SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ - - - चतुःशरण-प्रकिर्णकसूत्रम् ६ पडिकमणासुद्धाणं सोही तह काउसग्गेणं ।। घृ.'चरणाइय'त्तिचरणं-चारित्रं अतिगच्छन्ति-अतिक्रामन्तीतिचरणातिगाः, अतिचारा इतिश्य,तेआदौ येषां ते चरणातिगादिकाः-सर्वेऽप्यतिचारास्तेषांचरणातिगादिकानां, कथंभूतानां? -प्रतिक्रमणेन-प्रागुक्तेनाशुद्धानामर्द्धशुद्धानांवा शुद्धिस्तथैव-प्रागुक्तप्रकारेण क्रियते, केन?-कायोत्सर्गेण, किंभूतेन? - 'जहक्कमवणतिगिच्छत्तियथाक्रम-क्रमप्राप्तेन 'आलोअणपडिकमणे' इतिगाथोक्तदशविधप्रायश्चित्तमध्ये पञ्चमप्रायश्चित्तेन वण'त्तिद्रव्यभावभेदेन द्विधा व्रणं, तत्र द्रव्यव्रणः-कण्टकभङ्गादिजनितो भावव्रणस्तु अतिचारशल्यरूपस्तस्य भावव्रणस्य चिकित्सा-प्रतीकारःसैवरूपं यस्य कायोत्सर्गस्य सव्रणचिकित्सारूपस्तेन, कायोत्सर्गेणातिचाराः शोध्यन्ते इतिभावो, महनिर्जराकारणत्वात्तस्य, प्राक् 'नाणाइआइत्यत्रज्ञाननयप्राधान्याश्रयणात् ज्ञानादय इत्युक्तं, 'चरणाइआ' इत्यत्र तु क्रियानयप्राधान्याश्रयाणाच विवक्षया चरणादय इति एवं गाथापञ्चकेनातिचारत्रयस्य शुद्धिरुक्ता, अथ तपोवीर्याचारयोस्तामाहमू. (७) गुणधारणरूवेणं पञ्चक्खाणेण तवऽइयारस्स। विरियायारस्स पुणो सव्वेहिवि कीरए सोही। वृ. 'गुणधारणे'त्यादि, गुणा-विरत्यादयउत्तरोत्तरायथाविरतेराश्रवद्वारस्थगनंतत्स्थगनात् तृष्णाव्यवच्छेदस्तस्मादतुलोपशमस्तस्मात्प्रत्याख्यानशुद्धिस्तच्छुद्धेश्चारित्रनैर्मल्यं तस्मा कर्मविवेकस्तस्मादपूर्वकरणमपूर्वकरणात्केवलज्ञानंततश्चमोक्षोभवतीति, तेषां गुणानांधारणं तदेव रूपं यस्य तेन प्रत्याख्यानेन-'अनागयमइक्वंत' इत्यादिदशविधेन अथवा पञ्चमहाव्रतद्वादशश्राद्धव्रतनमस्कारसहितादिदशप्रत्याख्यानरूपसप्तविंसतिविधेन वा तपआचारातिचारस्य-'बारसविहंमिवि तवे' इति गाथोक्तस्य शुद्धि क्रियते इति संटंकः। ___ “विरियायारस्स'त्ति विशेषेणईरयति-प्रेरयति आत्मानं तासु तासु क्रियास्विति वीर्यतपोवीर्य-गुणवीर्य-चारित्रवीर्य-समाधिवीर्य-आत्मवीर्यभेदभिन्नपञ्चविधंतस्याचारो वीर्याचारः 'अणिगूहिअबलविरिए' इत्यादिकस्तस्य सर्वैरपि पूर्वोक्तैः षड्मिरप्यावश्यकैः शुद्धि क्रियते, अन्यूनाधिकावश्यककरणप्रयत्नेन वीर्याचारशुद्धिर्भवत्येव, महाकर्मनिर्जराहेतुत्वात् ॥ उक्ता आचारपञ्चकशुद्धिः, अथ सर्वजिनगुणोत्कीर्तनगंर्भ मङ्गलभूतं गजादिस्वप्नसंदर्जमाहमू. (८)गय १ वसह २ सीह ३ अभिसेय ४ दाम ५ ससि ६ दिनयरं ७ झयं ८ कुम्भं ९ । पउमसर १० सागर ११ विमाणडसःभवण १२ रयणुच्चय १३ सिहिं १४ च ।। कृ. गाथा सुगमा, नवरं 'अभिसेअत्ति चतुर्थस्वप्ने पार्श्वद्वयवर्तिकरिकलभशुण्डादण्डविधृतकलशयुगलाभिषिच्यमानां लक्ष्मी जिनमातापश्यति, विमाणभवण'ति द्वादशस्वप्ने देवलोकागततीर्थकृञ्जननी विमानं पश्यति नरकागतजिनजननी तु भवनं, विमानभवनयोराकारमात्रकृत एव विशेषः, गजदर्शनात्स्वाम्यपि तद्वदतुलपराक्रमनिधिर्भावी, वृषभदर्शनात् महामोहपङ्कमग्नधर्मरथधुरोद्धरणक्षमोभरतेधर्मबीजवापनिमित्तं च भावीति स्वप्नैरपिजिनगुणाः सूच्यन्ते, चतुर्दशस्वप्नसंख्यया तु चतुर्दशरज्ज्वात्मकस्यापि लोकस्योपरिवर्ती पुत्रो भविष्यतीति निवेद्यते इति सर्वतीर्थकृदुणवर्णनरूपं स्वप्नमङ्गलमुक्तम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003358
Book TitleAgam Sutra Satik 24 Chatusharan PainngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages45
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 24, & agam_chatusharan
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy