________________
१७६
तन्दुलवैचारिक-प्रकिर्णकसूत्रम् १११
वृ.कित्तिय०' कियन्मानं-कियप्रमाणं वन्ने ति वर्णयामि शरीरे-वपुषि, किंभूते अमेध्यं प्रचुरमस्मिन्नित्यमेध्यमये-गूथात्मके इत्यर्थः,वर्चस्कसवाते-परमापवित्रविष्ठासमूहे विरागमूले त्ति विरुद्धो रागः विरागः मनोजराग इत्यर्थ तस्य मूलं-कारणं कामासक्तानामङ्गारवतीरूपदर्शने चन्द्रप्रद्योतनस्येव, यद्वा विगतो-गतो रागो-मन्मथभावो यस्मात्स विरागः वैराग्यमित्यर्थः तस्य मूलं-कारणं, काष्ठश्रेष्ठेरिव (श्रेष्ठिन इव) तस्मिन् विरागमूले हु यस्मादेवं तस्माद्रागो न कर्तव्यः, स्थूलभद्रवज्रस्वामिजम्बूस्वाम्यादिवत्॥ मू. (११२) किमिकुलसयसंकिण्मे असुइमचुक्खे असासयमसारे ।
सेयमलपुव्वडंमी निव्वेयं वच्चह सरीरे ॥ वृ. 'किमि०' कृमिकुलशतसङ्कीर्णे 'असुइमचुक्खे'त्ति अशुचिके-अपवित्रमलव्याप्ते अचुक्षे-अशुद्धे सर्वथा पवित्रीकर्तुमशक्यत्वात्, अशाश्वते क्षणं क्षणं प्रति विनश्वरत्वात्, असारे-सारवर्जिते सेयमलपुव्वडंमिति दुर्गन्धस्वेदमलचिगचिगायमाने, एवंविधेशरीरे हे जीवा. यूयं निर्वेद-वैराग्यं व्रजत-गच्छत, विक्रमयशोनृपस्येवेति। मू. (११३) दंतमलकत्रगूहगसिंघाणमले य लालमलबहुले।
एयारिसे बीभच्छे दुगुंछणिजंमि को रागो। वृ. 'दंतम०' दन्तमलकर्णमलगूथकसिंघानमले चशब्दः शरीरगतानेकप्रकारमलग्रहणसूचनार्थ लालामलबहुले एतादृशे बीभत्से-जुगुप्सनीये सर्वथा निन्द्ये वपुषि को रागः ।। मू. (११४) को सडणपडणविकिरिणविद्धंसणचयममरणधम्ममि ।
देहमि अहीलासो कुहियकडिणकट्ठभूयंमि ।। __ वृ. 'को सड०' देहे-शरीरे कः अभिलाषः-वाञ्छा ?, किंभूते ? -शटनपतनविकिरणविध्वंसनच्यवनमरणधर्मे, तत्र शटनंकुष्ठादिनाऽङ्गुल्यादेः पतनं बाह्लादेः खड्गच्छेदादिना विगकिरणं-विनश्वरत्वं विध्वंसनं-रोगज्वरादिना जर्जरीकरणं च्यवनं-हस्तपादादेर्देशक्षयः मरणं-सर्वधा क्षयः, पुनः किंभूते? -कुथितकठिनकाष्ठभूते-विनष्टकर्कशदारुतुल्ये। मू. (११५) कागसुणगाण भक्खे किमिकुलमत्ते य वाहिभत्ते य।।
देहमि मच्छभत्ते सुसाणभत्तंमि को रागो।। वृ. 'कागसु०' देहे को रागः?, किंभूते?-काकश्वानयोः-धूकारिभषणयोः भक्ष्ये-खाचे कृमिकुलभक्ते च व्याधिभक्ते च मत्स्यभक्ते च कचिन्मच्चुभत्तेत्ति मृत्युभक्तमिति श्मशानभक्ते मू. (११६) असुई अमिज्झपुत्रं कुणिमकलेवरकुडिं परिसवंति।
आगंतुयसंठवियं नवच्छिड्डमसासयं जाणे॥ वृ. 'असुइ' अशुचि-सदाऽविशुद्धममेध्यपूर्ण-विष्ठाभूतं कुणिमकलेवरकुडिंमांसशरीरहड्डयोगुहं 'परिसवंति'त्ति परिस्रवत्-सर्वतो गलत्, आगन्तुकसंस्थापितं-मातापित्रोः शोणितपुद्गलैर्निष्पादितं नवच्छिद्रं-नवरन्ध्रोपेतमशाशवतं-अस्थिरंएवंविधं वपुस्त्वं जानीहीति मू. (११७) पिच्छसि मुहं सतिलयं सविसेसं रायएण अहरेणं।
सकडक्खं सविआरं तरलछि जुब्बणित्थीए। वृ. 'पिच्छसि' 'जुव्वणित्थीए'त्ति यौवनस्त्रियाः-तरुण्याः मुखं-तुण्डं त्वं पश्यसि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org