________________
३५६
बृहत्कल्प-छेदसूत्रम् -३-६/१९६
यदाचार्यादीनांप्रायश्चित्तमुक्तं तत्तासामपियथाक्रमं ज्ञेयम्, अतएवाह-भिक्षुणीक्षुल्लकसशी। अथ स्थविरा प्रवर्तिनीप्रभृतिकामालपति ततः प्रवर्तिन्यास्तूष्णीकादिपदषट्कं कुर्वाणाया गुरुपञ्चदशकादिकंषड्लघुकान्तम्, अभिषेकाया लघुपञ्चदशकादिकं चतुर्गुरुकान्तम्, भिक्षुण्या गुरुदशकादिकं चतुर्लघुकान्तम्, स्थविराया लघुदशकादिकं मासगुरुकान्तम्, क्षुल्लिकाया गुरुपञ्चकादिकंमासलघुकान्तंज्ञेयम् ।अथ क्षुल्लिकाप्रवर्तिनीप्रभृतिकामालपतिसाचतूष्णाकादीनि पदानि करोति ततः प्रवर्तिन्या लघुपञ्चदशकादिकंचतुर्गुरुकान्तम्, अभिषेकाया गुरुदशकादिक चतुर्लघुकान्तम्, भिक्षुण्या लघुदशकादिकं मासगुरुकान्तम्, स्थविराया गुरुपञ्चकादिक मासलघुकान्तम्, क्षुल्लिकाया लघुपञ्चकादिकं गुरुभित्रमासान्तं मन्तव्यम् । अत एवह-"गुरुलहुपणगाइदोइयर"ति इतरे स्विराक्षुल्लिकेतयोईयोरपि यथाक्रमगुरुपञ्चकादिकंलघुपञ्चकादिकं चप्रायश्चित्तं भवति॥इह परुषग्रहणेन निष्ठुर-कर्कशेअपिसूचिते, ततस्तयोःप्रायश्चित्तंदर्शयितुं परुषस्य च प्रकारान्तरेण शोधिमभिधातुमाह[भा.६११२] लहुओ य लहुसगम्मिं, गुरुगो आगाढ फरुस वयमाणे ।
निझुर-कक्कसवयणे, गुरुगाय पतोसओ जंच । कृ'लहुसके स्तोकेपरुषवचनेसामान्यतोऽभिधीयमानेमासलघुआगाढपरुषवदतोमासगुरु। निष्ठुरवचने कर्कशवचने चत्वारो गुरवः । यच्च ते परुषं भणिताः प्रद्वेषतः करिष्यन्ति तनिष्पन्नं प्रायश्चित्तम् ॥अथ किमिदं निष्ठुरं? किं वा कर्कशम् ? इत्याशङ्कावकाशं विलोक्याऽऽह[भा.६११३] निव्वेद पुच्छितम्मिं, उन्मामइल त्ति निहुँरं सव्वं ।
मेहुण संसह्र कक्कसाई निव्वेग साहेति।। वृकयाऽपि महेलया कोऽपि साधुः पृष्टः केन निदेन त्वं प्रव्रजितः ? । स प्राह-मदीया बोजिका 'उद्भामिका' दुःशीला अतोऽहं प्रव्रजितः । एवमादिकं सर्वमपि निष्ठुरमुच्यते । तथा मैथुने संसृष्टं विलीनभावं सृष्टवा प्रव्रजितोऽहम् । एवं निर्वेदं यत् कथयति तदेवमादीनि वचांसि कर्कशानि मन्तव्यानि ।। इदमेव व्याचष्टे[मा.६११४] मयं वजं होइ रयावसाणे, तंचिक्कणं गुज्झ मलं झरंतं।
अंगेसु अंगाई निगूहयंती, निव्वेयमेवं मम जाण सोमे!॥ वृ- यद् रतावसाने मृतमिव भवति तदेवंविधं गुह्यं चिक्कणं मलं 'क्षरत् परिगलन, भार्या चात्मीयेष्वङ्गेषु आत्मीयान्येवाङ्गानि जुगुप्सनीयतया निगूहयन्ती मया दृष्टा,एतद् में 'निर्वेद' निर्वेदकारणं हे सौम्ये! जानीहि॥तथा[भा.६११५] सखेदणीसढविमुक्कगत्तो, भारेण छिनो ससई वदीहं।
हीओ मिजं आसि रयावसाणे, अनेगसो तेन दमंपवन्नो। वृ-सखेदं “नीसहूं" अत्यर्थविमुक्तगात्रःशिथिलीकृताङ्गो भारेण छिन्नः' त्रुटितो भारवाहको यथा दीर्घ निश्वासिति तथाऽहमपिरतावसाने यदनेकशएवंविधः 'आसम्' अभूवं तद् अतीव 'हीतः' लज्जितः, एतेन निदेन 'दम' संयम पाठान्तरेण व्रतं वा प्रपन्नोऽहम् ॥
गतं परुषवचनम् । अथागारस्थितवचनमाह[भा.६११६] अरे हरे बंभण पुत्ता, अव्वो बप्पो त्ति भाय मामो त्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org