________________
१६४
बृहत्कल्प-छेदसूत्रम् -३-४/११४ चुक्च-खलिएसु बहुसो, सरोसमिव चोदए तरुणा।। कृ-यानि सूत्राणि वैराग्यकथायांविषयनिन्दायांच निबद्धानि तानि ग्राह्यते, अथवा वैराग्यकथा विषयनिन्दा च तस्य पुरतः कथनीया।उत्तिष्ठन्तो निषीदन्तश्च साधवः ‘गुप्ताः' सुसंवृता भवन्ति यथाऽङ्गादानं स न पश्यति। तस्य यदि सामाचार्यां चुक्ल-स्खलितानि भवन्ति; चुकं नाम-विस्मृतं किञ्चित् कार्यम्, स्खलितं तदेव विनष्टम्; ततो ये तरुणास्ते सरोषमिव तं परुषवचोभिर्बहुशो नोदयन्ति येन तरुणेषु नानुबन्धं गच्छति ॥ अथ धर्मकथापदं व्याचष्टे[भा.५१८२] धम्मकहा पाढिनति, कयकजा वा से धम्ममक्खंति।
मा हन परं पि लोगं, अनुव्वता दिक्ख नो तुझं ।। दृ-धर्मकथाः वा स पाठ्यते । 'कृतकार्या वा' येन कार्येण दीक्षितस्तं समापितवन्तः "से" तस्य धर्ममाख्यान्ति, यथा-महाभाग! रजोहरणादि लिङ्गं धारयन् परभवे बोधेरुपघातकरणाय त्वं वर्तसे, ततोमापरमपि लोकं 'हन' विनाशय, मुञ्च रजोहरणादि लिङ्गम्, तवाणुव्रतानि धारयितुं बुध्यन्ते न दीक्षा ।। एवं प्रज्ञापितो यदि मुञ्चति तदा लष्टम्, अथ न मुञ्चति ततः[भा.५१८३] सनि खरकम्मिओवा, भेसेति कतो इधेस कंचिक्को।
निवसिढे वा दिक्खितो, एतेहिं अनाते पडिसेहो॥ वृ-यः खरकर्मिकः संज्ञी स पूर्वं प्रज्ञाप्यते-अस्माभि कारणे त्रैराशिकः प्रव्राजितः, स इदानीं लिङ्गं नेच्छति परित्यक्तुं ततो यूयं प्रज्ञापयत । एवमुक्तोऽसावागत्य गुरुन् वन्दित्वा सर्वानपि साधून निरीक्षते, ततस्तं पण्डकं पूर्वकथितचिकैरुपलक्ष्य भूमितलास्फालन-शिरःकम्पनखरद्दष्टिनिरीक्षण-परुपवचनर्भेषयति-कुत एषः ‘इह' युष्माकं मध्ये 'कञ्चित्कः' नपुंसकः ? इति; तं च ब्रवीति-अपसर साम्प्रतमितः, अन्यथा व्यपरपयिष्यामि भवन्तम् । एवमुक्तोऽपि यदि लिङ्गं न मुञ्चति, खरकर्मिकस्य वा श्रावकस्याभावे यदि नृपस्य कथयति-अहमेतैर्दीक्षितः साम्प्रतं पुनः परित्यजन्ति; ततो व्यवहारेण जेतव्यः । कथम् ? इत्याह- यद्यसौ जनेनाज्ञातो दीक्षितस्ततः प्रतिषेधः क्रियते, 'नास्माभिर्दीक्षितः' इति अपलप्यत इत्यर्थः ।।अथासौ ब्रूयात्. [भा.५१८४] अज्झाविओ मि एतेहि चेव पडिसेधो किंवऽधीयं ते ।
____ छलियातिकहं कहति, कत्थ जती कत्थ छलियाई॥ वृ-अहमेतैरेवाध्यापितस्ततोऽपिप्रतिषेधः कार्य, न किमप्यस्माभिरध्यापित इत्यर्थः । अथवा वक्तव्यम्-किं त्वयाऽधीतम् ? । ततोऽसौ छलितकाव्यादिकथामाकर्षत् तत्र वक्तव्यम्-कुत्र यतयः? कुत्र च छलितादिकाव्यकथा ?, साधवो वैराग्यमार्गस्थिताः शृङ्गारकथां न पठन्तिन वा पाठयन्ति ॥ वयमीशं सर्वज्ञभाषितं सूत्रं पठामः[भा.५१८५] पुवावरसंजुत्तं, वेरग्गकरंसतंतमविरुद्धं ।
पोराणमद्धमागहभासानियतं हवति सुत्तं ॥ वृ- यत्र पूर्वसूत्रनिबन्धः पाश्चात्यसूत्रेण न व्याहन्यते तत् पूर्वापरसंयुक्तम् । 'वैराग्यकरं' विषयसुखवैमुख्यजनकम्। स्वतन्त्रेण स्वसिद्धान्तेनसहाविरुद्धंस्वतन्त्रविरुद्धम्, 'सर्वथा सर्वकालं सर्वत्र नास्त्यात्मा' इत्यादिस्वसिद्धान्तविरोधरहितमित्यर्थः । 'पोराणं नाम' पुराणैः-तीर्थकरगणधरलक्षणैः पूर्वपरुषैः प्रणीतम् । अर्धमागधभाषानियतमिति प्रकटार्थम ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org