________________
पीठिका - [मा. ४७१]
१२१ नवा' इत्यपरीक्ष्य यदिप्रेषयति तदा प्रत्येकमकथनेऽनधिगतेऽपरीक्षणेच तस्य प्रायश्चित्तंच्यारो लघुका द्वाभ्यां लघवः, तद्यथा-तपोलघुकाः काललघुकाश्च । यत एवं प्रायश्चित्तमाज्ञादयश्च दोषास्तस्मात् सूत्रे प्राप्ते तत्रापि कथिते तत्राप्यधिगतेस परीक्ष्य लेपस्यानयनाय प्रेषणीयः । एष लेपस्य कल्पिकः।। [भा.४७२] अज्जक्कालिय लेवं, वयंति अवियाणिऊण सब्भावं ।
ते वत्तव्वा लेवो, दिट्ठो तेलोक्कदंसीहिं ।। वृ-केचित् प्रवचनस्य सद्भाव रहस्यम् 'अविज्ञाय' अविदित्वा अधकालिकलेपंपात्रस्य वदन्ति-न एष पात्रस्य लेपःसर्व रुक्तः किन्त्वद्य कल्येऽधुनातनसूरिभिप्रवर्तितः;ते वक्तव्याःदृष्टः खलु पात्रस्य लेपस्त्रैलोक्यदर्शिभि॥ एनामेवगाथांव्याचिख्यासुःप्रथमतः पूर्वार्धव्याख्यानयन् लेपस्य जिनानुपदिष्टत्वं भावयति[भा.४७३]आया पवयण संजम, उवघाओ दिस्सए जओ तिविहो ।
तम्हा वयंति केई, न लेवगहणं जिना बेंति ॥ वृ-यस्माल्लेपे गृह्यमाणे त्रिविध उपघातो दृश्यते, तद्यथा-आत्मनः प्रवचनस्य संयमस्य च; तस्मात् केचिद् वदन्ति-न लेपग्रहणं जिनाब्रुवते; न खलु भगवन्तः सावद्यं वचनमुच्चरन्ति ।। कथं पुनरात्म-प्रवचन-संयमोपघातः ? इत्यत आह[भा.४७४) रहपडण उत्तमंगादिभंजणा घट्टणे य करघातो।
अह आयविराधन, जक्खुल्लिहणे पवयणम्मि ।। वृ- रथस्य-शकटस्य पतने उत्तमाङ्गादेः शरीरावयवस्य भङ्गः, तथा भाजनस्य लेपे दत्ते घट्टकेन तद् दत्तलेपंपात्रं घट्टयतः 'करघातः' करस्यपीडा, एषा आत्मविराधना । यक्षाः-श्वानस्तैः शकटस्याक्षोऽनेकधा जिह्वयोल्लिखितः, साधुरपि च तत्र लेपं गृह्णाति, तमपि च भोजनयोग्ये पात्रे दास्यति ततो ‘यक्षोल्लिखने' यक्षोल्लिखितलेपग्रहणे 'परवचने' प्रवचनस्योपघातः॥ [भा.४७५] गमनाऽऽगमने गहणे, तिहाणे संजमे विराहणया।
महि सरि उम्मुग हरिया, कुंथू वासं रयो व सिया।। वृ-तथा 'त्रिस्थाने' त्रिषु स्थानेषु च 'संयमे' संयमस्य विराधना, तद्यथा-लेपग्रहणाय गमने लेपं गृहीत्वा पुनर्वसतावागमने लेपग्रहणे च । तथाहि-गच्छतामागच्छतां तत्र वा मह्याःसचित्तपृथिवीकायस्य विराधना, सरित्-नदी तत्र गमने आगमने चाऽकायविराधना, तथा कदाचित् तैः शाकटिकैरग्निकाय उद्दीपितो भवेत् तत्र कथमप्यनुपयोगत उल्मुकचालनेऽग्नि कायविराधना, यत्राग्निस्तत्रवायुरिति वायुविराधना, हरितकायाक्रमणे वनस्पतिकायविराधना, तथा लेपे कुन्थ्वादयः प्राणा लग्ना भवेयुस्ततस्तद्ग्रहणे त्रसकायविराधना, तथा गमने आगमने तत्र वा वर्ष पतेत् रजो वा सचित्तवातोद्भूतमापतितं स्यात् ततस्तद्विराधनाऽपि तत्रावसेया । तदेवं यत आत्म-प्रवचन-संयमानामुपधातो नच यथा पिण्डैषणा पात्रैषणा वा जिनैणिता तथा लेपैषणाऽपि तस्मात्र जिनोपदिष्टः पात्रस्य लेपः । तदेतदसमीचीनम्, पात्रलेपस्य जिनैरर्थत उक्तत्वात् । पात्रैषणायां हि त्रिविधं पात्रमुक्तम्, तद्यथा-यथाकृतमल्पपरिकर्म सपरिकर्म च । तवाल्पपरिकर्मणः सपरिकर्मणश्चावश्यं लेपेन कार्यमिति सामथ्या१क्तो जिनैः पात्रस्य लेपः । For Private & Personal Use Only
www.jainelibrary.org
Jain Education International