________________
૪
बृहत्कल्प-छेदसूत्रम् - ३-३/९७
[भा. ४४६० ] भग्गऽम्ह कडी अब्मुट्ठणेण देइ य अनुट्ठणे सोही । अनिरोहसुहो वासो, होहिइ ने इत्य अच्छामो ॥
वृ- अस्माकं पूर्वस्मिन् गच्छे वसतामाचार्यस्य चङ्क्रमणादिषु वारंवारमभ्युत्थानेन कटी भग्ना, अथासौ नाभ्युत्थीयते ततः 'शोधिं' प्रायश्चित्तं प्रयच्छति गाढंच खर परुषैः खरण्टयति, अस्मिस्तु गच्छे न प्रायश्चित्तं न च खरण्टना, तोऽनिरोधः-अनियन्त्रणा तेन सुखः सुखदायी वासोऽत्र “ने” अस्माकं भविष्यति, तिष्ठामो वयमत्रेति कृत्वा तत्रैव तिष्ठेयुः, न भूयः स्वगच्छं गच्छेयुः ॥ [भा. ४४६१] जे पुन उज्जयचरणा, पंजरभग्गो न रोयए ते उ । अन्नत्य वि सइरतं, न लब्भई एति तत्थेव ॥
वृ- ये पुनः 'उद्यतचरणाः' स्वल्पेऽप्यनभ्युत्थानादावपराधे सम्यक् प्रतिनोदनाकारिणस्तान् पञ्जरभग्नः 'न रोचयति' न रुचिपथं प्रापयति, चिन्तयति च - 'अन्यत्रापि' गच्छान्तरे 'स्वैरित्वं' स्वातन्त्र्यं न लभ्यते इति विचिन्त्य 'तत्रैव' स्वगच्छे 'एति' समागच्छति ॥
अथ संयमाभिमुखोऽसौ समागतस्ततः किम् ? इत्याह
[मा. ४४६२] चरणोदासीणे पुन, जो विप्पजहाय आगतो समणो । सो तेसु पविसमाणो, सद्धं वड्डेइ उभओ वि ॥
वृन्यः पुनः श्रमणः 'चरणोदासीनान्' पार्श्वस्थादीन् सुखशीलविहारिणो विप्रहाय संयमाभिमुखः समागतः सः 'तेषु' गच्छान्तरीयेषु साधुषु प्रविशन् उभयेषामपि साधूनां श्रद्धां वर्धयति । तथाहियत्र गच्छेऽसौ प्रविशति तदीयाः साधवश्चिन्तयन्ति - एषः 'सुन्दरा अमी' इति परिभाव्यास्माकं मध्ये प्रविशति अतः सुन्दरतरं कुर्महे । यस्मादपि गच्छादायातस्तदीया अपि चिन्तयन्ति-अस्मान् 'सुखशीलान्' इति विज्ञायैष गच्छान्तरं गच्छति अतो वयमुद्यता भवाम इति ॥ अथासौ संयमाभिमुखस्तत्रापि सामाचारीहापनं प्रतिनोदनाया अभावं च पश्यति ततश्चिन्तयति -
[मा. ४४६३] इत्थ वि मेराहानी, एते वि हु सार-वारणामुक्का । अन्ने वयइ अभिमुो, तप्पच्चयनिञ्जराहानी ॥
- अत्रापि गच्छे न केवलं पूर्वस्मिन् इत्यपिशब्दार्थ, मर्यादायाः - अभ्युत्थानादिसामाचार्या हानिरवलोक्यते, 'एतेऽपि च ' साधवः स्मारणा- वारणामुक्ताः परिस्फुटं प्राक्तनगच्छसाधव इव निरर्गलाः समीक्ष्यन्ते, अतः को नामामीषां समीपे स्थास्यति ? इति मत्वा स संयमाभिमुखः साधुः 'अन्यान्' गच्छान्तरीयान् साधून् 'व्रजति' प्रविशति । प्रविशतु नाम गच्छान्तरं का नो हानि ? इति चेद् अत आह- 'तव्यत्यया' तस्य साधोः संयमानुपालनोपष्टम्भकरणहेतुका या निर्जरा तस्या हानि प्राप्नोति सा न भवतीत्यर्थः । आह किं कारणमसौ तेषु न प्रविशति ? इत्याह[भा. ४४६४] जहि नत्यि सारणा वारणा य पडिचोयणा य गच्छम्मि ।
सो उ अगच्छो गच्छो, संजमकामीण मोत्तव्वी ॥
वृ- विस्मृते कचित् कर्त्तव्ये 'भवतेदं न कृतम्' इत्येवंरूपा स्मारणा सारणा, अकर्तव्यनिषेधो वारणा, उपलक्षणत्वाद् अन्यथा कर्त्तव्यमनाभोगादिना अन्यथा कुर्वतः सम्यक्प्रवर्त्तना प्रेरणा, निवारितस्यापि पुनः पुनः प्रवर्त्तमानस्य खर- परुषोक्तिभि शिक्षणं प्रतिनोदना । एताः सारणादयो यत्र गच्छे न सन्ति स गच्छो गच्छकार्याकरणादगच्छो मन्तव्यः, अत व 'संयमकामिना'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org