________________
बृहत्कल्प-छेदसूत्रम् -१
वर्जितुं शीलं येषां तेतत्पिण्डविवर्जिनः साधवः । किमुक्तं भवति ? -कोऽपि राजा स्वभावत एव भद्रकः श्रावकोवा, ततः साधवोऽत्यर्थःमभ्यर्थिता अपि 'न कल्पते राजपिण्डः' इति हेतोर्यदान गृह्णान्ति तदासः 'यथातथापुण्यमुपार्जयामि' इति विचिन्त्यान्यत्र वस्त्राणिस्थापयेत् ।स्तेनस्यापि वस्त्रं न गृह्णन्ति, माभूत् 'तदाह्वतं' स्तेनाहृतं तदीयं वस्त्रमिति, ततः सोऽपि संयतभद्रकः ‘मदीयं न स्वीकुर्वन्ति' इत्यन्यत्र प्रक्षिपेत् ।। उपसंहारमाह[भा.६२९] एए उ अधिपते, अन्नहि सन्निक्खिवंति समणट्टा ।
निस्खेवओ वि एवं, छिन्नमछिन्नो उ कालेण ।। वृ.एते' श्रमणादयोऽनन्तरोक्तकारणैः 'अगृह्यमाणे' वस्त्रे 'अन्यस्मिन्’ भावितकुलादौ 'श्रमणार्थ' साधूनामर्थाय संनिक्षिपन्ति इत्युक्तः प्रक्षेपकः । सम्प्रति निक्षेपकः प्ररूप्यते- अथ प्रक्षेपक-निक्षेपकयोः कः प्रतिविशेषः? उच्यते साधूनामेवार्थाय या वस्त्रस्य स्थापना स प्रक्षेपकः, यत् पुनः प्रथमं स्वार्थं निक्षिप्य पश्चात् साधूनामनुज्ञायते स निक्षेपकः, सोऽपि एवं प्रक्षेपकवद् द्रष्टव्यः । इयमतरभावना-यथाप्रक्षेपकः श्रमणादिषुस्तेनान्तेषुस्थानेषुभावितः तथा निक्षेपकोऽपि भावनीयः । यस्तु विशेषस्तंदर्शयति-"छिन्त्र" इत्यादि । स निक्षेपकः कालेन च्छिन्नो वा स्यादच्छिन्नो वा । छिन्नो नाम निर्धारितः, यदि वयं देशान्तरं गताः सन्त एतावतः कालादर्वाग्न प्रत्यागच्छामः ततोयुष्माभिरमूनिवस्त्राणिश्रमणेभ्यःप्रदातव्यानीति।अच्छिन्नः पुनःप्रतिनियतकालविवक्षारहितः
अत्र विधिमाह[भा.६३०] अमुगं कालमनागए, दिञ्जह समणाण कप्पई छिन्ने।
पुन्न समकाल कप्पइ, ठवियगदोसा अईअम्मि॥ वृ-देशान्तरंजिगमिषुः कोऽपिकस्यापि गृहे किञ्चिद्वस्त्रजातंनिक्षेप्तुकामोब्रूते-'अमुकं' विवक्षितं कालं मय्यनागते यूयं मदीयं वस्त्रं श्रमणेभ्यो दद्यात इत्यभिधाय निक्षेपकं निक्षिप्य गतोऽसौ देशान्तरंनाऽऽयातस्तावतः कालावधेराक्ततः कल्पते तद् वस्त्रम् । एवं विधिच्छिन्ने निक्षेपके किं सर्वदैव ? न इत्याह-पूर्णस्यावधेः समकालं कल्पते न परतः । कुतः ? इत्याहस्थापनैवस्थापितकं तस्य दोषा अतीते विवक्षितकालावधौ भवन्ति । अच्छिन्ने तु यदा प्रयच्छन्ति तदा कल्पते ॥ अथ आधुनिक्षिप्तवस्त्रविधिमाह[भा.६३१] असिवाइकारणेहिं, पुन्नाईए मणुननिक्खेवे।
परि जंति ठविंति व, छडिंति व ते गए नाउं ।। वृ-अशिवं-व्यन्तरकृतोपद्रवविशेषः, आदिग्रहणादवमौदर्यादिपरिग्रहः, तैरशिवादिभिः कारणैः पूर्णेऽतीते वा काले मनोज्ञाः-साम्भोगिकास्तेषां निक्षेपके यद् वस्त्रजातं तत् परिभुञ्जते। इयमत्रभावना-साम्भोगिकसाधुभिरशिवादिभि कारणैर्देशान्तरंव्रजद्मिनानादिप्रतिबन्धस्थितानां साधूनां समीपे यद् वस्त्रजातं निक्षिप्तं तत् पूर्णेऽतीते वा काले यद्यात्मनो वस्त्राणामसत्ता ततो वास्तव्यसाधवः परिभुञ्जतेन तत्र कश्चित् स्थापनादिदोषः ।अथ नास्ति वस्त्रणामसत्ता गृहीतानि वायैः प्रयोजनंततस्तथैवस्थापयन्ति।अथ ज्ञायतेयथा-तेततोऽपिदवीयांसमन्यं देशंगतास्ततस्तान् गतान् ज्ञात्वा “छटुंति" परिष्ठापयन्तीत्यर्थः । तदेवं कस्येति पृष्टे प्रक्षेपकादयो दोषाः सुनिर्णीता भवन्तीत्यावेदितम्। अथ कस्येति पृष्टे यो याद्दशमाशङ्कावचनं ब्रूयात् तदेतदभिधित्सुराह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org