________________
१७४
बृहत्कल्प-छेदसूत्रम् -३-४/११७ क्योराजकुमारोमातृप्रतिसेवकः, यश्चवणिग्घटिकावोद्राख्यः,येच ते सेनापति महतरसत्के द्वे अपि कुले, एते मूढा मन्तव्याः । यस्तु द्वीपजातः, यश्च पञ्चशैलसुवर्णकारः, ये चान्धाः यश्च 'भच्चकः' सुवर्णकारभागिनेयः, उपलक्षणत्वाद्येच भारतादिकुशास्त्रश्रुतिभाविताअज्ञानमूढाः, एते व्युग्राहिता मन्तव्याः।। अथैषां मध्ये के प्रव्राजयितुं योग्याः? के वान? इत्याह[भा.५२३०] मोत्तूण वेदमूढं, अप्पडिसिद्धाउ सेसा मूढा ।
वुग्गाहिता य दुट्ठा, पडिसिद्धा कारणं मोत्तुं। वृ-वेदमूढं मुक्त्वाये शेषाः द्रव्य-क्षेत्रमूदादयस्तेऽप्रतिषिद्धाः, प्रव्राजयितुंकल्पन्त इत्यर्थः। ये तु व्युद्ग्राहिताः “दुष्टाश्च' कषायदुष्टादयस्ते कारणं मुक्त्वा प्रतिषिद्धाः, कारणे तु कल्पन्त इति भावः ॥किमर्थमेते प्रतिषिद्धाः? इत्याह[भा.५२३१] जंतेहि अभिग्गहियं, आमरणंताए तं न मुंचंति।
सम्मत्तं पिन लग्गति, तेसिं कत्तो चरितगुणा ।। वृ-यत् 'तैः' व्युद्ग्राहितादिभिः किमपि शाक्यादिदर्शनम् अन्यद्वा भारतादिकं मिथ्याश्रुतम् 'अभिगृहीतम् आभिमुख्येनोपादेयतया स्वीकृतं तद् आमरणान्तं न मुञ्चन्ति । अत एवैतेषां सम्यक्त्वमपिन लगति, कुतश्चारित्रगुणाः? इति॥
कथं पुनरमीषां सम्यक्त्वमपिन लगति? इत्याह[भा.५२३२] सोय-सुय-धोररणमुह-दारभरण-पेयकिञ्चमइएसु।
सग्गेसु देवपूयण-चिरजीवन-दानदिढेसु ।। कृ-इह भारतादीशौच-सुत घोररणमुख-दारभरण-प्रेतकृत्यमयेषुदेवपूजन-चिरजीवन-दानहटेषु च स्वर्गेषु ये भाविता भवन्ति, यथा-शौचविधानात् पुत्रोत्पादनाद् घोरसमरशिरःप्रवेशाद् धर्मपलीपोषणात् पिण्डप्रदानादिप्रेत्यकर्मविधानाद् वैश्वानरादिदेवपूजनात् चन्द्रसहस्रादिरूपचिरकालजीवनाद् धेनु धरित्र्यादिदानात् स्वर्गा अवाप्यन्ते॥ [भा.५२३३] इन्चेवमाइलोइयकुस्सुइवुग्गाहणाकुहियकत्रा।
फुडमवि दाइज्जतं, गिण्हंति न कारणं केई॥ -इत्येवमादिलौकिककुश्रुतिव्युग्राहणाकुथितकर्णासन्तस्तस्याः कुश्रुतेरघटनायांस्फुटमपि दर्यमानं कारणम्' उपपत्तिं 'केचिद् गुरुकर्माणोनप्रतिपद्यन्ते अतस्तेदुःसंज्ञाप्या मन्तव्याः॥
मू. (११८)तओ सुसनप्पा पनत्ता, तंजहा-अदुढे अमूढे अवुग्गाहिए।
वृ-त्रयः 'सुसंज्ञाप्याः सुखप्रज्ञापनीयाः प्रज्ञप्ताः। तद्यथा-अदुष्टोऽमूढोऽव्युद्ग्राहितश्चेति॥ आह-पूर्वसूत्रेणैवार्थापत्या इदमवसीयते-यदेतद्विपरीता अदुष्टादयः सुसंज्ञाप्यः ततः किमर्थमिदमारब्धम् ? उच्यते[भा.५२३४] कामं विपक्खसिद्धी, अत्थावत्तीइ होतऽवुत्ता वि।
तह विविवक्खोवुधति, कालियसुयधम्मता एसा॥ वृ-'कामम्' अनुमतमिदम्-विपक्षस्य-प्रतिपक्षार्थस्य सिद्धिरनुक्ताऽप्यर्थापत्या भवति तथापि विपक्षः साक्षादुच्यते । कुतः ? इत्याह-कालिकश्रुतस्य 'धर्मता' स्वभावः शैलीएषा-यदर्थापत्तिलब्धोऽप्यर्थः साक्षादभिधीयते । तथा च तल्लक्षणान्येव दर्शयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org