________________
उद्देशक : ३, मूलं- १०१, [भा. ४६०० ]
वृ- संस्तारकस्वामिना श्रुतम् - संस्तारकमनर्पयित्वा गतास्ते संयताः एवं श्रुत्वा यदि प्रीतिकं करोति- 'अनर्पितेऽप्यनुग्रह एवास्माकम्' इति ततश्चतुर्लघवः । अथाप्रीतिकं करोति-मदीयानि तृणानि हारितानि विनाशितानि वा इति तदा चतुर्गुरवः । यच्च तद्द्रव्यस्यान्यद्रव्यस्य वा व्यवच्छेदस्तदाऽपि चतुर्गुरुकम्। अथवा तस्मिन् संस्तारके शून्ये "कप्पट्ट "त्ति बालकानि खेलन्ते ततो मासलघु, अथान्यत्र तं नयन्ति ततश्चतुर्लघु, अथाग्नौ प्रक्षिप्य दहन्ति चतुर्लघवः, दह्यमाने च तस्मिन्नन्येषां प्राणजातीयानां विराधना भवेत् तन्निष्पन्नं प्रायश्चित्तम् ।। अथाप्रीतिकपदं व्याचष्टे[ भा. ४६०१] दिजंते वि तयाऽनिच्छितूण अप्पेमु भे त्ति नेतृणं । कयकज्जा जनभोगं, काऊण कहिं गया भच्छा |
४७
कृ-ग्रहणकाले निर्देजमपि दीयमानं तदानीं नेच्छन्ति स्म । 'अनिष्यच' अनभिकाङ्क्षय मासकल्पे पूर्णे "भे" भवतामर्पयिष्याम इति भणनपूर्वकं नीत्वा साम्प्रतं 'कृतकार्या' विहितात्मप्रयोजनाः शून्ये जनभोग्यं कृत्वा कुत्र ग्रामेनगरे वा गताः ? । "भच्छे"ति नैपातिकं पदं कुत्सायां वर्त्तते, क्क पुनस्ते दुर्द्दष्टधर्माणो गताः ? इत्यर्थः ॥ अथ "कप्पट्ट खेल्लणे" इत्यादि विवृणोति
[ भा. ४६०२ ] कप्पट्ट खेल्लण तुअट्टणे य लहुगो य होति गुरुगो य । इत्थी पुरिसतुयट्टे, लहुगा गुरुगा अनायारे ॥
वृ-तत्र संस्तारके कल्पस्थकानि खेलन्ते लघुको मासः । अथ तान्येव त्वग्वर्त्तयन्ति गुरुको मासः । अथ महती स्त्री महान् पुरुषो वा त्वग्वर्त्तयति चतुर्लघु । अथैतावनाचारमाचरतस्तदा चतुर्गुरुकाः ॥
[भा. ४६०३] वोच्छेदे लगु-गुरुगा, नयने डहणे य दोसु वी लहुगा ॥ विहनिग्गयादऽ लंभे, जंपावे सयं व तु नियत्ता ॥
वृ-तस्यैवैकस्य साधोः तस्यैव चैकस्य द्रव्यस्य व्यवच्छेदे चतुर्लघु । अनेकेषां साधूनामन्यद्रव्याणां च व्यवच्छेदे चतुर्गुरु । संस्तारकस्य कल्पस्थकैरन्यत्र नयेन दहने च द्वयोरपि चतुर्लघवः । व्यवच्छेदकरणाच्च संस्तारकादेरलाभे विहम् - अथवा तन्निर्गतादयो यत् परितापनादि प्राप्नुवन्ति स्वयं चा निवृत्तास्तत्र प्राप्ताः संस्तारकादिकमलभमानायां विराधनामासादयन्ति तन्निष्पन्नं प्रायश्चित्तम् ।। [ भा. ४६०४ ] माइस्स होति गुरुगो, जति एक्कतो भागऽनप्पिए दोसा । अह होति अन्नमन्ने, ते चैव य अप्पिणणे सुद्धो ॥
वृ- 'मायिनः' मायावतो गुरुको मासो भवति । कथं पुनर्मायां करोति ? इत्याह-यदि 'अकतः’ एकस्माद् गृहादनेकैः साधुभिरनेके संस्तारका आनीतास्तदा "भाग "त्ति प्रत्यर्पणकाले तेषु पृथग्भागीकृतेषु य आत्मीयं भागं 'तत्रैव गृहे नेतव्यः' इति कृत्वा तेषां मध्ये प्रक्षिपति नात्मना तत्र नयति एष मायी भण्यते । अस्य च येऽनर्पिते संस्तारके दोषाः ते सर्वेऽपि मन्तव्याः । अथान्यान्येभ्यो गृहेभ्य आनीताः संस्तारका भवन्ति तदांपि मायाकरणे त एव दोषाः । तस्माद् यतो गृहादानीतस्तत्र विधिना प्रत्यर्पणे शुद्ध इति सङ्ग्रहगाथासमासार्थः ॥ अथैनामेव विवृणोति[ भा. ४६०५) संथारेगमनेगे, भयणऽडविहा उ होइ कायव्वा ।
पुरिसे घर संथारे, एगमनेगे तिसु पतेसु ॥
कृ. संस्तार के गृह्यमाणे एका-ऽनेकपदाभ्यामष्टविधा भजना कर्त्तव्या भवति, अष्टौ भङ्गा इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org