________________
पुष्पिका-उपाङ्गसूत्रम् ४/८ वृ.बहुपुत्तियाध्ययने उक्खेवओ'त्ति उत्क्षेपः-प्रारम्भवाक्यं, यथा-जइणंभंते समणेणं सिद्धिगइनामधेयं ठाणं संपाविउकामेणं तच्चवग्गस्स पुफियाणं तइयज्झयणस्सअयमढे पन्नत्ते, चउत्थस्स णं अज्झयणस्स पुफियाणं के अढे पन्नत्ते?
एतस्स 'दिव्वा देविड्डी पुच्छत्ति, किण्हं लद्धा-केन हेतुनोपार्जिता? किण्णा पत्ता-केन हेतुना प्राप्ता उपार्जिता सती प्राप्तिमुपगता ? किण्णा 'भिसमण्णागय'त्ति प्राप्ताऽपि सती केन हेतुनाऽऽभिमुख्येन सांगत्येन च उपार्जनस्य च पश्चाद्भोग्यतामुपगतेति? एवंपृष्टे सत्याह-‘एवं खलु' इत्यादि।
वाणारस्यां भद्रनामा सार्थवाहोऽभूत् । 'अड्डे' इत्यादि अड्डे दित्ते वित्ते विच्छिण्णविउलभवणसयणासणजाणवाहणाइण्णे बहुधनजाइआययणआओगपओगसंपउत्तेविच्छडियपउरभत्तपाणे हुदासीदासगोमहिसगवेलकपभूए बहुजणस्स अपरिभूए, सुगमान्येतानि, नवरं आढयः--ऋद्धया परिपूर्णः, तः-दर्पवान्, वित्तो-विख्यातः । भद्रसार्थवाहस्य भार्या सुभद्रा सुकुमाला 'वंझ'त्ति अपत्यफलापेक्षया निष्फला, 'अवियाउरित्तिप्रस,वानन्तर मपत्यमरणेनापि फलतो वन्ध्या भवति अतउच्यते-अवियाउरित्ति अविजननशीलाऽपत्यानाम्, अतएवाह-जानु कूपराणामेव माता-जननी जानुकूपरमाता, एतान्येव शरीरांशभूतानि तस्याः स्तनौ स्पृशन्ति नापत्यमित्यर्थः, अथवाजानुकूर्पराण्येव मात्रा परप्राणादिसाहाय्यसमर्थः उत्सङ्गनिवेशनीयो वा परिकरो यस्याः न पुत्रलक्षणः स जानुकूपरमात्रः।। _ 'इमेयारूवेत्ति इहैवं दृश्यं-"अयमेयारूवे अन्झथिए चिंतए पत्थिए मनोगए संकप्पे समुपज्जित्था" तत्रायम् एतद्रूपः आध्यात्मिकः-आत्माश्रितः चिन्तितः-मनरूपः मनोगतो-मनोविकाररूपः संकल्पो-विकल्पः समुत्पन्नः । धन्नाओणंताओ' इत्यादिधन्या-धनमर्हन्ति लप्स्यन्ते वा यास्ता धन्याः इति यासामित्यपेक्षया, अम्बाः-स्त्रियः पुण्याः-पवित्राः कृतपुण्याः-कृतसुकृताः कुतार्था-कृतप्रयोजनाः कृतलक्षणाः-सफलीकृतलक्षमाः । 'सुलद्धेणंतासिं अम्मगाणंमणुयजम्मजीवियफले सुलब्धंचतासांमनजजन्म जीवितफलं च । 'जासिं' तियासां मन्ये इति वितर्कार्थो निपातः । निजकुक्षिसंभूतानि डिम्भरूपाणीत्यर्थः ।
स्तनदुग्धे लुब्धानि यानि तानि तथा । मधुराः समुल्लापा येषां तानि तथा । मन्मनम्अव्यक्तभीषल्ललितंप्रजल्पितं येषांतानि तथा स्तनमूलात्कक्षादेशभागभिसरन्ति मुग्धकानिअव्यकतविज्ञानानि भवन्ति।पण्हयंति-दुग्धं पिबन्ति । पुनरपि कोमलकमलोपमाभ्यां हस्ताभ्यां गृहीत्वा उत्सङ्गेनिवेशितानि सन्ति। ददति समुल्लापकान्, पुनः पुनः मञ्जलप्रभणितान् मञ्जुलं-मधुरं प्रभणितं-भणतिर्येषु ते तथा तान्, इह सुमधुरानित्यभिधाय यनमञ्जलप्रभणि तानित्युक्तं तत्पुनरुक्तमपि न दुष्टं संभ्रमभणितत्वादस्येति।
__'एत्तोत्ति विभक्तिपरिणामादेषाम्-उविशेषणव तांडिम्भानांमध्यादेकतरमपि--अन्यतरविशेणमपि डिम्झन प्राप्ता इत्युपहतमनःसङ्कल्पा भूमिगतष्टिका करतलपर्यस्तितमुखी ध्यायति अथानन्तरं यत्संपन्नं तदाह- तेणं कालेण मित्यादि । गृहेषु समुदान-भिक्षाटनं गृहसमुदानं भैक्षं, तनिमित्तमटनम् । साध्वीसंघाटको भद्रसार्थवाहगृहमनुप्रविष्टः । तद्भार्या चेतसि चिन्तितवति, (एवं वयासि) यथा-विपुलान्समृद्धान् भागान् भोगभोगान्-अतिशयवतः शब्दादीन् उपभुनाना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org