________________
मू० १३५
श्रमणपरिमाणं, प्रवाहतः पुनरेकैकस्मिन्तीर्थे भूयांसः श्रमणा वेदितव्याः, तत्र ये प्रधानसूत्रविरचनशक्तिसमन्विताः सुप्रसिद्धास्तद्गता अतत्कालिका अपि तीर्थे वर्त्तमानास्तेऽत्राधिकृता द्रष्टव्याः २ ।
एतदेव मतान्तरमुपदर्शयन्नाह - ' अहवे' त्यादि, अथवेति प्रकारान्तरोपदर्शने यस्य ऋषभादेस्तीर्थकृतो यावन्तः शिष्यास्तीर्थे औत्पत्तिक्या १ वैनयिक्या २ कर्मजया ३ परिणामिक्या ४ चतुर्विधया बुद्ध्या उपेताः - समन्विता आसीरन् तस्य ऋषभादेस्तावन्ति प्रकीर्णकसहस्राणि अभवन्, प्रत्येकबुद्धा अपि तावन्त एव २ ।
के व्याचक्षते -इह एकैकस्य तीर्थकृतस्तीर्थेऽपरिमाणानि प्रकीर्णकानि भवन्ति, प्रकीर्णककारिणामपरिमाणत्वात्, केवलमिह प्रत्येकबुद्धरचितान्येव प्रकीर्णकानि द्रष्टव्यानि, प्रकीर्णकपरिमाणेन प्रत्येकबुद्धिपरमाणप्रतिपादनात् स्यादेतत् प्रत्येकबुद्धानां शिष्यभावोविरुध्यते, तदेतदसमीचीनं, यतः प्रव्राजकाचार्यमेवाधिकृत्य शिष्यभावो निषिध्यते न तु तीर्थकरोपदिष्टशासनप्रतिपन्नत्वेनापि ततो न कश्चिद्दोषः, तथा च तेषां ग्रन्थः ।
“इह तित्थे अपरिमाणा पइन्नगा पइण्णगसामिअपरिमाणत्तणओ, किंतु इह सुत्ते पत्तेयबुद्धपणीय तत्तिया चेव"त्ति, चोयग आह- ननु पत्तेयबुद्धा सिस्सभावो य विरुज्झए ?, आयरिओ आह - तित्थगरपणीयसासणपडिवत्रत्तणओ तस्स सीसा हवंती" ति ।
२५७
अन्ये पुनरेवमाहुः - सामान्येन प्रकीर्णकैस्तुल्यत्वात् प्रत्येकबुद्धानामत्राभिधानंनतु नियोगतः प्रत्येकबुद्धरचितान्येव प्रकीर्णकानीति, 'सेत' मित्यादि, तदेतत्कालिकं, तदेतदावश्यकव्यतिरिक्तं, तदेतदनङ्गप्रविष्टमिति । पू. (१३६)
पढंतु साहुणो एयं, असज्झायं विवज्जिरं । उत्तमं सुयनिस्संद, गच्छायारं सुउत्तमं ।।
वृ. परंतु० ॥ 'पठन्तु' व्यक्तवाचा सूत्रतोऽर्थतश्च कण्ठगतं कुर्वन्तु 'साधवः' मोक्षसाधनतत्परमुनयः, उपलक्षणत्वात् साध्व्योऽपि ननु यदुक्तं साधुसाध्व्य एव पठन्त किं श्राद्धादयो न सिद्धान्तं पठन्ति ?, उच्यते, न पठन्त्येव यदुक्तं श्रीनिशीथसूत्रस्यैकोनविंशतिकोद्देशकप्रान्ते "जेभिक्खू वा भिक्खुणी वा अण्णउत्थियं वा गारत्थियं वा वाएइ वाणंतं वा साइजइ" अस्य चूर्णि -
,
गिही अन्नतित्थिया वा वाएयव्वा, इत्य दसमउद्देसाओ अत्यो जहा - अन्नउत्थियं वा गारत्थियं वा वायति अन्नतित्थगा अन्नतित्थिणीओ अहवा गिहत्था गिहत्थीओत्ति, भवे कारणं वाएज्जावि, 'पव्वज्जाए' गाहा, गिहि अन्नपासंडिया पव्वज्जाभिमुहं सावगं वा छज्जीवणियंति जाव सुत्तस्थो अत्यओ जाव पिंडेसणा, एस गिहत्थाइसु अववाओ "त्ति ।
तथा ' एवं 'ति एनं गच्छाचारं पूर्वोक्त शब्दार्थ, किं विधाय ? - 'अस्वाध्याय' अपठनप्रस्तावं स्थानातोक्तं 'वर्जयित्वा' परित्यज्य, स्थानाङ्गोक्ता अस्वाध्याया यथा-"दसविहे अंतलिक्खिए असज्झाइए पन्नत्ते, तंजहा - उक्कावाए १ दिसिदाहे २ गज्जिए ३ विज्जुए ४ निग्धाए ५ जूवए ६ जक्खालित्तए ७ धूमिय ८ महिया ९ रयउग्घाए १०" इदं सूत्रम्, अस्य वृत्ति
'अंत०' आकाशभवं 'अस०' अवाचनादि दिग्विभागे महानगरप्रदीपनकमिव य उदद्योतो भूमावप्रतिष्ठितो गगनतलवर्त्ती स दिग्दाहः २, 'निर्घातः' साम्रे निरभ्रे वा गगने व्यन्तरकृतो
14 17
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org