SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १३० [भा. ५०७ ] वायम्मि वायमाणे, महियाए चेव पवडमानीए । नाणुन्नायं गहणं, अभियस्स य मा विगिंचणया || बृहत्कल्प-छेदसूत्रम् -१ - 'वाते' महावाते वाति तथा महिकायां प्रपतन्त्यां लेपस्य ग्रहणं नानुज्ञातं तीर्थकर - गणधरैः, महावाते वाति तदुद्ध तानां त्रस स्थावराणां लेपसम्पर्कतो विनाशसम्भवात् महिकायां निपतन्त्यामप्कायविराधनात् । तत्र महावाते वाति लेपं गृह्णतः प्रायश्चित्तं चतुर्लघु । महिकायामपि निपतन्त्यां चतुर्लघु । अमितग्रहणे मासलघु ॥ एतदेव प्रायश्चित्तं प्रतिपादयन्नाह [भा. ५०८] चल-जुत्त-वच्छ-महिया- तसेसु सामाए चैव चतुलहुगा । दव्वचल साण गुरुगा, मासो लहुओ उ अमियम्मि ॥ वृ- भावतश्चले बलीवर्दयुक्ते वत्से निबद्धे तथा महिकायां निपतन्त्यां त्रसेषु सम्पातिमेषु निपतत्सु श्यामायां च लेपं गृह्णतः प्रत्येकं प्रायश्चित्तं चत्वारो लघुकाः । द्रव्यचले शुनि वा स्थिते चत्वारो गुरुकाः । अमिते गृहीते लघुको मासः । विशेषभावना तु प्रतिद्वारं प्रागेव कृता ॥ [ भा. ५०९ ] एतद्दोसविमुक्कं घेत्तुं छारेण अक्कमित्ताणं । चीरेण बंधिऊणं, गुरुमूल पडिक्कमाऽऽलोए ॥ वृ- ये एते हरितादयोऽनन्तरं दोषा उक्तास्तैर्मुक्तं लेपं गृहीत्वा ' मा सम्पातिमानां वधो भूयात्' इति तं 'क्षारेण' भस्मना आक्रम्य चीवरेण बद्धवा गुरुपादमूलमागच्छति, आगम्य चैर्यापथिकीं प्रतिक्रम्यालोचयति ॥ [ भा. ५१०] दंसिय छंदिय गुरु सेसए य ओमत्थियस्स भाणस्स । काउं चीरं उवरिं, रूयं च छुभेज तो लेवं ।। वृ- आलोच्य लेपं गुरोर्दर्शयति । दर्शयित्वा गुरुं लेपेन 'छन्दयति' निमन्त्रयति । गुरुनिमन्त्रणानन्तरं शेषकानपि साधून् निमन्त्रयति । ततो यावता यस्यार्थस्तस्य तावन्तं दत्वा एकस्य भाजनस्य 'अवमन्धितस्य' अवाङ्मुखीकृतस्योपरि चीवरं कृत्वा तत्र लेपं रूतं च प्रक्षिपेत् ॥ सम्प्रति लेपदानविधिमाह [ भा. ५११] अंगुट्ठ-पएसिणि-मज्झिमाहि घेत्तुं धनं ततो चीरं । आलिंपिऊण भाणं, एक्कं दो तिन्नि वा घट्टे ।। बृ- अङ्गुष्ठेन प्रदेशिन्या मध्यमया चाङ्गुल्या लेपं गृहीत्वा धनं च चीवरमादाय तत्र लेपं प्रक्षिप्य निष्पीडयेत्, निष्पीडय च एकैकभाजनमेकं द्वौ त्रीन् वा वारान् लेपयेत् । अधिकं तु लेपमट्टकनिमित्तं सरूतकं पेषयेत् । अथ न दातव्योऽट्टको यदि वा तत्राप्युद्धरितः ततः सरूतकं तं क्षारे परिष्ठापयेत् । अन्यच्चान्यच्च भाजनं लिप्तवाऽन्यदन्यद् वारंवारेण घट्टणपाषाणेन घट्टयति ।। तथा चाह [भा. ५१२] अन्नोन्ने अंकम्मी, अन्नं घट्टेति वारवारेण । आनेइ तमेव दिने, दवं रएउं अभत्तट्ठी ॥ वृ- अन्यस्मिन् भाजने घट्टिते अन्यद् अन्यद् भाजनमङ्के स्थापयित्वा वारंवारेण घट्ट्यति । तत्र यदि उद्वानो लेपो यदि च तस्य द्रवेण कार्यं समुत्पन्नं स चाऽऽत्मनाऽ भक्तार्थी ततः सोऽ भक्तार्थी तस्मिन्नेव दिने पात्रं लेपेनोपरज्य उद्धाने लेपे तेन 'द्रवं' पानीयमानयति । अथ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy