________________
२२६
वृहत्कल्प-छेदसूत्रम् ३-४/१३, चोएइ चोयवेइ व, नेच्छंते सयं तु वट्टावे॥ कृ'एकाहंनाम दिनेदिनेगत्वानोदयति, एकान्तरितंवा।तथा 'पञ्चाहं पञ्चानांदिवसानामन्ते, एवं पक्षे चतुर्मासे वर्षान्ते वा 'यत्र वा' समवसरणादौ मिलति तत्र स्वयमेव नोदयति, अपरैर्वा स्वगच्छीय-परगछीयैर्नोदनां कारयति।यदिसर्वथाऽपिनेच्छतिततःस्वयमेवतंगणंवर्तापयति॥ [भा.५४७७] उद्दिसइ व अत्रदिसं, पयावणट्ठा नसंगहट्ठाए।
जइ नाम गारवेण वि, मुएज निच्छे सयंठाई॥ वृ-अथवा स उभयव्यक्तः 'अन्यां दिशम् अपरमाचार्यमुद्दिशति तच तस्यावसत्राचार्यस्य 'प्रतापनार्थम्' उत्तेजनार्थं न पुनर्गणस्य सङ्ग्रहोपग्रहनिमित्तम् । स च तत्र गत्वा भणतिअहमन्यमाचार्यमुद्दिशामि यदि यूयमितः स्थानाद् नोपरमध्ये । ततः स चिन्तयेत्-अहो! अमी मयिजीवत्यपिअपरमाचार्यं प्रतिपद्यन्ते, मुधामि पार्श्वस्थताम्।यदिनामैवं गौरवेणापिपार्श्वस्थत्वं मुञ्चेत् ततः सुन्दरम्, अथ सर्वथा नेच्छत्युपरन्तुंततः स्वयमेव गच्छाधिपत्ये तिष्ठति ॥ .
गतः प्रथमो भगः। अथ द्वितीयमाह[भा.५४७८] सुअवत्तो वतवत्तो, मणइ गणं तेन सारितुं सत्तो।
सारेहि सगणमेयं, अन्न व वयामो आयरियं ॥ वृ-यः श्रुतेन व्यक्तो वयसा पुनरव्यक्तः स स्वयं गच्छं वर्तापयितुमसमर्थ तमाचार्य भणतिअहमप्राप्तवयस्त्वेन त्वदीयंगणंसारयितुंनशक्तः, अतःसारयस्वगणमेनम्, अहंपुनरन्यस्यशिष्यो भविष्यामि, अथवा अहमेते वाऽन्यमाचार्य व्रजामः, उद्दिसाम इत्यर्थः॥ [भा.५४७९] आयरिय-उवज्झायं, निच्छंते अप्पणा य असमत्थे।
तिगसंवच्छरमद्धं, कुल गण संघे दिसाबंधो॥ वृ- एवंभणित आचार्य उपाध्यायो वा यदि नेच्छति संयमे स्थातुम, स चात्मना गणं वर्तापयितुमसमर्थः, ततः कुलसत्कमाचार्यमुपाध्यायं वा उद्दिशति । तत्र त्रीणि वर्षाणि तिष्ठति, तं चाचार्य सारयति । ततः त्रयाणां वर्षाणां परतः सचित्तादिकं कुलाचार्यों हरति' इति कृत्वा गणाचार्यमुद्दिशति । तत्र संवत्सरं स्थित्वा सदाचार्यस्य दिग्बन्ध प्रतिपद्य 'वर्षा' षण्मासान् तत्र तिष्ठति ।। कुलाद्गणं गणाच सर्कसङ्क्रामन्नाचार्यमिदं भणति[भा.५४८०] सचित्तादि हरंती, कुलं पिनेच्छामो जंकुलं तुब्मं ।
वधामो अन्नगणं, संघं व तुमंजइन ठासि ॥ कृ-यत्त्वदीयं कुलं तदीया आचार्या अस्माकंवर्षत्रयादूज़ सचित्तादिकंहरन्तिअतः कुलमपि नेच्छामः, यदि त्वमिदानीमपिन तिष्ठसि ततो वयं गणं सझंवा व्रजामः॥ [मा.५४८१] एवं पिअठायंते, ताहे तू अद्धपंचमे वरिसे।
सयमेव धरेइगणं, अनुलोमेणं च सारेइ॥ वृ-एवमर्द्धपञ्चमैवर्षे पूर्वाचार्यो नोदनाभिप्रतापितोऽपियदिनतिष्ठति तत एतावता कालेन स श्रुतव्यक्तो वयसाऽपि व्यक्ती जात इति कृत्वा स्वयमेव गणं धारयति । यत्र च पूर्वाचार्य पश्यति तत्र अनुलोमवचनैस्तथैव सारयति ।
[भा.५४८२] अहव जइ अस्थि थेरा, सत्ता परियट्टिऊण तं गच्छं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org