न कल्पते अबहुश्रुतस्यागीतार्थस्य वा गणं दातुं धारयितु वा, ततः प्रतिपद्यध्वं सम्प्रत्यपि प्रायश्चित्तम्'
For Private & Personal Use Only
www.jainelibrary.org
!
Jain Education International