________________
२१
उद्देशकः ३, मूलं-९७, [भा. ४४९१]
वृ-वन्दनकं ददत् ‘करमिव' राजदेयभागमिव मन्यते, आर्हतोऽयंकर इति । गृहीतवरताच वयं लौकिककराद् मुक्तास्तावन मुच्यामहे बन्दनकरस्यार्तस्येति ।। सप्तविंशं दोषमाह[मा.४४९२] आलिट्ठमनालिट्टे, रयहर सीसे य होति चउभंगो ।
बयण-करणेहि ऊणं, जहन्नकाले सेसेहिं ।। वृ-आश्लिष्टमनाश्लिष्टं चेति पदद्वयमाश्रित्य रजोहरण-शिरसोर्विषये चतुर्भङ्गिका भवति, सा च "अहोकायं काय" इत्याद्यावर्तकाले सम्भवति-रजोहरणं कराभ्यामाश्लिष्यति शिरश्चेत्येकः, रजोहरणं श्लिष्यति नशिर इति द्वितीयः, शिरः श्लिष्यति नरजोहरणमितितृतीयः, नरजोहरणं नशिरश्चश्लिष्यति इतिचतुर्थो भङ्ग इति।अत्रायो भङ्गः शुद्धः,शेषभङ्गत्रयेआश्लिष्टानाश्लिष्टदोषदुष्टं प्रकृतवन्दनमवतरति ।अधाविंशंदोषमाह-वचनैः-आलापकैः करमैर्वा-अवनामादिभिरावश्यकैः 'न्यून' हीनं यद्वन्दते, यद्वा कश्चदत्युत्सुकतया 'जघन्येनैव स्वल्पेनैवकालेन वन्दनं समापयति शेषैर्वा साधुभिर्वन्दिते सति पश्चाद् द्वन्दते तद्न्यूनं नाम वन्दनकम्॥एकोनत्रिशंत्रिशंच दोषमाह[भा.४४९३] दाऊण वंदनं मत्थएण बंदामि चूलिया एसा।
तुसिणी आवत्ते पुन, कुणमाणो होइ मूर्य तु ॥ वृ-यद् वन्दनकं दत्त्वा पश्चाद् महता शब्देन “मस्तकेन वन्दे" इति ब्रूते एषा उत्तरचूलिका मन्तव्या। यत् 'तूष्णीकतया' मौनेन आवर्तान् द्वादशापि कुर्वाणो वन्दतेतमूकवन्दनकं भवति।।
एकत्रिंशं द्वात्रिंशं च दोषमाह[भा.४४९४} उच्चसरेणं वंदइ, ढड्डर एयं तु होइ बोधव्वं ।
चुडुलि व्व गिण्हिऊणं, रयहरणं होइ चुडुलीओ। वृ-'उच्चस्वरेण' महताशब्देन वनद्नकसूत्रमुच्चारयन्यद्वन्दतेतदेतद् ढड्रमिति बोद्धव्यम्। चुडली नाम-उल्का तामिव पर्यन्ते गृहीत्वा रजोहरणं भ्रामयन् यद् वन्दते स चुड्डलिका नाम द्वात्रिंशो दोष इति ।। साम्प्रतमेतेष्वेव प्रायश्चित्तमाह[मा.४४९५] थद्धे गारव तेनिय, हीलिय रुट्ठ लहुगा सढे गुरुगो।
दुट्ठ पडिनीय तजित, गुरुगा सेसेतु लहुगोतु।। . वृ-स्तब्ध-गौरव-स्तेनित-हीलित-रुटेषु प्रत्येक चतुर्लघवः । शठे मायादोषप्रत्ययं मासगुरुकम्। दुष्ट-प्रत्यनीक-तर्जितेषु चत्वारो गुरुकाः। 'शेषेषु अनाहत-प्रविद्ध-परिपिण्डितादिषुत्रयोविंशतौ दोषेषु प्रत्येकमसमाचारीनिष्पन्नं मासलघु ।। अथ कृतिकर्मकरणविधिमाह[मा.४४९६] आयरिय-उवज्झाए, काऊणं सेसगाण कायव्वं ।
उप्परिवाडी मासिग, मदरहिए तिन्त्रिय थुतीओ।। वृ-प्रतिक्रमणसूत्राकर्षणानन्तरमाचार्योपाध्याययोः प्रथमं कृतिकर्म कृत्वा ततः शेषसाधूनां यथारलाधिकक्रमं कर्त्तव्यम् । अथोत्परिपाट्या वन्दते ततोलघुमासिकम् । तेनापि चाचार्यादिना मदरहितेन वन्दनकं प्रतीच्छनीयम् । प्रतिक्रमणे च समापिते तिम्रः स्तुतयः स्वरेण च्छन्दसा च प्रवर्धमाना दातव्याः॥आह-शेषसाधूनां किं सर्वेषामपिवन्दनं विधेयम्? उतन? इतिअत्रोच्यते[भा.४९७] जा दुचरिमोत्ति ता होइ वंदनं तीरिए पडिक्कमणे ।
आइन्नं पुन तिण्हं, गुरुस्स दुण्हं च देवसिए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org