________________
बृहत्कल्प-छेदसूत्रम् - ३-४/११२ द्व्यादिगृहाणां सन्निवेशः, एवंविधस्वरूप एव ग्रामान्तर्गतः पाटकः, साही- शाखारूपेण श्रेणिक्रमेण स्थिता ग्रामगृहाणामेकतः परिपाटिः, ग्रामः प्रतीतः, देश: - जनपदः, राज्यं नाम यावत्सु देशेषु एकभूपतेराज्ञा तावद्देशप्रमाणम् । एतेषु यत्र यस्य दोष उत्पन्न उत्पत्सयते वा स ततः पाराञ्चिकः क्रियते । तथा कुलेन यो निर्यूढः - बाह्यः कृतः स कुलपाराञ्चिकः । गणादू बाह्यः कृतो गणपाराञ्चिकः । सङ्घाद्यस्य निर्यूहणा कृता स सङ्घपाराञ्चिकः । किमर्थमुपाश्रयादिपाराश्चिकः क्रियते ? इत्याह[ भा. ५०१३] उवसंतो वि समाणो, वारिज्जति तेसु तेसु ठाणेसु । हंदि हु पुनो वि दोसं, तट्ठाणासेवणा कुणति
वृ- 'उपशान्तोऽपि' स्वलिङ्गिप्रतिसेवनात् प्रतिनिवृत्तोऽपि सन् 'तेषु तेषु स्थानेषु' प्रतिश्रयकुल-निवेशनादिषु विहरन् वार्यते । कुतः ? इत्याह-'हन्दि' इति कारणोपप्रदर्शने, 'हु'रिति निश्चये, पुनरप्यसौ तस्य स्थानस्यासेवनात् तमेव दोषं करोति ॥ इदमेव स्पष्टतरमाह
१३०
।
[ भा. ५०१४ ] जेसु विहरंति तातो, वारिजति तेसु तेसु ठाणेसु । पढमगभंगे एवं, सेसेसु ति ताई ठाणाई ॥
वृ- 'येषु' ग्रामादिषु 'ताः संयत्यो विहरन्ति तेषु तेषु स्थाने, स विहरन् वार्यते, ततः पाराञ्चिकः क्रियत इत्यर्थः । एवं 'प्रथमभङ्गे' स्वपक्षः स्वपक्षे दुष्ट:' इतिलक्षणे विधिरुक्तः । 'शेषेष्वपि ' द्वितीयादिषु भङ्गेषु तानि स्थानानि वर्जनीयानि । किमुक्तं भवति ? - द्वितीयभङ्गे यस्यामगार्यामध्युपपन्नस्तदीये कुल-निवेशनादौ प्रविशन् वारणीयः, तृतीय- चतुर्थभङ्गयोः 'परपक्षः स्वपक्षे परपक्षे वा दुष्टः' इतिलक्षणयोः उपशान्तस्यापि तेषु स्थानेषु लिङ्गं न दातव्यम् ॥ [ भा. ५०१५ ] एत्वं पुन अहिगारो, पढमगभंगेन दुविह दुट्टे वी। उच्चारियसरिसाई, सेसाई विकोवणट्ठाए ।
।
'वृ- अत्र पुनः 'द्विविधेऽपि' कषायतो विषयतश्च दुष्टे प्रथमभङ्गेनाधिकारः । 'शेषाणि पुनः' द्वितीयभङ्गादीनि पदानि उच्चारितसद्दशानि विनेयमतिविकोपनार्थमभिहितानि ॥
गतो दुष्टः पाञ्चिकः । सम्प्रति प्रमत्तपाराञ्चिकमाह
[ मा. ५०१६ ] कसाए विकहा विगडे, इंदिय निद्दा पमाद पंचविधो । अहिगारो सुत्तम्मिं, तहिगं च इमे उदाहरणा ॥
वृ- 'कषायाः ' क्रोधादयः, 'विकथा' स्त्रीकथादिका, 'विकटं' मद्यम्, 'इन्द्रियाणि' श्रोत्रादीनि 'निद्रा' वक्ष्यमाणा, एष पञ्चविधः प्रमादो भवति । अयं च निशीथपीठिकायां यथा सविस्तरं सपरायश्चित्तोऽपि भावितस्तथैवात्रापि मन्तव्यः । नवरमिह स्वपनं सुप्तं निद्रा इत्यर्थः, तयाऽधिकारः । सा च पञ्चविधा-निद्रा १ निद्रानिद्रा २ प्रचला ३ प्रचलाप्रचला ४ सत्यानर्द्धिश्चेति ५ । तत्रसुहपडिबोहो निद्दा, दुहपड़िबोहो य निद्दनिद्दा य ।
पयला होइ ठियस्सा, पयलापयला उ चंकमतो ॥
स्त्यानर्द्धिस्तु स्त्याना प्रबलदर्शनावरणीयकर्मोदयात् कठिनीभूता ऋद्धिः -चैतन्यशक्तिर्यस्यामवस्थायां सा स्त्यानर्द्धिः, यथा घृते उदके वा स्त्याने न किञ्चिदुपलभ्यते एवं चैतन्यऋध्यामपि स्त्यानायां न किञ्चिदुपलभ्यत इति भावः । अत्र पाराञ्चिकस्य प्रस्तुतत्वात् स्त्यानर्द्धिनिद्रयाऽधिकारः । तस्यां चामून्युदाहरणानि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org