________________
उद्देशक : ४, मूलं-१२५, [भा. ५३६३]
२०३ आपुच्छऊण गमनं, भीतो न नियत्तते कोती ॥ [भा.५३६४)चिंतंतो २ वइगादी ३, संखडि ४ पिसुगादी ५ अपडिसेहे य ६।
परिसिल्ले सत्तमए ७, गुरुपेसविए य ८ सुद्धे य॥ वृ-स्थानं कारणमित्येकोऽर्थः, ततस्त्रिभिः स्थानैः-कारणैर्गच्छाद् अपक्रमणं भवति-ज्ञानार्थ दर्शनार्थं चारित्रार्थं च । अथ निष्कारणन्यं गणमुपसम्बद्यते ततश्चतुर्गुरुकं आज्ञादयश्च दोषाः । कारणेऽपियदिगुरुमनापृच्छय गच्छति ततश्चतुर्गुरुकम्, तस्माद्आपृच्छय गन्तव्यम्। तत्रज्ञानार्थ तावद् अभिधीयते-यावद् आचार्यसकाशे श्रुतमस्ति तावद् अशेषमपि केनापि शिष्येणाधीतम्, अस्तिच तस्यापरस्यापि श्रुतस्य ग्रहणेशक्तिस्ततोऽधिकश्रुतग्रहणार्थमाचार्यमापृच्छति।आचायेणापि स विसर्जयितव्यः । तस्यैवमापृच्छय गच्छत इमेऽतिचारा भवन्ति ते परिहर्तव्याः । तत्र कश्चित तेषामाचार्याणां कर्कशचर्यां श्रुत्वामीतः सन् निवर्तते ।तथा 'किं व्रजामि? मावा?' इति चिन्तयन् व्रजति २। वजिकायां वा प्रतिबन्धं करोति, आदिशब्दाद् दानश्राद्धादिषु दीर्घा गोचरचर्या करोति, अप्राप्तं वा देशकालं प्रतीक्षते ३। "संखडि"त्ति सङ्घड्यां प्रतिबध्यते ।। "पिसुगाइ" ति पिशुक-मत्कुणादिभया निवर्तते अन्यत्र वा गच्छे गच्छति ५ । "अप्पडिसेह" त्ति कश्चिदाचार्यस्तं परममेघाविनमन्यत्र गच्छन्तं श्रुत्वा परिस्फुटवचसा तं न प्रतिषेधयति किन्तु शिष्यान् व्यापारयति-तस्मिन्नागतेव्यञ्जन-घोषशुद्धंपठनीयम्येनात्रैवैषतिष्ठति; एवमप्रतिषेधयन्नपि प्रतिषेधको लभ्यते, तेनैवं विपरिणामितः सन्तदीये गच्छेप्रविशति ६ । “परिसिल्ले"त्ति पर्षद्वान् स उच्यते यः संविज्ञाया असंविज्ञायाश्च पर्षदः सङ्ग्रहं करोति, तस्य पार्वे तिष्ठतः सप्तमं पदम् । "गुरुपेसविए य" ति तत्र सम्प्राप्तो ब्रवीति-अहमाचार्य श्रुताध्ययननिमित्तं युष्मदन्तिके प्रेषितः ८। एतेषु भीतादिष्वष्टस्वपि पदेषु वक्ष्यमाणनीत्या प्रायश्चित्तम् । यत्सु भीतादिदोषविप्रमुक्तः समागतोब्रवीति-'अहमाचार्यविसर्जितो युष्मदन्तिकेसमायातः' इति सः'शुद्धः' नप्रायश्चित्तमाक्। भीतादिपदेषु प्रायश्चित्तमाह[भा.५३६५] पनगंच भिन्नमासो, मासो लहुगो य संखडी गुरुगा।
पिसुमादी मासलहू, चउरो लहुगा अपडिसेहे ।। वृ-भीतस्य निवर्तमानस्य पञ्चकम् । चिन्तयतो भिन्नमासः । व्रजिकादिषु प्रतिबध्यमानस्य मासलघु। सङ्खड्यां चतुर्गुरुकाः।पिशुकादिभयानिवर्तमानस्यमासलघु अप्रतिषेधकस्यपार्वे तिष्ठतश्चत्वारो लघुकाः॥ [भा.५३६६] परिसिल्ले चउलहुगा, गुरुपेसवियम्मि मासियं लहुगं।
सेहेण समं गुरुग, परिसिल्ले पविसमाणस्स ।। कृपर्षद्वतआचार्यस्यसकाशेतिष्ठतश्चतुर्लघुकाः 'गुरुभिप्रेषितोऽहम्' इति भणनेलघुमासिकम्। शैक्षणसमं पर्षद्वतो गच्छेप्रविशतश्चतुर्गुरुकाः ।गृहीतोपकरणस्य तत्र प्रविशत उपधिनिष्पनम्॥ [भा.५३६७] पडिसेहगस्स लहुगा, परिसेल्ले छ च चरिमओ सुद्धो।
तेसिं पिहोंति गुरुगा, जंचाऽऽभव्वं न तं लभती॥ वृ-'प्रतिषेधकस्य' प्रतिषेधकत्वं कुर्वतश्चतुर्लघु । पर्षदं मीलयतः षड् लघुकाः । 'चरमः' भीतादिदोषरहितः सशुद्धः । तेषामपि प्रतिषेधकादीनामाचार्याणांतस्वगच्छेप्रवेशयतांचत्वारो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org