SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ १३१ नमो नमो निम्मल देसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः - | २८ तन्दुलवैचारिक-प्रकिर्णकसूत्रम् सटीक (पञ्चम-प्रकिर्णकम्) (मूलसूत्रम् + विजयविमल विरचिता वृत्तिः) ॥१॥ ऋषभं वृषसंयुक्तं, वीरं वैरनिवारकम् । गौतमं गुणसंयुक्तं, सिद्धान्तं सिद्धिदायकम् ।। ॥२॥ प्रणम्य स्वगुरुं भक्त्या, वक्ष्ये व्याख्यां गुरोः शुभाम् । तन्दुलाख्यप्रकीर्णस्य, वैराग्यरसवारिधः ।। इ.ननु कियन्तिप्रकीर्णकानि कय्यन्ते, कथं तेषांचोत्पत्ति? उच्यते 'नंदी अनुओगदाराई २देविंदत्थओ३ तंदुलवेयालियं४चंदाविज्झय ५मित्यादीनिश्रीनन्दीसूत्रोक्तानि कालिकोत्कालिकमेदभिन्नानिचतुरशीतिसहस्रसंख्यानि प्रकीर्णकान्यभवन् श्रीऋषभस्वामिनः, कथं? ऋषभस्य चतुरशीतिसहनप्रमाणाः श्रमणा आसीरन्, तैरेकैकस्य विरचितत्वात् १, एवंसंख्येयानि प्रकीर्णकसहस्राणि आसीरनजितादीनांमध्यमजिनानां, यस्ययावन्तिभवन्तितस्य तावन्तिप्रथमानुयोगतो वेदितव्यानि २, चतुर्दशप्रकीर्णकसहस्राणि आसीरन्वर्द्धमानस्वामिनः ३इति, तेषांमध्ये श्रीवर्द्धमानस्वामिस्वहस्तदीक्षितेनैकेन साधुना विरचितमिदं तन्दुलवैचारिकं प्रकीर्णकं, तस्य व्याख्या क्रियत इतिमू(१) निजरियजरामरणं वंदित्ता जिनवरं महावीरं । युच्छं पयण्णयमिणं तंदुलवेयालियं नाम ॥ दृ.निजरिय'० निर्जरितं-सर्वथा क्षयं नीतंजराच-वृद्धत्वं मरणंच-पञ्चत्वंजरामरणं यद्वा जरया-वृद्धभावेन जरायां-वृद्धभावे वा मरणं जरामरणं येन स निर्जरितजरामरणस्तं, वन्दित्वा-कायवाङ्मनोभिः नत्वा जिनाः-रागद्वेषादिजयनशीलाः सामान्यकेवलिनस्तेषु तेभ्यो वावर:-प्रधानोऽतिशयापेक्षया श्रेष्ठोजिनवरस्तंजिनवरं, अतिशयस्वरूपं समवायाङ्गोक्तं यथा'चोत्तीस बुद्धातिसेसा पं० तं०-- ___अवट्ठिए केसमंसुरोमणहे १ निरामया निरुवलेवा गायालही, अयंजन्मप्रत्ययः २ गोखीरपंडुरे मंससोणिए, जन्मप्रत्ययः ३पउमुप्पलगंधिए उस्सासनिस्सासे, जन्मप्रत्ययः ४ पच्छन्नेआहारनीहारे अदिस्से मंसचक्खुणा, जन्मप्रत्ययः ५ आगासगयं चक्कं ६ आगासगयं छत्तं ७ आगासियाओ सेयवरचामराओ ८ आगासफालियमयं सपायपीढं सीहासनं-आकाशमिव- यदत्यन्तमच्छं स्फटिकं तन्मयं ९ आगासगओ कुडभीसहस्सपरिमंडियाभिरामो इंदज्झओ पुरओ गच्छति १० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003362
Book TitleAgam Sutra Satik 28 Tandulvaicharika PainngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages88
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 28, & agam_tandulvaicharik
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy