________________
उद्देशक ः ३, मूलं-९७, [भा. ४५०१] गुरवः, तत एव प्रतिक्रमणानन्तरं कियन्तमपि कालं तेषु पर्युपास्यमानेषु विश्रामणादिविधानेन विनयोऽपि न स्फेटितः' न हापितो भवति । अथ के पुनस्ते येआचार्यस्यापिरलाधिका भवन्ति? इति उच्यते[भा.४५०२] अन्नेसिं गच्छाणं, उवसंपन्नाण वंदनं तहियं ।
बहुमान तस्स वयणं, ओमे वाऽऽलोयणा भणिया। वृ- अन्येषां गच्छानां सम्बन्धिन आचार्या रत्नाधिकतराः सूत्रार्थनिमित्तं कमप्यवमरालिकमाचार्यमुपसम्पन्नास्तेषां मध्यमवन्दनकमवमरालिकेन दातव्यम् । सेषकालं तेऽपि रालिकाः 'तस्य' अवमरालिकस्य 'बहुमान' 'पूज्योऽयमस्माकं गुणाधिकतया' इति लक्षणं 'वचनं च' आज्ञानिर्देशं कुर्वन्ति । अवमेऽपि च तत्रालोचना भणिता भगवभि । किमुक्तं भवति ?-तस्य पुरत आलोचनं प्रत्याख्यानं च वन्दनकं दत्त्वा विधेयमिति भगवतामुपदेशः ।।
अथ परः प्राह-कस्यपुनः कृतिकर्म कर्त्तव्यम् ? कस्य वा न? इति उच्यते[भा.४५०३] सेढीठाणठियाणं, कितिकम्मं बाहिराण भयितव्वं ।
सुत्त-ऽत्थजाणएणं, कायब्बं आनुपुव्वीए। वृ-संयमश्रेण्याः सम्बन्धीनि विशुद्धिप्रकर्षापकर्षकृतस्वरूपभेदरूपाणि यानि स्थानानि तेषु स्थितानां साधूनां कृतिकर्म कर्तव्यम् । ये तुसंयमश्रेणिस्थानेभ्यो बाह्यास्तेषां 'भक्तव्यं कर्त्तव्यं वान वेति भावः । तत्र कारणे समुत्पन्ने सूत्रार्थजजेन' गीतार्थेन 'आनुपूर्व्या “वायाइनमोक्कारो" इत्यादिकया वक्ष्यमाणपरिपाट्या कर्तव्यम्, अन्यथा तु नेति पुरातनगाथासमासार्थः ।।
साम्प्रतमेनामेव विवरीषुराह[भा.४५०४] सेढीठाणठियाणं, कितिकम्मं सेढि इच्छिमो नाउं।
तम्हा खलु सेढीए, कायव्व परवणा इणमो । वृ-संयमश्रेणिस्थानस्थितानां कृतिकर्म कर्तव्यमित्युक्ते कश्चिद् विनेयो ब्रूयात्-वयं तामेव श्रेणिं प्रथमतो ज्ञातुमिच्छामः । सूरिराह-यत एवं भवतः श्रेणिविषया जिज्ञासा तस्मादस्माभिरपि कर्तव्या श्रेणेः प्ररूपणा 'इयं' वक्ष्यमाणलक्षणा ॥
अतस्तामेव चिकीर्षु प्रथमतः श्रेणिस्थितानां कृतिकर्मकरणे विधिमाह[भा.४५०५] पुच्वं चरित्तसेढीठियस्स पच्छाठिएण कायव्वं ।
सो पुन तुल्लचरित्तो, हविज ऊनो व अहिओ वा ।। वृ-'पूर्व प्रथमं यः सामायिकस्य छेदोपस्थापनीयस्य वा प्रतिपत्त्या चारित्रश्रेण्यां स्थितस्तस्य पश्चास्थितेन कृतिकर्मकर्तव्यम् । 'सपुनः पूर्वस्थितस्तंपश्चास्थितमपेक्ष्यनिश्चयतस्तुल्यचारित्रो न्यूनो वाऽधिको वा भवेत् । यतः[भा.४५०६] निच्छयओ दुन्नेयं, को भावे कम्मि वट्टई समणो।
ववहारओ य कीरइ, जो पुवठिओ चरित्तम्मि ।। दृ- 'निश्चयतः' तत्त्ववृत्त्या कः पूर्वस्थितः पश्चास्थितो वा श्रमणः कस्मिन् 'भावे' चारित्राध्यवसायरूपेमन्देमध्ये तीब्रेवा वर्तते इतिदुर्जेयम्, तदपरिज्ञानाच कथंनिश्चयनयाभिप्रायेण कृतिकर्म कर्तुं शक्यम् ? । 'व्यवहारतस्तु' व्यवहारनयमङ्गीकृत्य पुनः क्रियते कृतिकर्म यः पूर्वं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org