________________
१६
बृहत्कल्प-छेदसूत्रम् - ३-३/९७
द्वितीयं त्रामणके, तृतीयं षाण्मासिकतपश्चिन्तनकायोत्सर्गार्थम्, चतुर्थं प्रत्याख्यानग्रहणार्थमिति । तथा स्वाध्याये त्रीणि वन्दनकानि, तत्र च वृद्धसम्प्रदाय:- सज्झाए वंदित्ता पट्ठवेइ, एयं पढमं । पवेयंतस्स विइयं, पच्छा उद्दिनं समुद्दिनं पढइ, उद्देस समुद्देसवंदनाणमिहेवंतब्भावो । तओ जाहे चउभागावसेसा पोरिसी ताहे पाए पडिलेहेइ, जइ न पढिउकामो तो वंदइ, अह पढिउकामो ताहे अवंदित्ता पाए पडिलेहेइ, पडिलेहित्ता पच्छा पढइ, कालवेलाए वंदिउं पडिक्कमइ, एयं तइयं ।
एवं पूर्वाह्न सप्त वन्दनानि अपराह्येऽप्येवमेव सप्त भवन्ति-तत्र चत्वारि दैवसिकप्रतिक्रमणे, त्रीणि स्वाध्याये, अनुज्ञावन्दनानां स्वाध्यायवन्दनेष्वेवान्तर्भावादिति सर्घसङ्ख्यया चतुर्दशवन्दनकानि भवन्ति । एतच्चाभक्तार्थिकभङ्गीकृत्योक्तम् । यस्तु भक्तार्थिकस्तस्य भोजनान्तरभाविप्रत्याख्यानवन्दनकसहितानि पञ्चदश भवन्तीति । एतेषां मध्यादेकतरस्यापि कृतिकर्मणोऽकरणे मासिकं लघुकं प्रायिश्चित्तं भवति । तथा आवश्यं कुर्वन् विपरीतमालापकोच्चारणं करोति, तद्यथादैवसिके आवश्यके 'क्षामयामि क्षमाश्रमण ! रात्रिकं व्यतिक्रमम्' इत्युञ्चरति, रात्रिके वा दैवसिकाभिलापं करोति, एवं पाक्षिकः चातुर्मासिक-सांवत्सरिकेष्वपि प्रतिक्रमणेषु वक्तव्यम्, अत्र सर्वत्राप्यसामाचारीनिष्पन्नं मासलघु । “ऊणऽहिए चेव "त्ति ऊनानि वा एकद्व्यादिभिर्वन्दकैर्हीनानि अधिकानि । वा यथोक्तप्रमाणादतिरिक्तानि दैवसिकादिप्रतिक्रमणेषु वन्दनकानि प्रयच्छतो मासलघु ॥ अथ “वंदनए जानि य पयानि" त्ति पदेन यानि द्व्यवतादीनि पञ्चविंशतिवन्दनकस्यावश्यकपदानि सूचितानि तानि दर्शयति
[ भा. ४४७०]
दुओणयं अहाजायं, किइकम्मं बारसावयं । चउसिरं तिगुत्तं च, दुपवेसं एगनिक्खमणं ॥
वृ- अवनतिरवनतम् उत्तमाङ्गप्रधानं प्रणमनम्, द्वे अवनते यस्मिन् तद् द्व्यवनतम् एकं यदा प्रथममेव " इच्छामि खमासमणी ! वंदिउं जावणिजाए निसीहियाए" इत्यभिधाय छन्दोऽनुज्ञापनायावनमति, द्वितीयं पुनरेवमेव द्वितीयप्रवेशे इति २ । 'यथाजातं नाम' यथा प्रमतो जननीजठरान्निर्गतो यथा च श्रमणो जातस्तथैव वन्दनकं दातव्यम्-तत्र रजोहरणमुखवस्त्रिकाचोलपट्टकमातन्त्रया श्रमणः सञ्जातः, रचितकरसम्पुटस्तु योन्या विनिर्गतः, एवम्भूत एव वन्दनकं दत्ते ३ । 'कृतिकर्म' वंन्दनकं "बारसावयं' ति द्वादशावर्त्त भवति-इह प्रथमतः प्रविष्टस्य "अहो कायं, काय, जत्ता भे, जवणि जंच मे'' इति सूत्राभिधानगर्भा गुरुचरणन्यस्तहस्तशिरः स्थापनरूपाः षडावर्त्ता भवन्ति, अवग्रहान्निर्गत्य पुनः प्रविष्टस्याप्येवमेव षडिति द्वादशावर्तवन्दनकमुच्यते १५ । चत्वारि शिरांसि उपचारात् शिरोऽवनमनानि यस्मिन् तत् चतुः शिरः - तत्र संफासनमने एगं, खामणानमणे सीसस्स बीयं, एवं बीयपवेसे वि दोन्नि त्ति १९ । तथा त्रयः -मनो- वाक्- काययोगा गुप्ताः- सुप्रणिहिता यस्मिन् तत् त्रिगुप्तम्, इयमत्र भावना-मनसा सम्यक्प्रणिहितो याचा अस्खलितानि सूत्रपदानि विकथादिनिरोधेनोच्चारयन् कायेनावर्त्तान् सम्यक् प्रयुआनो चन्दनं ददाति २२ । द्वौ प्रवेश गुरोरवग्रहादावश्यिक्या निर्गच्छतो यत्र तद् एकनिष्क्रमणम् २५ । एतेषां पञ्चविंशतेरावश्यकानामकरणे प्रत्येकं मासलघु प्रायश्चित्तम् । अथवा "वन्दनके यानि पदानि" इत्यत्र अनाध्तादीनि द्वात्रिंशत्सङ्ख्याकानि दोषपदानि मन्तव्यानि ।। तानि चामूनिअनाढियं च थद्धं च, पविद्धं परिपिंडियं ।
For Private & Personal Use Only
[मा. ४४७१]
Jain Education International
www.jainelibrary.org