________________
मू०१०२
१७१
मा णं०' माशब्दो निषेधार्थः 'ण' वाक्यालङ्कारे अथवा ‘मा णं'ति मा इदं शरीरमिति व्याख्येयं, ततः सर्वेऽप्युष्णादयो मा स्पृशन्तु छुयंतु' भवन्त्वित्यर्थः, तिकट्ठ' इतिकृत्वा, अथवेत्यभिसन्धाय पालितमिति शेषः, तत्रोष्मत्वं-ग्रीष्मादावुष्णत्वंशीतं-शीतकालेशीतत्वं व्यालाःश्वापदाः सावा क्षुद्-बुभुक्षा पिपासा-तृषा चौराः-निशाचराः दंशाः मशकाः एतेविकलेन्द्रियजन्तुविशेषाः वातिकपैत्तिकश्लेष्मिकसान्निपातिका विविधरोगातङ्काः रोगाः-कालसहा व्याधयः आतङ्काः-त एव सद्योघातिनः।
‘एवंपि याइन्ति एवमुक्तप्रकारेण सपिचेत्यभ्युच्चये 'आई' इति वाक्यालङ्कारे, इदं शरीरं नध्रुवमध्रुवं सूर्योदयवत्न प्रतिनियतकालेऽवश्यंभाविअनियतं-सुरूपादेरपि कुरूपादिदर्शनात् हरितिलकराजसुतविक्रमकुमारशरीरवत् अशाश्वतं-क्षणं क्षणंप्रति विनश्वरत्वात् सनत्कुमारशरीरवत् ‘चयावचइयंति इष्टाहारोपभोगतया धृत्युपष्टम्भादौदारिकवर्गणापरमाणूपचयाच्चयस्तदभावे तद्विचटनादपचयः चयापचयौ विद्येते यस्य तच्चयापचयिकं पुष्टिगलनभावमित्यर्थः, करकंडुप्रत्येकबुद्धवैराग्यहेतु वृषभशरीरवत्, विप्रणाशो-विनश्वरो धर्म-स्वभावो यस्य तद् विप्रणाशधर्मं, 'पच्छा वत्ति पश्चाद् विवक्षितकालात् परतः 'पुरा वत्ति विवक्षितकालात् पूर्वं च, यद्वा पच्छापुरा यत्ति पाठेतुविवक्षितकालस्यपश्चात्पूर्वंच सर्वदैवेत्यर्थः,अवश्यं विप्पचइयव्वंति विप्रत्यक्तव्यं त्याज्यमित्यर्थः।
‘एयस्सवि याईति एतस्य एतस्मिन्नपि च वा वपुषः वपुषि वा 'आइंति वाक्यालङ्कारे 'आउसो त्ति हे आयुष्मन्! आनुपूर्व्या-अनुक्रमेणाष्टादश पृष्ठिकरण्डकस्य-पृष्ठिवंशस्य सन्धयोग्रन्धिरूपा भवन्ति, यथा वंशस्य पर्वाणि, तेषु चाष्टादशसु सन्धिषु मध्ये द्वादशभ्यः सन्धिभ्यो द्वादशपांशुलिकाः निर्गत्योभयपाश्र्वावावृत्य वक्षःस्थलमध्योर्ध्ववर्त्यस्थिनिलगित्वा पल्लकाकारतया परिणमन्ति, अत आह–'बारस' शरीरेद्वादशपांशुलिका निर्गत्य पार्श्वद्वयमावृत्य हृदयस्योभयतो वक्षःपञ्चारादधस्तात् शिथिलकुक्षेस्तूपरिष्टात्परस्परासंमिलितास्तिष्ठन्ति, अयंच कटाह इत्युच्यते, द्वे वितस्ती कुक्षिर्भवति, चतुरङ्गुलप्रमाणा ग्रीवा भवति, तौल्येन मगधदेशप्रसिद्धपलेन चत्वार पलानि जिह्वा भवति, अक्षिमांसगोलकौ द्वेपले भवत-, चतुर्भिकपालैः अस्थिखण्डरूपैः शिरो भवति, मुखेऽशुचिपूर्णे प्रायो द्वात्रिंशद्दन्ता अस्थिखण्डानि भवन्ति।। _ 'सत्तंगु०' जिह्वा-मुखाभ्यन्तरवर्तिमांसखण्डरूपा दैय॒णात्माङ्गुलतः सप्ताङ्गुला भवति 'अद्भुइ०' हृदयान्तरवर्तिमांसखण्डं सार्धपलत्रयं भवति, पणवी० कालिजं वक्षोऽन्तगूढमांसविशेषरूपंपञ्चविंशति पलानिस्यु, द्वे अत्रे प्रत्येकं पञ्चपञ्चवामप्रमाणे प्रज्ञप्ते जिनैः, तद्यथा-स्थूलान्त्रं १ तन्वन्त्रं २, तत्र यत् तत् स्थूलान्त्रं तेनोच्चारः परिणमति, तत्र च यत्तन्वन्त्रं तेन प्रसवणं-मूत्रं परिणमति, 'दो पा०' द्वे पार्वे प्रज्ञप्ते, तद्यथा-वामपार्श्व १ दक्षिणपार्श्व २ च, तत्र-तयोर्मध्ये यत्तत् वामपार्श्व तत् शुभपरिणामं भवति, तत्र च यत्तद्दक्षिणपार्श्व तदुखपरिणामं भवति। तथा 'आउसो !' हे आयुष्मन् शरीरे षष्टि सन्धिशतं ज्ञातव्यं, तत्र सन्धयः-अङ्गुल्याद्यस्थिखण्डमेलापकस्थानानि, 'सत्तुत्तरे' सप्तोत्तरं मर्मशतं भवति, तत्र मर्माणि-शङ्खाणिकावियरकादीनि 'तिनि०' त्रीण्यस्थिदामशतानि हड्डमालाशतानि भवन्ति । 'नव पहारुसयाईति स्नायूनां-अस्थिबन्धनशिराणां नव शतानि, 'सत्त०' सप्त
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org