________________
३०९
उद्देशक : ५, मूलं-१५३, [भा. ५८९१] एष कारणेयतनया गृहीतस्य संसक्तस्य विवेचने विधिरवगन्तव्य इति सङ्ग्रहगाथासमासार्थः ॥
अथैनामेव विवृणोति[भा.५८९२] आउट्टिगमन संसत्त गिण्हणं न य विविंचए खिप्पं ।
ओम गिलाणे वेला, विहम्मि सत्यो वइक्कमइ ।। वृ- यथाऽऽकुट्टिकया संसक्तदेशे गमनं तथा तत्र गतः संसक्तमपि गृह्णीयात् न च क्षिप्रं 'विविश्चयात्' परिष्कायेत् । कुतः ? इत्याह-अवमे भिक्षाकालः स्फिटति, ग्लान्ये वा ग्लानस्य वेलाऽतिक्रमेत, 'विहे' अध्वनि सार्थो व्यतिक्रामति, ततः क्षिप्रं न परित्यजेत् ।। [भा.५८९३] असिवादी संसत्ते, संकप्पादी पदा तु जह सुज्झे।
संसट्ठसत्तु चाउल, संसत्तऽसती तहा गहणं ।। वृ-असिवादिभिः कारणैर्यथा संसक्ते देशे सङ्कल्पादीनि पदानि कुर्वाणोऽपि शुध्यति तथा तत्र गतो यदि असंसक्तं पानकं न लभते ततः संसृष्टपानकं तन्दुलोदकं वा संसक्तं सक्तून् वा संसक्तान् तथैव गृह्णीयात् ॥ तेषां पुनः गृहीतानामयं विधिः[भा.५८९४ ओवग्गहियं चीरं, गालणहेउं घनं तु गेण्हंति ।
तह विय असुल्झमाणे, असती अद्धाणजयणा उ॥ पृ-औपग्रहिकं 'घन' निश्छिद्रं चीवरं तेषां संसक्तपानकानां गालनाहेतोगुह्णन्ति । तथापि' तेनापिगाल्यमानंयदिन शुध्यतिनवातण्डुलधावनादिकमपिलभ्यते, ततोया प्रथमोद्देशकेऽध्वनि गच्छतां “तुवरे फले य रुक्खे०" इत्यादिना पानकयतना भणिता सा कर्तव्या ।।
अथ दधिविषयं विधिमाह[भा.५८९५] संसत्त गोरसस्सा, न गालणं नेव होइ परिभोगो।
कोडिदुग-लिंगमादी, तहि जयणा नो य संसत्तं ॥ वृ-यदि क्वापि संसक्तो गोरसो लभ्यते ततस्तस्य न गालनं न वा परिभोगः कर्तव्यः, किन्तु "कोडिदुग-लिंगमाई" ति कोटिद्वयेन-विशोधिकोट्या विशोधिकोट्या अविशोधिकोट्या च भक्त-पानग्रहणे यतितव्यं यावदाधाकपि गृह्यते, अन्यलिङ्गमपि कृत्वा भक्त-पानमुत्पाद्यते, न पनः संसक्तो गोरसो ग्रहीतव्यः ।। अथ "इयराणिय" इत्यादिपश्चार्द्ध व्याचष्टे[भा.५८९६] सागारिय सव्वत्तो, नस्थिय छाया विहम्मि दूरे वा।
वेला सत्थो व चले, न निसीय-पमजणे कुज्जा ॥ वृ-अध्वनि गच्छतां सर्वतोऽपि सागारिकम्, छाया च तत्र नास्ति, अस्ति वा परं दूरे, तत्रच गच्छतां वेलाऽतिक्रामति, सार्थोवा चलति, तत्र उष्णेऽपि भूभागेपरिष्ठापयेत् । यत्र चोपविशतः सागारिकं शङ्कादयो वा दोषाः अशुचिकंवा स्थानं तत्र निषदन-प्रमार्जने अपिन कुर्यात् ।।
मू. (१५४) निग्गंथस्स य गाहावइकुलं पिंडवायपडियाए अनुप्पविट्ठस्स अंतोपडिग्गहगंसि दगेवा दगरएवा दगफुसिए वा परियावजेजा, से य उसिणे भोयणजाते भोत्तव्ये सिया; से य सीए भोयणजातेतंनोअप्पणा मुंजेजा, नो अनसिं दावए, एगते बहुफासुएपदेसे परिद्ववेयवेसिया।
वृ-अस्य सम्बन्धमाह[भा.५८९७] आहारविही वुत्तो, अयमन्त्री पानगस्स आरंभो।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org