SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-१ नामदेवस्वामिकत्वादुपचारेण दक्षिणार्द्धभरतनामादेवः स्वामित्वेनास्यास्तीति अभ्रादित्वादप्रत्यये वादक्षिणार्द्धभरतं, एवमन्येष्वपि, परंखण्डप्रपातगुहाकूटतमिम्रगुहाकूट्योः सकथं?, तत्स्वामिनानृत्तमालकृ तमालयोर्विसध्शनामकत्वात्, न च खण्डप्रपापतगुहाया उफरिवर्ति कूटं खण्डप्रपातगुहाकूटमित्यादिरेवान्वर्थोऽस्त्विति वाच्यं, अत्र सूत्रे दक्षिणार्द्धभरतकूटवत् शेषकूटानामतिदेशात्बृहक्षेत्रसमासवृत्तौ “एवं शेषकूटान्यपिस्वस्वाधिपतयोगतः प्रवृत्तान्यवसेयानी"ति श्रीमलयगिरिसूरिभिरुक्तत्वाच्चेति चेत्, उच्यते, खण्डप्रपातगुहाधिपस्य कूटंखण्डप्रपातगुहाकूटं, तमिम्रगुहाधिपस्य कूटतमिम्रगुहाकूटमिति स्वामिनोयौगिकनामान्तरापेक्षया अत्राप्यन्वर्थो घटत एव, यदुक्तं तैरेव तत्र-“तृतीये कूटे खण्डप्रपातगुहाधिपतिर्देव आधिपत्यं परिपालयति तेन तत् खण्डप्रपातगुहाकूटमित्युच्यते” इति न किमप्यनुपपन्न । ___ मू (१८) माणिभद्दडे १ वेअडकूडे २ पुन्नभद्दकूडे ३ एएतिन्निकूडा कणगामया सेसा छप्पि रयणमया, दोण्हं विसरिसणामया देवा कयमालए चेव नट्टमालए चेव, सेसाणं छण्हं सरिसणामया रायहाणीओजंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं तिरिअंअसंखेज़दीवसमुद्दे वीईवइत्ता अण्णमि जंबुद्दीवे दीवे बारस जोअणसहस्साइं ओगाहित्ता, एत्य णं रायहाणीओ भाणिअब्बाओ विजयरायहाणीसरिसयाओ। -मणिभद्द इत्यादि, द्वयोः कूटयोर्विसशनामक देवी स्वामिनी, तद्यथा-कृतमालकश्चैव नृत्तमालकश्चैव, तमिसगुहाकूटस्य कृतमालः स्वामी खण्डप्रपातगुहाकूटस्य नृत्तमालः स्वामी, शेषाणां षण्णां कूटानां सहक्-कूटनामसशं नाम येषां ते सध्गनामका देवाः स्वामिनः, यथा दक्षिणार्धभरतकूटस्य दक्षिणार्द्धभरतकूटानामा देवः स्वामी, एवमन्येषामपि भावना कार्या। अथ तृतियादिकूटाधिपतीनां राजधान्यः क्य सन्तीति प्रश्नसूचकं सूत्रमाह'रायहाणीओ'त्ति, अत्र निर्वचनसूत्रम्, 'जंबूद्दीवेदीवे' इत्यादि, जंबूद्वीपेद्वीपे इत्यादिसर्वंव्यक्तम्, नवरंखण्डप्रपातगुहाधिपतेर्देवस्य राजधानिखण्डप्रपातगुहाविधाना माणिभद्रस्य माणिभद्रेत्यादि, सर्वाणि चोक्तवक्ष्यमाणानि कूटानि एकैकवनखण्डपद्मवरवेदिकायुतानि मन्तव्यानि । मू (१९) से केणटेणं भंते ! एवं वुधइ वेअड्ढे पव्वए?, गोयमा! वेअड्ढे णं पव्वए भरह वासंदुहावभयमाणे २ चिट्टइ, तंजहा-दाहिणड्ढभरहंच उत्तरड्ढभरहंच, वेअड्ढगिरिकुमारे अइत्थ देवे महिड्ढीए जाव पलिओवमट्ठिइए परिवसइ । से तेणडेणं गोयमा! एवं वुच्चइ-वेअड्ढे पव्वए २, अदुत्तरं च णं गोअमा! वेयड्ढस्स पव्वयस्स सासए नामधेजे पन्नत्तेजंन कयाइ न आसि न कयाइ न अस्थि न कयाइ न भविस्सइ भुविं च भवइ अ भविस्सइ अधुवे निअए सासए अक्खए अव्वए अवट्ठिए निच्चे। वृ.अथ वैताढ्यनाम्नो निरुक्त पृच्छति-से केणद्वेण मित्यादि, अत्र प्रश्नसूत्रं प्राग्वत्, उत्तरसूत्रे तु वैतादयः पर्वतः, णमिति प्राग्वत, भारतं वर्ष-भरतक्षेत्रं द्विधा विभजन २ तिष्ठति, तद्यथा-दक्षिणार्द्धभरतं च उत्तरार्द्धभरतं च, तेन भरतक्षेत्रस्य द्वे अर्द्ध करोतीति वैताढ्यः पृषोदरादित्वाद्रूपसिद्धि, अथ प्रकारान्तरेण नामान्वर्थमाह-अथ च वैतादयगिरिकुमारोऽत्र देवो महर्द्धिकोयावत्करणात् महजुई' इत्यादिपदसगहः पल्योपमस्थितिकः परिवसति, तेन वेतान्य इति नामान्वर्थो विजयद्वारवद् ज्ञेयः, सध्शनामकस्वामिकत्वात्, ‘अदुत्तरंचण'मित्यादि प्राग्वत्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy