________________
उद्देशक : ४, मूलं-१२४, [भा. ५३५६]
२०१ जडत्वं द्रष्टव्यम् । गृहिणोऽपि यद् एकस्य निवारितं तद् अन्यस्य निमित्तं कुर्वन्ति 'अन्यं वा' क्रीतकृतादिकंदोषं कुर्वन्ति एतत् तेषां जडत्वम् । यत्तु पृष्टाः सन्तः परिस्फुटं सद्भावं कथयन्ति एतत् तेषां ऋजुत्वम् ।। अथ मध्यमानामृजु-प्रज्ञतां भावयति। [भा.५३५७] उजुत्तणं से आलोयणाए पन्ना उ सेसवजणया।
सन्नायगा वि दोसे, न करेंतऽन्ने न यऽन्नेसि ॥ - 'रहस्यपि यत् प्रतिसेवितं तद् अवश्यमालोचयितव्यम्' इत्यालोचनया मध्यमतीर्थङ्करसाधूनामृजुत्वं मन्तव्यम्, यत् पुनः शेषाणां-तज्जातीयानामर्थानां स्वयमभ्यूह्य ते वर्जनां कुर्वन्ति ततः प्रज्ञा तेषं प्रतिपत्तव्या।तेहि 'नटावलोकनं कर्तुंन कल्पते' इत्युक्ताः प्राज्ञतया स्वचेतसि परिभावयन्ति-यथा एतद् नटावलोकनं राग-द्वेषनिबन्धनम् इति कृत्वा परिहियते तथा कयोकनर्तक्यादिदर्शनमपि रागद्वेषनिबन्धनतया परिहर्तव्यमेव इति विचन्त्य तथैव कुर्वन्ति। संज्ञातका अपितेषाम् इदमुद्दिष्टभक्तंममन कल्पते' इत्युक्ताश्चिन्तयन्ति-यथैतस्यायं दोषोऽकल्पनीयस्तथाऽन्येऽपि तज्जायाः सर्वेऽप्यकल्पनीयाः, यथा चैतस्य तेअकल्पनीयास्तथा सर्वेषामपि साधूनां न कल्पन्ते। एवं विचिन्त्य 'अन्यान् उद्गमदोषान्न कुर्वन्ति, अन्येषांच साधूनां हेतोर्न कुर्वन्ति।। अथ वक्र-जडव्याख्यानमाह[भा.५३५८] वंका उन साहंती, पुट्ठा उभणंति उण्ह-कंटादी।
पाहुणग सद्ध ऊसव, गिहिणो वि य वाउलंतेवं ।। वृ-पश्चिमतीर्थकरसाधवो वक्रत्वेन किमप्यकृत्यं प्रतिसेव्यापि 'न कथयन्ति' नालोचयन्ति, जडतयाच जानन्तोऽजानन्तो वा भूयस्तथैवापराधपदेप्रवर्तन्ते।नटावलोकनं कुर्वाणाश्चदृष्टास्ततो गुरुभिः पृष्टाः-किमियती वेलां स्थिताः ? । ततो भणन्ति-उष्णेनाभितापिता वृक्षादिच्छायायां विश्राम गृहीतवन्तः, कण्टको वा लग्न आसीत् सतत्र स्थितैरपनीतः, आदिशब्दाद् अन्यदप्येवंविधमुत्तरं कुर्वन्तीति । गृहिणोऽपि आधाकर्मादौ कृते पृष्टा भणन्ति- प्राघुणका आगतास्तदर्थमिदमुपस्कृतम्, अस्माकंवाईशे शाल्योदनादौ भक्तेऽद्य श्रद्धा समजनि, उत्सवो वा अद्यामुकोऽस्माकम् । एवं गृहिणोऽपि वक्र-जडतया साधून 'व्याकुलयन्ति' व्यामोहयन्ति, सद्भावं नाख्यान्तीत्यर्थः । एतेन कारणेन चातुर्यामिक-पञ्चयामिकानामाधाकर्मग्रहणे विशेषः कृत इति प्रक्रमः ।। अथ द्वितीयपदमाह[भा.५३५९] आयरिए अभिसेगे, भिक्खुम्मि गिलाणए य भयणा उ ।
तिक्खुत्तऽडवि पवेसे, चउपरियट्टे तओ गहणं ।। वृ. आचार्या-ऽभिषेक-भिक्षूणामेकतरः सर्वे वा ग्लाना भवेयुः तत्र सर्वेषामपि योग्यमुद्गमादिदोषशुद्धं ग्रहीतव्यम् । अलभ्यमाने पञ्चकपरिहाण्या यतित्वा चतुर्गुरुकं यदा प्राप्तं भवति तदाऽऽधाकर्मणः भजना' सेवनाभवति।अथवा भजना नाम-आचार्यस्याभिषेकस्य गीतार्थभिक्षोश्च येनदोषेणाशुद्धमानीतंतत्परिस्फुटमेव कथ्यते। यः पुनरगीतार्थोऽपरिणामको वा तस्य न निवेद्यते । अशिवादिभिर्वा कारणैरटवीम-अध्वानं प्रवेष्टुमभिलषन्ति तत्र प्रथममेव शुद्धोऽध्वकल्पः त्रिकृत्वः' त्रीन्वारान् गवेष्यते, यदान लभ्यतेतदा चतुर्थे परिवर्तेपञ्चकपरिहाण्या आधाकर्मिकस्य ग्रहणं करोति । अध्वनिर्गतानांचायं विधिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org