________________
३०८
बृहत्कल्प - छेदसूत्रम् - ३-५/१५३
गृह्णानो वा गृहीते वा पिण्डे प्रत्युपेक्षणामकुर्वाणोऽपि 'शुध्येत' प्रायश्चित्तभाग् न भवेत् ॥ [भा. ५८८७] ओमाणपेल्लितो वेलऽतिक्कमो चलिउमिच्छति भयं वा । एवंविहे अपेहा, ओमे सतिकाल ओमाणे ॥
वृ- अध्वनि वा गच्छतां सार्थः 'अवमानप्रेरितः प्रभूतभिक्षाचराकीर्ण, यावच प्रत्युपेक्षते तावद् वेलातिक्रमो भवति, सच सार्थश्चलितुमिच्छति, पृष्ठतो गच्छतांच भयम्, तत एवंविधे कारणेऽप्रेक्षा, प्रत्युपेक्षामन्तरेणापि पिण्डं गृह्णीयादित्यर्थः । अवमे च प्रत्युपेक्षमाणानां 'सत्कालः' मिक्षाया देशकालः स्फिटति सूर्यो वाऽस्तमेति अवमानं वा भिक्षाचराकीर्णं ततोऽ प्रत्युपेक्षितमपि गृह्णीयात् । [भा. ५८८८] तो कुजा उवओगं, पाने दडूण तं परिहरेजा । कुञ्जान वा व पेह, सुज्झइ अतिसंभमा सो तु ॥
वृ-यदि अनन्तरोक्तकारणैः प्रत्युपेक्षणं न भवति तत उपयोगं कुर्यात् । कृते चोपयोगे यदि प्राणिनः पश्यति ततस्तान् दृष्टवा ' तद्' भक्त-पानं परिहरेत् । अथवा अत्यातुरः 'प्रेक्षाम्' उपयोगमपि च कुर्याद् वा न वा । अनुपयुञ्जानोऽपि चातिसम्प्रमादसौ साधुः शुध्यति । यच्चाधस्तादुक्तं "संसक्तः शुष्कौदनः पृथग् गृह्यते" तत्राप्येतेष्वेव ग्लाना-ऽध्वा ऽवमेषु कारणेषु द्वितीयपदं मन्तव्यम् ॥ तथा चाह[ भा. ५८८९]
वीसुं घेप्पड़ अंतरंतगस्स बितिए दवं तु सोहेति । तेन उ असुक्खगहणं, तं पि य उण्हेयरे पेहे ॥
वृ- 'अतरन्तगस्य' ग्लानस्य योग्यं 'विष्वग्' एकस्मिन् मात्रके गृह्यते, द्वितीये च मात्रके द्रवं शोधयति, ततो यत्र शुष्कौदनः पृथग् गृह्यते तत् तृतीयं मात्रकं नास्तीति कृत्वा शुष्कमा वा एकत्रैव प्रतिग्रहे गृह्णीयात् । ग्लानस्यापि यद् ओदन -द्वितीयाङ्गादिकमेकस्मिन् मात्रके गृह्णाति तदपि उष्णं ग्रहीतव्यम् । 'इतरत् तु' शीतलं प्रत्युपेक्षेत, यदि असंसक्तं ततो गृह्णीयादन्यथा तु नेति भावः ॥
[भा. ५८९०] अद्धा ओमेवा, तहेव वेलातिवातियं नातुं । दुल्लभदवे व मा सिं, धोवण-पियणा न होहिंति ॥
घृ- अध्वनि वाऽवमौदर्ये वा वेलाया अतिपातम् अतिक्रमं ज्ञात्वा तथैव शुष्कं विष्वग् न गृह्णीयात् । दुर्लभं वातत्र ग्रामे द्रवं पानकं ततो मा “सिं" एषां साधूनां भाजनधावन-पाने न भविष्यति इति कृत्वा पूर्वं मात्रके द्रवं गृहीतं ततो नास्ति भाजनं यत्र शुष्कं पृथग् गृह्यते अत एकत्रैव गृह्णीयात् । उक्तमोदनविषयं द्वितीयपदम् । अथ पानकविषयमाह
[भा. ५८९१] आउट्टिय संसत्ते, देसे गेलन्नऽद्धाण कक्खडे अखिप्यं । इयराणि य अद्धाणे, कारण गहिते य जतणाए ।
- यथा कारणे 'आकुट्टिकया' जानन्तोऽपि संसक्ते देशे गच्छन्ति तथा तत्र गताः सन्तः संसक्तमपि पानकं गृह्णन्ति । गृहीत्वा च ग्लानत्वेऽध्वनि 'कर्कशे वा' अवमे क्षिप्रं न परित्यजे युरपि । तथाहि ग्लानत्वे यावत् संसक्तं परिष्ठापयन्ति तावद् ग्लानस्य वेलातिक्रमो भवति, अध्वनि सार्थात् परिभ्रश्यन्ति, अवमौदर्ये भिक्षाकालः स्फिटति, ततो न क्षिप्रं परित्यजेयुः । 'इतराणि च ' सागारिकस्य पश्यतः परिष्ठापनम् इत्यादीनि यानि पूर्वप्रतिषिद्धानि तान्यष्यध्वनि वर्तमानः कुर्यात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org