________________
४६
बृहत्कल्प-छेदसूत्रम् - ३-३/१००
वृ- कश्चिद् व्रतीलुब्धः सन् विजनं मत्वा स्वयमेव सुवर्णसङ्कलिका मुद्रिकादिकमपहरति, एवमदत्तादानमापद्यते; तं वा संयतं प्रतीत्य 'साधुत्रार्थे शङ्किष्यते नाहम्' इति कृत्वा कर्मकरी काचिदपहरेत् । वाणिजिका वा काचित् प्रोषितभर्तृका तया समं मैथुनविषया आत्म-परोभयसमुत्था दोषा भवन्ति; अथवा यत्र प्रोषितपतिकास्तिष्ठन्ति तत्रासौ 'बहुशः' वारं वारं व्रजति चिरं च ताभि सह कन्दर्पं कुर्वाणस्तिष्ठति ततश्चतुर्थविषये शङ्कयेत 11 अथ परिग्रहदोषानाह--- [भा. ४५९६ ] धम्मं कहइ जस्स उ, तम्मि उ वीयारए गए संते। सारक्खणा परिग्गहो, परेण दिट्ठम्मि उड्डाहो ।
बृ- 'यस्य' श्रावकादेरग्रे धर्मं कथयति स ब्रूयात् यावदहं कायिकां व्युत्सृज्य समागच्छामि तावद् भवता गृहं रक्षणीयम्; एवमुकत्वा तत्र विचारभूमौ गते स संयतो तावत् तद् गृहं संरक्षति तावत् परिग्रहदोषमापद्यते । तदेवं गृहं रक्षन् परेण दृष्टः स शङ्कां कुर्यात् नूनमेतस्यापि हिरण्यं सुवर्णं वा विद्यते; उड्डाहं च स कुर्यात् अहो ! अयं श्रमणकः सपरिग्रह इति । यत एते दोषा अतो नान्तरगृहे धर्मकथा कर्त्तव्या ॥ द्वितीयपदमाह
[भा. ४५९७ ]
एगं नाथं उदगं, वागरणमहिसलक्खणो धम्मो । गाहाहि सिलोगेहि य, समासतो तं पि ठिच्चाणं ॥
वृ- गतार्था ॥
मू. (१०१) नो कप्पति निग्गंधाण वा निग्गंधीण वा पाडिहारियं सिज्जा-संथारयं आयाए अपsिहड संपव्वएत्तए ।
[ भा. ४५९८ ] अविदिनमंतरगिहे, परिकहणमियं पऽदिनमिइ जोगो ।
निगम व समाणं, बहिं व वृत्तं इमं अंतो ॥
कृ- अन्तरगृहे यत् 'परिकथनम्' उपदेशप्रदानंतद् 'अवितीर्ण' तीर्थकरैर्गृहपतिना वा नानुज्ञातम् । 'इदमपि' प्रातिहारिकशय्या-संस्तारकस्याप्रत्यर्पणम् 'अदत्तम्' अननुज्ञातम् 'इति' अयं योगः' सम्बन्धः । यद्वा निर्गमनं प्रतिश्रयाद् द्वयोरपि सूत्रयोः 'समानं' तुल्यम् । अथवा पूर्वसूत्रे प्रतिश्रयाद् ‘बहिः' भिक्षायां निर्गतस्य धर्मकथनंन कल्पते इत्युक्तम्, इदं पुनः 'अन्तः प्रतिश्रयमध्ये संस्तारकस्य यद् निक्षेपणं तत्र कल्पते इत्यत्र प्रतिपाद्यते । अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा प्रतिहरणं प्रतिहारः - प्रत्यर्पणं तमर्हतीति प्रातिहारिकं शय्या चसर्वाङ्गीणा संस्तारक:- अर्धतृतीय हस्तमानः शय्या-संस्तारकं तद् 'आदाय' गृहीत्वा कार्यसमाप्ती 'अप्रतिहृत्य' प्रत्यर्पणमकृत्वा 'सम्प्रतव्रजितुं' ग्रामान्तरं विहर्तुमिति सूत्रार्थ ।। अथ भाष्यविस्तरः[ मा. ४५९९] सिञ्जा संथारो या, परिसाडी अपरिसाडि मो होइ । परिसाडि कारणम्मिं, अणष्पिणे मासो आणादी |
वृ- शय्या संस्तारको वा परिशाटी अपरिशाटी च भवति । परिशाटी तृणादिमयः, अपरिशाटी फलकादिमयः । तत्र परिशाटीसंस्तारकः कारणवशाद् ऋतुबद्धे गृहीतो भवेत् तं मासकल्पे पूर्णेऽनर्पयित्वा व्रजतो मासलघु आज्ञादयो दोषाः । एते चापरे
[भा. ४६००] सोच्द्या गत त्ति लहुगा, अप्पत्तिय गुरुग जं च वोच्छेओ । कप्पट्ट खेल्लणे नयन sहण लगु लहुग गुरुगा य ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org