________________
१७६
बृहत्कल्प-छेदसूत्रम् -३-४/१२० ति 'ग्लायन्ती' “ग्लै हर्षक्षये' शरीरक्षयेण हर्षक्षयमनुभवन्तीं पिता दाभ्राता वा पुत्रो वानिर्ग्रन्थः सन् 'परिष्वजेत् प्रपतन्ती धारयन् निवेशयन् उत्थापयन् वा शरीरेस्पृशेत्, 'तंच' पुरुषस्पर्श सा निर्ग्रन्थी मैथुनप्रतिसेवनप्राप्ता 'स्वादयेत्' अनुमोदयेत् तत आपद्यते चातुर्मासिकं परिहारस्थानमनुद्धातिकम्॥एवं निर्ग्रन्थसूत्रमपि व्याख्येयम् । नवरम्-माता वा भगिनी वा दुहिता वा परिष्वजेत्; एष सूत्रार्थः ॥अथ नियुक्तिविस्तरः-तत्र परः प्राह-ननु 'पुरुषोतमोधर्म' इति कृत्वा प्रथमं निर्ग्रन्थस्य सूत्मभिधातव्यं ततो निर्ग्रन्थाः, अतः किमर्थ व्यत्यासः ? इत्याह[भा.५२३७) कामं पुरिसादीया, धम्मा सुत्ते विवज्जतो तह वि।
दुब्बल-चलस्सभावा, जेणित्थी तो कता पढमं॥ वृ-'कामम्' अनुमतमिदम्-यत् 'पुरुषादयः पुरुषमुख्या धर्माभवन्ति, तथापि सूत्रे विपर्ययः कृतः । कुतः ? इत्याह-दुर्बला-धृतिबलविकला चलस्वभावा च स्त्री येन कारणेन भवति ततः प्रथममसौ कृता इत्यदोषः।। [भा.५२३८] वइणि तिनवरि नेम्मं, अनाविन कप्पती सुविहियाणं।
अवि पसुजाती आलिंगिउं पिकिमु ता पलिस्सइउं । -इह सूत्रेयद् व्रतिनी निर्ग्रन्थी भणितातद्नवरं नम चिह्नम् उपलक्षणंद्रष्टव्यम्, तेनान्याऽपि स्त्री सुविहितानां न कल्पते परिष्वक्तुम् । इदमेव व्याचष्टे-'पशुजातिरपि' छागिकाप्रभृतिपशुजातीयस्वरपि आलिङ्गितुंन कल्पते, किमु तावत्परिष्वक्तुम् ? ।
यत् तु सूत्रे परिष्वजनमभिहितं तत् कारणिकम् अत एवाह[भा.५२३९] निग्गंथो निग्गंथि, इत्थि गिहत्यं च संजयंचेव।
पलिसयमाणे गुरुगा, दो लहुगा आणमादीणि ॥ वृ-निर्ग्रन्थो निर्ग्रन्थी परिष्वजति चतुर्गुरुकाःतपसा कालेन च गुरवः। स्त्रियम्' अविरतिकां परिष्वजतितएव तपसा गुरवः ।गृहस्थं परिष्वजति चतुर्लघुकाःकालेन गुरवः । संयतं परिष्वजति त एव द्वाभ्यामपि लघवः' तपसा कालेन च । सर्वत्र चाज्ञादीनि दूषणानि भवन्ति॥
इदमेव व्याचष्टे[भा.५२४०] निग्गंथी थी गुरुगा, गिहि पासंडि-समणे य चउलहुगा।
दोहि गुरू तवगुरुगा, कालगुरू दोहि वी लहुगा। वृ-निर्ग्रन्थस्य निर्ग्रन्थी परिष्वजतः चतुर्गुरवो द्वाभ्यामपि गुरुकाः। स्त्रियं परिष्वजतस्त एव तपोगुरवः । गृहस्थं परिष्वजतः चतुर्लघवः कालगुरवः । पाषण्डिपुरुषं श्रमणं वा' परिष्वजतश्चतुर्लघव एव 'द्वाभ्यामपि तपः-कालाभ्यां लघवः ।। [भा.५२४१] मिच्छत्ते उड्डाहो, विराधना फास भावसंबंधो।
आतंको दोण्ह भवे, गिहिकरणे पच्छकम्मंच।। कृ-निर्ग्रन्थं निर्ग्रन्थींपरिष्वजन्तं दृष्ट्वा यथाभद्रकादयो मिथ्यात्वंगच्छेयुः, एते यथा वादिनस्तथा कारिणो न भवन्ति।उड्डाहो वाभवेत्, एतेसंयतीभिरपि सममेब्रह्मचारिणः । एवं शङ्कायांचतुर्गुरु, निशङ्किते मूलम् । एवं प्रवचनस्य विराधना भवेत् । तेन वा स्पर्शेण द्वयोरपि मोहोदये साते
भावसम्बन्धोऽपि स्यात्, ततश्च प्रतिगमनादयो दोषाः । आतङ्को वा द्वयोरन्यतरस्य भवेत् स Jain Education International
www.jainelibrary.org
For Private & Personal Use Only