________________
२४
बृहत्कल्प-छेदसूत्रम् - ३-३/९७
चारित्रे स्थितस्तस्येति । ननु फलसाधकत्वाद् निश्चयस्यैव प्रामाण्यं न व्यवहारस्य इत्याह[भा. ४५०७ ] ववहारो वि हु बलवं, जं छउमत्थं पि वंदई अरिहा । जा होइ अनाभित्रो, जाणंतो धम्भयं एयं ॥
वृ-व्यवहारोऽपि, आस्तां निश्चय इत्यपिशब्दार्थ, 'हुः' निश्चितं बलवान्, यद्यस्मात् छद्यस्थमपि स्वगुरुपभृतिकं वन्दते 'अरहाः' केवली । कियन्तं कालम् ? इत्याह- यावदसौ 'अनाभिन्नोऽस्ति' केवलितया अनभिज्ञातो भवति तावद् 'एतां' व्यवहारनयबलवत्त्वलक्षणां धर्मतां जानन् छद्मस्थमपि वन्दते इति ॥ कथं पुनरसौ केवलितया ज्ञायते ? इत्याह
[मा. ४५०८ ]
केवलिना वा कहिए, अवंदमानो व केवलिं अन्नं । वागरणपुव्वकहिए, देवयपूयासु व मुणंति ॥
वृ- अन्येन केनापि केवलिना 'कथिते' 'अयं केवली जातः' इत्याख्याते सति, अवन्दमानो वा केवलिमनमन्यं केवलितया ज्ञायते । व्याकरणपूर्वं वा अतिशयिज्ञानगम्यार्थकथनपुरःसरं तेनैव केवलिना स्वयमेव कथिते सति, 'दैवतपूजासु वा' यथासन्निहितदेवैः क्रियमाणां महिमां दृष्ट्वा गुरुप्रभृतयस्तं केवलिनं विदन्ति ॥ अथ श्रेणिप्ररूपणामाह
[मा. ४५०९]
अवभागपलिच्छेया, ठाणंतर कंडए य छट्टाणा ।
हिट्ठा पजवसाणे, बुद्धी अप्पाबहुं जीवा ।।
वृ- अविभागपरिच्छेदप्ररूपणा स्थानान्तरप्ररूपणा कण्डकप्ररूपणा षट्स्थानप्ररूपणा अधः प्ररूपणा पर्यवसानप्ररूपणा वृद्धिप्ररूपणा अल्पबहुत्वप्ररूपणा जीवप्ररूपणा चेति ॥ [ भा. ४५१०] आलाव गणण विरहियमविरहियं फासणापरूवणया । गणणपय सेढि अवहार भाग अप्पाबहुं समया ॥
वृ- जीवप्ररूपणार्या चामूनि प्रतिद्वाराणि तद्यथा-आलापप्ररूपणा श्रेण्यपहारप्ररूपणा भागप्ररूपणा अल्पबहुत्वप्ररूपणा श्रमण (समय) प्ररूपणा चेति द्वारगाथाद्वयम् ॥ तत्राविभागपरिच्छेदपररूपणां तावत् करोति
[ मा. ४५११] अविभागपलिच्छेदं, चरित्तपञ्जव-पएस- परमाणू ! परमाणुस्स परूवण, चउव्विहा भावओऽनंता ।
वृ- इह संयमस्थानं केवलिप्रज्ञाच्छेदनकेन छिद्यमानं निरंशतया यदा विभागं न यच्छति तदाऽसावन्तिमो अंशो अविभागपरिच्छेद उच्यते, स चारित्रपर्यायश्चारित्रप्रदेशश्चारित्रपरमाणुर्वा भण्यते । परमाणोश्च सामान्यतश्चतुर्विधा प्ररूपणा द्रव्य-क्षेत्र काल भावभेदात् । द्रव्यत एकोऽणुकः, क्षेत्रत आकाशप्रदेशः, कालतः समयः, भावतस्त्वेकगुणकालकादि। अत एव वा चारित्राविभागपरिच्छेदाः, ते च 'अनन्ताः' अनन्तानन्तकप्रमाणाः । तथा चाह
[मा. ४५१२]
ते कित्तिया पएसा, सव्वागासस्स मग्गणा होइ । ते जत्तिया पएसा, अविभाग तओ अनंतगुणा ॥
वृ- 'ते' चारित्रस्य प्रदेशाः 'कियन्तः ' किंप्रमाणा इति चिन्तायां निर्वचनमाह-सर्वस्य-लोकाSलोकगतस्याकाशस्य मार्गणा भवति । यावन्तः किल 'ते' सर्वाकाशस्य प्रदेशाः 'ततः' तेभ्यः सर्वाकाशप्रदेशेभ्यश्चारित्रस्य अविभागपरिच्छेदा अनन्तगुणाः सर्वजघन्येऽपि संयमस्थाने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org