SearchBrowseAboutContactDonate
Page Preview
Page 1368
Loading...
Download File
Download File
Page Text
________________ उद्देशक: ५, मूलं- १६१, [भा. ५९३० ] गच्छन्त्यां गुरुमासः, ऋतुबद्धे वर्षायासे वा वसतिं एकाकिनी गृह्णाति चतुर्लघु, ग्रामानुग्राममेकाकिनी द्रवति चतुर्गुरु ॥ इदमविशेषितं प्रायश्चित्तमुक्तम् । अथ विशेषितमाह [ भा. ५९३१] मासादी जा गुरुगा, थेरी- खुड्डी - विमज्झ-तरुणीणं । तव कालविसिट्ठा वा, चउसुं पि चउण्ह मासाई ।। ३१७ वृ-स्थविराया एकाकिन्या भिक्षादी व्रजन्त्या मासलघु, क्षुल्लिकाया मासगुरु, विमध्यमायाश्चतुर्लघु, तरुण्याश्चतुर्गुरु । अथवा स्थविरा यदि एकाकिनी भिक्षायां याति ततो मासलघु तपसा कालेन च लघुकम्, बहिर्विचारभूमौ विहारभूमौ वा याति मासलघु तपसा कालेन गुरुकम्, वसतिं गृह्णाति मासलघु तपसा गुरुकम्, ग्रामानुग्रामं द्रवति मासलघु तपसा कालेन च गुरुकम् | क्षुल्लिकाया एवमेव चतुर्षु स्थानेषु चत्वारि मासगुरूणि तपः कालविशेषितानि । तरुण्याः स्थानचतुष्टयेऽपि तथैव तपः कालविशेषितानि चत्वारि चतुर्गुरुणि ॥ अथ दोषानाहअच्छंती वेगागी, किं ण्हु हु दोसे न इत्थिगा पावे । आमोसग तरुणेहिं, किं पुन पंथम्मि संकाय ॥ [मा. ५९३२] वृ- किमेकाकिनी स्त्री प्रतिश्रये तिष्ठन्ती दोषान् न प्राप्नोति येनैवं भिक्षाटनादिकमेवैकाकिन्याः प्रतिषिध्यते ? इति शिष्येण पृष्टे सूरिराह तत्रापि तिष्ठन्ती प्राप्नोत्येव दोषान् परम् आमोषकाःसतेनास्तरुणाः- युवानस्तैः कृता एकाकिन्याः पथि गच्छन्त्या भूयांसो दोषाः, शङ्का च तत्र भवतिअवश्यमेषा दुःशीला येनैकाकिनी गच्छति ॥ किञ्च - [ भा. ५९३३ ] एगानियाए दोसा, साणे तरुणे तहेव पडिनीए । भिक्खऽविसोहि महव्वत, तम्हा सवितिजियागमणं ॥ वृ- एकाकिन्या भिक्षामन्त्या एते दोषा भवन्ति श्वानः समागत्य दशेत्, तरुणो वा कश्चिदुपसर्गयेत्, प्रत्यनीको वा हन्यात्, गृहत्रयादानीतायां भिक्षायामनुपयुज्य गृह्यमाणायामेषमाविशुद्धिर्न भवति, कोण्टल - विण्टलप्रयोगादिना च महाव्रतानि विराध्यन्ते । यत एते दोषाः अतः सद्वितीयया निर्ग्रन्थया भिक्षादौ गमनं कर्तव्यम् ॥ द्वितीयपदमाह [ भा. ५९३४] असिवादि मीससत्थे, इत्थी पुरिसे य पूतिते लिंगे । एसा उ पंथ जयणा, भाविय वसही य भिक्खा य ॥ वृ- अशिवादिभिः कारणैः कदाचिदेकाकिन्यपि भवेत् तत्रेयं यतना-ग्रामान्तरं गच्छन्ती स्त्रीसार्थेन सह व्रजति, तदभावे पुरुषमिश्रेण स्त्रसार्थेन, तदप्राप्तौ सम्बन्धिपुरुषसार्थेन व्रजति, अथवा यत् तत्र परिव्राजकादिलिङ्ग पूजितं तद् विधाय गच्छति । एषा पथि गच्छतां यतना भणिता । ग्रामे च प्राप्ता यानि साधुभावितानि कुलानि तेषु वसतिं गृह्णाति, भिक्षामपि तेष्वेव कुलेषु पर्यटति । मू. (१६२) नो कप्पइ निग्गंधीए अचेलियाए हुंतए । वृ- नो कल्पते निर्ग्रन्थ्याः ' अचेलिकायाः' वस्त्ररहिताया भवितुम् । एष सूत्रार्थः । अथ भाष्यम्[ भा. ५९३५ ] वृत्तो अचेलधम्मो, इति काइ अचेलगत्तणं ववसे । जिनकप्पो वऽज्जाणं, निवारिओ होइ एवं तु ।। वृ- अचेलको धर्मो भगवता प्रोक्त इति परिभाव्य काचिदार्यिका अचेलकत्वं 'व्यवस्येत्' कर्तुमभिलषेत्, अतस्तन्निषेधार्थमिदं सूत्रं कृतम् । अचेलकत्वप्रतिषेधेन आर्याणां जिनकल्पोऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy