________________
१०
बृहत्कल्प-छेदसूत्रम् ..
[भा.१७] जमिदं नाणं इंदो, न व्यतिरिच्चति ततो उ तन्नाणी।
तम्हा खलु तब्मावं, वयंति जो जत्थ उवउत्तो॥ वृ-यद् इदं इन्द्र इति ज्ञानं तस्मान्न 'ज्ञानी' इन्द्रज्ञानी व्यतिरिच्यते । तस्माद् यो 'यत्र' इन्द्रादौ उपयुक्तः तस्य ‘तभावं' इन्द्रादिभावं तत्त्वविदस्सूरयो वदन्ति ।। ज्ञान-ज्ञानिनोरभेद एव कथं सिद्धः? इति चेत्, उच्यते-विपक्षेऽनेकदोषप्रसङ्गात् । तमेवाह[भा.१८] चेयण्णस्स उ जीवा, जीवस्स उचेयणाओ अन्नत्ते ।
दवियं अलक्खणं खलु, हविज्ज न य बंधमोक्खा उ ।। वृ-चैतन्यस्यजीवात् जीवात्चेतनाया अन्यत्वे 'द्रव्यं' जीवद्रव्यं अलक्षणं' "चेतनालक्षणो जीवः" इतिलक्षणरहितं भवेत् । चेतनायाघटादिवज्जीवादप्येकान्तव्यतिरिक्तत्वात् “लक्षणाभावे चलक्ष्यस्याऽप्यभावः" इति खरशृङ्गवदत्यन्तासन्जीवः ।यश्चाऽत्यन्तासन्सन बध्यते, बन्धस्य वस्तुधर्मत्वात्; नाऽपि मुच्यते, बन्धाभावादिति बन्ध-मोक्षावपि न स्याताम् । अथ मन्येथाः 'अचेतनोऽपि स बध्यते मुच्यतेच' इति तदप्यऽयुक्तम्, अचेतनानामप्येवं धर्मास्तिकायादीनां बन्ध-मोक्षप्रसक्तेः । तस्मात्साधूक्तम् “इन्द्रशब्दार्थं जानन् तदुपयुक्तो भावेन्द्रः" इति ।।
सम्प्रति नामेन्द्र स्थापनेन्द्रयोः प्रकारान्तरेण प्रतिविशेषमभिधित्सुराह[भा.१९] जह ठवणिंदो थुव्वइ, अनुग्गहत्थीहिं तह न नामिंदो।
एमेव दव्वभावे, पूयाथुतिलद्धिनाणत्तं ।। वृ- यथा स्थापनेन्द्रो अनुग्रह एवार्थोऽनुग्रहार्थ स येषामस्ति तेऽनुग्रहार्थिनस्तैः वाग्भि स्तूयतेपुष्पादिभिरर्यतेच, न तथानामेन्द्रोमाणवकः । ततोमहान् नामेन्द्र-स्थापनेन्द्रयोःप्रतिविशेषः। 'एवमेव' अनेनैवप्रकारेण द्रव्येन्द्रे भावेन्द्रेच पूजा-स्तुति-लब्धिभिर्नानात्वमवसातव्यम् । तद्यथाद्रव्येन्द्रोऽपि नामेन्द्र इवाऽनुग्रहार्थिभि न स्तूयते नाऽपि पूज्यते, यस्तु भावेन्द्रः स स्थापनेन्द्र इव स्तूयतेपूज्यतेच; ततो द्रव्येन्द्र-भावेन्द्रयोरपि महान्प्रतिविशेषः । अन्यच्च द्रव्येन्द्रइन्द्रलब्धिहीनः, यस्तु भावेन्द्रः सतल्लब्धिसम्पन्नः । तथाहि-ससामानिकत्रायस्त्रशकादिपरिवृतो विशिष्टद्युतिमान् स्फीतंराज्यमनुभवति । उपयोगचिन्तायामपि भावेन्द्र उफयोगलब्धिमान, द्रव्येन्द्र उपयोगलब्ध्या परित्यक्तः ॥तदेवमुक्तः सर्वत्र चतुष्कनिक्षेपप्रदर्शनायेन्द्रशब्दस्य निक्षेपः ।सम्प्रति प्रस्तुतमुच्यतेतत्र परः प्रश्नयति किमर्थं मङ्गलग्रहणम् ?" इति, आह[भा.२०] विग्धोवसमो सद्धा, आयर उवयोग निञ्जराऽधिगमो।
भत्ती पभावणा विय, निवनिहिविजाइ आहरणा ।। वृ-मङ्गले प्रकृते सति रोगादिविघ्नोपशमो भवति । तदुपशमेच प्रतिबन्धकाभावान्महता प्रबन्धेनाऽऽचार्येणाऽनुयोगः प्रारभ्यते । तथाऽनुयोगप्रारम्भे शिष्स्य शास्त्रग्रहणे महती श्रद्धोपजायते । श्रद्धावतश्च शास्त्रवधारणे महानाऽऽदरः । कृतादरस्य शास्त्रविषयेऽनवरतमुपयोगः । यदा यदा चोपयोगस्तदा तदा सम्यग्ज्ञानत्वान्महती ज्ञानावरणीयस्य कर्मणो निर्जरा । ज्ञानावरणकर्मनिर्जरणाच्च स्फुटः स्फुटतरः शास्त्रस्याधिगमः । अधिगतशास्त्रस्य च गुरौ शास्त्र प्रवचने च निकृत्रिमा भक्तिरुल्लसति । ततः प्रभावना, तां दृष्टवाऽन्येषामपि तथा श्रद्धांदीनां करणात्।यदि पुनर्न क्रियते मङ्गलं तत एषां विघ्नोपशमादिभावानामप्रसिद्धि।अत्र ‘उदाहरणानि' Jain Education International
For Private & Personal Use Only
www.jainelibrary.org