________________
पीठिका - [भा. २० ]
दृष्टान्ता नृप - निधि - विद्यादयः, आदिशब्दाद् योगो मन्त्राश्च परिगृह्यन्ते । तत्रेयं नृपध्टान्तस्य भावना, यथा- कोऽपि पुरुषः कार्यार्थी राजानमधिगन्तुकामो मङ्गलभूतानि पुष्पादीन्यादाय तत्समीपमुपगच्छति । उक्तं च
पुप्फपुडियाइ जं पइ, गोरसघडओ करेइ कज्जाई । मणिबंधम्मि पयलिते, सानुग्गह होंति सव्वगहा ॥
उपगत्य चाऽञ्जलिं करोत, पादयोश्च प्रणिपतति, ततो राजा तुष्यति, तुष्टे च तस्मिन् यस्तदधीनोऽर्थः स सिध्यति । अथैवमुपचारं न करोति तदा न तुष्यति, तोषाभावे च तदधीनस्यार्थस्याप्रसिद्धि || एवं निधिमुत्खनितुकामो विद्यां मन्त्रं वा साधयितुकामो यदि द्रव्य-क्षेत्र -कालभावयुक्तमुपचारं करोति, तद्यथा-द्रव्यतः पुष्पादिषु, क्षेत्रतः स्मशानादिषु, कालतः कृष्णपक्षचतुर्दश्यादिषु, भावतः प्रतिलोमा ऽनुलोमोपसर्गसहिते, तदा निधिं विद्यां मन्त्रं वा साधयति । द्रव्याद्युपचाराभावे ते निध्यादयो न सिध्यन्ति । तस्माद् यो यत्रोपचारः स तत्र कर्त्तव्यः ॥
एतदेवाह -
[ भा. २१] जो जेन विना अत्यो, न सिज्झई तस्स तव्विहं करणं । विवरीय अभावेन य, न सिज्झई सिज्झई इहरा ॥
99
वृ. योऽर्थो येन विना न सिध्यति तस्य निष्पत्तये तद्विधं करणमवश्यमुपादातव्यम्, यथा घटं साधयितुकामेन चक्र-दण्ड- मृत्पिण्डादिकम् । यतो विपरीतैः करणैः सर्वथा करणानामभावेन च सौऽधिकृतोऽर्थो न सिध्यति, यथा घटं साधयितुकामस्य विपरीततुरि-वेमाद्युपकरणोपादाने सर्वथा चक्र- दण्ड-सूत्रोदकादीनामुपकरणानामभावे वा घटः । 'इतरथा' अविपरीतोपकरणसद्भावे सिध्यति, यथा घटं साधयितुकामस्य यथावस्थितानां चक्र- दण्ड- सूत्रोदकादीनामुपादाने घटम् । न सिध्यन्ति च मङ्गलमन्तरेण विघ्नोपशमादयो भावा इति मङ्गलोपादानं पुनरपि ॥
आह यदि शास्त्रस्याऽऽदि-मध्या ऽवसानेषु मङ्गलम्, ततः सामथ्यार्दिदमायातम् 'अपान्तरालद्वयममङ्गलम्' इति, अत्राह
[ भा. २२] जयवि य तिट्ठाण कयं, तहि वि हु दोसो न बाहए इयरो | तिसमुब्भवदिट्टंता, सेसं पि हु मंगलं होइ ॥
वृ- यद्यपि 'त्रिषु स्थानेषु' आदि-मध्या ऽवसानरूपेषु कृतं मङ्गलं तथापि 'इतरः ' अपान्तरालद्वयामङ्गलत्वलक्षणो दोषो न बाधते, तस्यैवाभावात् । कथमभावः ? इति चेत्, अत आह- "तिसमुब्भवे” त्यादि । त्रिभ्यः - गुड-समिति धृतेभ्यः समुद्भवो यस्य स मोदकः तद्द्दृष्टान्तात् शेषमपि 'हु:' निश्चितं मङ्गलं भवति । इयमत्र भावना-मोदक इव सकलं शास्त्र त्रिधा विभज्यते, तत्राऽऽदिमो भाग आदिमङ्गलेन मङ्गलीकृतः, मध्यमो मध्यमङ्गलेन, अन्तिमोऽन्तमङ्गलेन, ततः कुतोऽपान्तरालद्वयामङ्गलत्वप्रसङ्गः ।।
स्यादेतत्, यदिदं शास्त्रमारब्धमेतदाऽऽदि-मध्या- ऽवसानेषु सर्वात्मना मङ्गलम् ततो यद्यन्यत् तस्य मङ्गलमुपादीयते तदाऽनवस्थाप्रसङ्गः कृतेऽपि मङ्गले पुनरन्यन्मङ्गलमुपादेयम् विशेषाभावात्, तत्राऽप्यन्यदित्येवं मङ्गलानन्त्यप्रसक्तेः । अथ नन्दी मङ्गलम्, शास्त्र पुनरमङ्गलम्, केवलं तद्नन्द्या मङ्गलीक्रियते, नन्वेवं तर्हि यदा नन्दीव्याख्यानमकृत्वा शास्त्र व्याख्यातुमारभ्यते
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International