________________
१९४
तन्दुलवैचारिक-प्रकिर्णकसूत्रम् १६० किंभूतं श्रुत्वा, किंभूतं?-महान् अर्थो-ज्ञानवैराग्यादिक यस्मात् स महार्थस्तत्यूयं मोक्षपमीहत्-वाञ्छत, किंभूतं ? --'सम्मत्त त्ति अनन्तज्ञानपर्यायानन्तदर्शनपर्यायानन्तागुरुलघुपर्यायादिसहस्रपत्राणि यत्र तत्सम्यक्त्वसहस्रपत्रं, अत्र कर्मणि षष्ठी। मू. (१६१) एवं सगडसरीरंजाइजरामरणवेयणाबहुलं ।
तह पत्तह काउंजे जह मुच्छह सब्दुक्खाणं॥ वृ. 'एयंस० एतच्छरीरशकटंजातिजरामरणवेदनाबहुलं तहघत्तह'त्ति तथायतध्वं-तथा यलं कुरुतेत्यर्थः, यद्वा तथा खेटयत काउं' कृत्वा-विधायतपःसंयमादिकमितिशेषः, 'जे'इति पादपूरणे, यथा मुञ्चत, केभ्यः ?-सर्वदुःखेभ्यः, बलसारराजर्षिवाददिति ॥
२८ पंचमंप्रकीर्णकंतन्दुलवैचारिकंसमाप्तम् इति श्रीहीरविजयसूरिसेवितचरणेन्दीवरे श्रीविजयदानसूरीश्वरे विजयमाने वैराग्यशिरोमणीनां मुक्तशिथिलाचाराणां धनभावधनभव्यशिलीमुखसेवितक्रमणबिसप्रसूनानां श्रीआनन्दविमलसूरीश्वराणां शिष्याणुशिष्येण विजयविमलाख्येन पण्डितश्रीगुणसौभाग्यगणिप्राप्तन्दुलवैचारिकज्ञानांशेन श्रीतन्दुलवैचारिकस्येयमवचूरि समर्थिता।
अत्र मया मूर्खशिरो- मणिना जिनाज्ञाविरुद्धं यद् व्याख्यातं लिखितं च तन्मयि रहे परमदयां कृत्वाऽऽगमज्ञैः संशोध्यमिति भद्रम् ॥
मुनि दीपरलसागरेण संशोधिता सम्पादिता तन्दुलवैचारिकस्य विजयविमल विरचिता टीका (अवधूरिः) परिसमाप्ता ।
***
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org