________________
मू०८
६१
अथ श्रीवीरनमस्काररूपं तृतीयं मङ्गलं प्रस्तुताध्ययनप्रस्तावनां चाहमू. (९) अमरिंदनरिंदमुनिंदवंदिअंबंदिउं महावीरं ।
कुसलानुबंधिबंधुरमज्झयणं कित्तइस्सामि ।। वृ. 'अमरिंदनरिंद'त्ति उपक्रमकृतेनापमृत्युना न नियन्ते इत्यमरास्तेषां इन्द्रा अमरेन्द्राः नराणामिन्द्रा नरेन्द्रा मुनीनामिन्द्रा मुनीन्द्राः द्वन्द्वः तैर्वन्दितं वन्दिउंति वन्दित्वा, कं? -'महावीरं' महद्वीर्य यस्यानन्तबलत्वाद्देवकृतपरीक्षायामपिमनागप्यक्षुभितत्वाच्चमहावीरस्तं कुसलानुबंधि'त्ति कुशलो-मोक्षस्तं अनुबन्धीति–परम्परया ददातीत्येवंशीलं कुशलानुबन्धि, तथा बन्धुरं-मनोज्ञं, जीवानां ऐहिकामुष्मिकसमाधिहेतुत्वात्, किं?-अधीयते--ज्ञायते परिच्छिद्यतेऽर्थसमुदायोऽस्मादित्यध्ययन-शास्त्रं, कीर्तयिष्यामि-कथयिष्यामीति सम्बन्धः । __ अथ प्रस्तुताध्ययनार्थाधिकारानाहमू. (१०) चउसरणगमण १ दुक्कडगरिहा २ सुकडानुमोअणा ३ चेव ।
एस गणो अनवरयंकायव्यो कुसलहेउत्ति॥ पृ. 'चउसरण'त्ति चतुर्णामर्हसिद्धसाधुधर्माणां शरणगमनं प्रथमोऽधिकारः, दुष्टं कृतं दुष्कृतं तस्य गर्दा-गुरुसाक्षिकमात्मदोषकथनं द्वितीयोऽधिकारः, शोभनं कृतं सुकृतं तस्यानुमोदना-भव्यं मयैतत्कृतमिति तृतीयोऽधिकारः, 'चैवेति समुच्चये, एषः-अयं गणः-त्रयाणां समुदायोऽनवरतं-सततं कर्तव्यः-अनुसरणीयः कुशलो-मोक्षस्तस्य कारणमयमितिकृत्वा ।।
अथ चतुःशरणरूपं प्रथमाधिकारमाहमू. (११) अरिहंत १ सिद्ध २ साहू ३ केवलिकहिओ सुहावहो धम्मो ४॥
एए चउरो चउगइहरणा सरणं लहइ धत्रो ।। पृ.अरहते'त्यादि, देवेन्द्रकृतांपूजामहन्तीत्यर्हन्तः १ तथा सिध्यन्ति-निष्टितार्था भवन्तीति सिद्धाः २ तथा निर्वाणसाधकान् योगान् धर्मव्यापारान् साधयन्ति-कुर्वन्तीति साधवः ३ तथा दुर्गती पतन्तं प्राणिनं धरतीति धर्मः, किंभूतः?-केवलिभिः-ज्ञानिभिः कथितः-प्रतिपादितः केवलिकथित इति, अनेन स्वमतिकल्पितान्यतीर्थिकधर्मनिरास माह, पुनः कथम्भूतो धर्मः सुखमावहति-परम्परया चटप्रकर्ष प्रापयतीति सुखावहः,अनेन इहलोकेऽपि मिथ्याष्टिधर्मस्य भैरवपतनशिर्रःक्रकचदापनादिदुःखाकीर्णत्वात् परलोके भवभ्रमणकारणत्वात्तनिषेधमाह, एतेऽर्हत्सिद्धसाधुधर्माश्चत्वारश्चतसृणां गतीनांसमाहारश्चतुर्गति-नरकतिर्यग्नरामरलक्षणंहरन्ति सिद्धिलक्षणपञ्चमगतिप्रापणेनेति चतुर्गतिहरणाः, यस्मादिति गम्यं, अत एव भवाटव्यामटन् शरणरहितः कश्चिद्धन्यः-सुकृतकर्मा एव शरणं लभते, शरणत्वेन प्रतिपद्यते इत्यर्थः ।।
अथ यथा विधिना एतान् शरणं प्रपद्यते तथाऽऽहमू. (१२) अह सो जिणभत्तिभरुत्थरंतरोमंचकंचुअकरालो।
पहरिसपणउम्मीसं सीसंमि कयंजली भणइ ।। इ. 'अह सो'त्ति, अथ सः-शरणप्रतिपत्ता चतुर्विधसङ्घस्यान्यतमो जीवः, कथंभूतो? -जिनेषु भक्तिस्तस्या भरः-प्राबल्यं तस्मार्जिनभक्तिभरात् ‘उत्थरंत'त्ति अवस्तृणन्-उदयं गच्छन्योऽसौ रोमाञ्चः स एव शरीरावारकत्वात्कञ्चको रोमाञ्चकंचुकस्ते करालः–अन्तरङ्गशत्रूणां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org