________________
उद्देशक: ५, मूलं- १५२, [भा. ५८५१]
गंधे य पडिगते या, ते पुन दो वी अनाएसा ॥ वृ-प्रथम-द्वितीययोरादेशयोर्दिवाऽप्युद्गारो नास्ति किं पुनर्दिशायाम् ? इत्यतस्यावनादेशौ। यस्तृतीयो गन्धादेशो यश्च चतुर्थ उद्गारस्य गलके प्रतिगमनादेशः एतौ द्वावपि सूत्रार्थभिप्रायबहिर्भूतत्वादनादेशौ । कः पुनरादेशः ? इत्याह
३०१
[ भा. ५८५२ ] पडुपन्नऽनागते वा, संजमजोगाण जेन परिहानी । न विजायति तं जासु, साहुस्स पमाणमाहारे ।
वृ- 'प्रत्युत्पन्ने' वर्तमानेऽनागते वा काले 'येन' यावता भुक्तेन 'संयमयोगानां' प्रत्युपेक्षणादीनां परिहाणिर्न जायत तदाहारस्य प्रमाणं साधोर्जानीहि ॥
[भा. ५८५३] एवं पमाणजुत्तं, अतिरेगं वा वि भुंजमाणस्स ।
वायादखोभेण व, एजाहि कहंचि उग्गालो |
वृ- एवंविधं प्रमाणयुक्तं कारणे वाऽतिरिक्तमपि आहारं भुञ्जानस्य वातादिक्षोभेण वा कथञ्चिदुद्गार आगच्छेत् ।। ततः किम् ? इत्यत आह
[ भा. ५८५४] जो पुन सभोयणं तं, दवं व नाऊण निग्गतं गिलति । तहियं सुत्तनिवाओ, तत्थाऽऽ एसा इमे होंति ।
वृ- पुनः शब्दो विशेषणे, स चैतद् विशिनष्टि-यः 'तम्' उद्गारमागतं परित्यजति तस्य न प्रायश्चित्तम् । यस्तु 'तम्' उद्गारं सभोजनमच्छं वा द्रवमागतं ज्ञात्वा मुखाद् निर्गतं गिलति तत्र 'सूत्रनिपातः' प्रस्तुतसूत्रस्यावतारः । तत्र चेमे आदेशाः भवन्ति ॥
[भा. ५८५५] अच्छे ससित्थ चव्विय, मुहनिग्गतकवल भरियहत्थे य । अंजलि पडिते दिट्ठे, मासादारोवणा चरिमं ॥
- अच्छं द्वमागतं यदि परेणाध्ष्टमापिबति ततो मासलघु, अथ दृष्टं ततो मासगुरु । ससिक्थमागतं परेणाध्ष्टमाददानस्य मासगुरु, ध्ष्टे चतुर्लघु । अथ तं ससिक्थमदृष्टं चर्वयति ततश्चतुर्लघु, दृष्टे चतुर्गुरु । मुखाद् निर्गतं कवलमेकहस्तेन प्रतीष्याध्ष्टमापिबति चतुर्गुरु, दृष्टे षड्लघु । अथैकं हस्तपुटं भरितमध्ष्टमापिबति ततः षड्लघु, दृष्टे षड्गुरु । अथाञ्जलिं भरितम६ष्टमापिबति च्छेदः, दृष्टे मूलम् । एवं भिक्षोरुक्तम् । उपाध्यायस्य मासगुरुकादारब्धमनवस्थाप्ये तिष्ठति । आचार्यस्य चतुर्लघुकादारब्धं चरमे तिष्ठति । एवं मासादिका चरमं यावदारोपणा मन्तव्या । प्रकारान्तरेण प्रायश्चित्तमाह
[भा. ५८५६ ] दिय रातो लहु-गुरुगा, बितियं रयणसहितेन दिट्ठतो । असीस वा, सत्य व पहावितो तुरियं ॥
वृ- अथवा ससिक्थमसिक्थं वा दृष्टमध्टं वा दिवा प्रत्यवगिलतश्चतुर्लघु, रात्रौ चतुर्गुरु । द्वितीयपदमत्र भवति- कारणे वान्तमप्यापिबेद् न च प्रायश्चित्तमाप्नुयात् । तत्र च रत्नसहितवणिजा ध्ष्टान्तः कर्तव्यः । कथं पुनरिदं सम्भवति ? इत्याह-अध्वशीर्षके मनोज्ञं भक्तं भुक्तं तच्च वान्तम् अन्यत्र न लभ्यते, सार्थो वा त्वरितं प्रधावितः, ततस्तदेव सुगन्धिद्रव्येण वासयित्वा भुङ्क्ते ॥ अथ रत्नसहितवणिग्ध्ष्टान्तमाह
[भा. ५८५७ ] जल-थल हेसु रयणाणुवञ्जणं तेन अडविपञ्च॑ते ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org