________________
मू०६५
१६१ ४ यत्रास्थीनि च कीलिकामात्रबद्धानि तत्कीलि काख्यं ५ यत्र चास्थीनि परस्परपर्यन्तसंस्पर्शरूपसेवामात्रेण व्याप्तानि नित्य स्नेहाभ्यङ्गादिपरिशीलनमपेक्षन्ते तत् सेवया ऋतं-व्याप्तं सेवात ६ ।
सम्प्रति-इदानीं पञ्चमारके खलु-निश्चये हे आयुष्मन् ! मनुजानां सेवात संहननं वर्तते, तत्र श्रीवीरात्सप्तत्यधिकशत १७० वर्षे श्रीस्थूलभद्रेस्वर्गगतेचरमाणिचत्वारिपूर्वाणि आद्यसंस्थानमाद्यसंहननं महाप्राणध्यानं च गतं, तथा श्रीवीरात् ५८४ वर्षे श्रीवजे दशमं पूर्वं संहननचतुष्कं च गतमिति । तथा आसन् हे आयुष्मन् ! पूर्व मनुजानां षडविधानि 'संठाणे'त्ति सन्तिष्ठन्ति प्राणिन एभिकारविशेषैरिति संस्थानानि, तद्यथा- ‘समचतुरंसे'त्ति समं-नाभेरुपर्यधश्च सकलपुरुषलक्षणोपेतावयवतया तुल्यं तच तच्चतुरम्न च-अन्यूनाधिकाश्चतसऽप्यनयो यस्य तत्समचतुरस्र, अनयश्च पर्यङ्कासनोपविष्टस्य जानुनोरन्तरमासनस्य ललाटोपरिभागस्य चान्तरं दक्षिणस्कन्धवामजानुनोरन्तरं वामस्कन्धदक्षिणजानुनोश्चान्तरमिति संस्थानं-आकारः समचतुरस्रसंस्थानं १ न्यग्रोधवत्परिमण्डलंयस्य यथान्यग्रोधउपरिसम्पूर्णप्रमाणोऽधस्तुहीनस्तथा यत् संस्थानं नाभेरुपरि सम्पूर्णमधस्तु न तथा तत् न्यग्रोधपरिमण्डलमुपरिविस्तारबहुलमिति भावः २ आदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागोगृह्यते ततः सह आदिना-नाभेरधस्तनभागेन यथोक्तप्रभाणलक्षणेन वर्तते इति सादि उत्सेधब-हुलमिति भावः, इदमुक्तं भवति
यत् संस्थानं नाभेरधः प्रमाणोपपन्नमुपरि हीनंतत् सादीति ३ यत्र शिरोग्रीवाहस्तपादादिकं यथोक्तप्रमाणलक्षणोपेतं न पृष्ठयुदरादि तत् कुब्जं ४ यत् पुनरुरउदरपृष्ठयादिप्रमाणलणोपेतं शिरोग्रीवाहस्तपादादिकं च हीनंत वामनं ५ यत्र तु सर्वेऽप्यवयवाः प्रमाणलक्षणपरिभ्रष्टास्तत् हुंडं ६, सम्प्रति खलु-निश्चये हे आयुष्मन् ! मनुजानां हुण्डं संस्थानं वर्तते, अथोपदेशंददातीत्याहमू. (६६) संघयणं संठाणं उच्चत्तं आउयं च मणुयाणं।
अनुसमयं परिहायइ ओसप्पिणिकालदोसेणं ।। वृ. “संघयण' संहननं संस्थानं शरीरादेरुच्चत्वम्-उच्छ्रयमानं आयुश्च मनुजानां चकारादन्येषां अपि अनुसमय-समयं समयं प्रति परिहीयते अवसर्पिणीकालदोषेणेति । मू. (६७) कोहमयमायलोभा उस्सनं वड्डए य मणुयाणं।
कूडतुलकूडमाणा तेणऽणुमाणेण सबंति ।। वृ. 'कोहमा०' क्रोधमानमायालोभाश्च उस्सन-प्रवाहेणवर्द्धन्ते-पूर्वमनुष्यापेक्षया विशेषतो वर्धन्ते, मनुष्याणां कूटतुलानि-कूटतोलनाधुपकरणानि कूटमानानि-कूटकुडवप्रस्थादिमानानि चवर्द्धन्तेतैन कूटतुलादिनाऽनुमाने-अनुसारेण 'सव्वंतिक्रयाणकवाणिज्यादिकंकूटंवर्द्धत इति॥ मू. (६८) विसमा अज्ज तुलाओ विसमाणि य जणवेसुमाणाणि।
विसमा रायकुलाइं तेण उ विसमाई वासाइं। वृ. 'विस०' विषमाः अर्पणायान्याः ग्रहणायान्याश्च अद्य दुष्षमाकाले तुला तथा जनपदेषु-मगधादिदेशेषु मानानि-कुडवसेतिकादिप्रमाणानि विषमाणि-असमानि जातानि, चशब्दादनेकप्रकारवञ्चनानि, तथा विषमाणि-अनेकान्यायकारकाणि राजकुलानि वर्तन्ते, अथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org