________________
३४८
बृहत्कल्प-छेदसूत्रम् -३-६/१९६
कत्थुजाणे गुरुओ, वयंत-दिठेसु लहु-गुरुगा॥ वृ-कोऽपि साधुरुद्याने स्थितानवसत्रान् दृष्ट्वा प्रतिश्रयमागत्य भणति-मया पारिहारिका दृष्टा इति; साधवो जानते यथा-शुद्धपारिहारिकाः समागताः; एवं छलाभिप्रायेण कथयत एव मासलघु । भूयस्ते साधवः । पारिहारिकसाधुदर्शनोत्सुकाः पृच्छन्ति-कुत्र ते दृष्टाः ?; स प्राहउद्याने; एवं भणतोमासगुरु । ततः साधवः पारिहारिकदर्शनार्थंचलिता व्रजन्तो यावद् न पश्यन्ति तावत् तस्य कथयतश्चतुर्लघु । तत्रगतैईष्टवसन्नेषु कथयतश्चतुर्गुरु॥ [भा.६०७७] छल्लहुगा उ नियत्ते, आलोएंतम्मि छग्गुरू होति ।
परिहरमाणा वि कहं, अपरिहारी भवे छेदो॥ वृ- 'अवसन्ना अमी' इति कृत्वा निवृत्तेषु तेषु कथयतः षड्लघवः । ते साधव ईर्यापथिकीं प्रतिक्रम्य गुरूणामालोचयन्ति-विप्रतारिता वयमनेन साधुनेति; एवं ब्रुवाणेषु तस्य षड्गुरु । आचार्यैरुक्तम्-किमेवं विप्रतारयसि?; स वष्टोत्तरंदातुमारब्धः-परिहरन्तोऽपिकथमपरिहारिणो भवन्ति ?; एवं ब्रुवतश्छेदः॥ [भा.६०७८] किं परिहरंति ननु खाणु-कंटए सव्वे तुझे हं एगो ।
सव्वे तुब्भे बहि पवयणस्स पारंचिओ होति। वृ-साधवोभणन्ति-किंतेपरिहरन्तियेन परिहारिका उव्यन्ते?; इतरः प्राह-स्थाणुकण्टकादिकं तेऽपिपरिहरन्ति; एवमुत्तरंददतोमूलम्। ततस्तैः सर्वैरपिसाधुभिरुक्तः-घृष्टोऽसियदेवंगतेऽप्युत्तरं ददासीति; ततः स प्राह-सर्वेऽपि यूयमेकत्र भूता अहं पुनरेकोऽसहायो अतः पराजीये, न पुनः परिफल्गुमदीयंजल्पितम्:एवं भणतोऽनवस्थाप्यम् । अथ ज्ञानमदावलिप्त एवं ब्रवीति-सर्वेऽपि यूयं प्रवचनस्य बाह्याः; एवं सनिधिक्षिपन् पाराश्चिको भवति ॥ इदमेवान्त्यपदं व्याचष्टे[मा.६०७९] किंछागलेण जंपह, किंमं होप्पेह एवऽजाणंता ।
बहुएहि को विरोहो, सलभेहि व नागपोतस्स ॥ वृ-किमेचंछागलेन न्यायेनजल्पथ?,बोत्कटवन्मूर्खतया किमेवमेव प्रलपथ? इत्यर्थः । किं वा मामेवमजानन्तोऽपि “होप्पेह" गले घृत्वा प्रेरयथ? ।अथवा ममापि बहुभि सह को विरोधः शलभैरिव नागपोतस्येति । अथ घोटकमुखीद्वारमाह[भा.६०८०] भणइ य दिट्ठ नियत्ते, आलोए आमं ति घोडगमुहीओ।
मानुस सव्वे एगे, सब्वे बाहिं पवयणस्स॥ [भा.६०८१] मासो लहुओ गुरुओ, चउरो मासा हवंति लहु-गुरुगा।
चम्मासा लहु-गुरुगा, छेओ मूलं तह दुगंच॥ वृ-एकः साधुर्विचारभूमौ गत उद्यानोद्देशे वडवाश्चरन्तीरवलोक्य प्रतिश्रयमागतः साधूनां विस्मितमुखः कथयति-शृणुत आर्या! अद्यमया याद्दशमाश्चर्यं दृष्टम्; साधवः पृच्छन्ति-कीशम्?; स प्राह-घोटकमुख्यः स्त्रयो दृष्टाः; एवं भणतो मासलघु । ते साधव ऋजुस्वभावाश्चिन्तयन्ति यथा-घोटकमुख्यआ मनुष्यसत्रियोऽनेन दृष्टा इति; ततस्ते पृच्छन्ति-कुत्र तास्त्वया दृष्टाः? स प्राह-द्याने; एवंब्रुवतोमासगुरु ।साधवः 'द्रष्टव्यास्ताः' इत्यभिप्रायेण व्रजन्ति तदानीं कथयतश्चतुर्लघु। दृष्टासु वडवासु चतुर्गुरु । प्रतिनिवृत्तेषु साधुषुषड्लघु । गुषणामालोचिते षड्गुरु । ततो गुरुभिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org