SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ७८ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/१३ तश्रीखण्डेन वा दत्ताः-न्यस्ताः पञ्चाङ्गुलयस्तला-हस्तका येषु तानि तथा, उपचिता-निवेशिता वंदनकलशा--माङ्गल्यघटा येषु तानि तथा, वन्दनघटैः-माङ्गल्यकलशैः सुकृतानि-सुष्ठु तानि शोभनानीत्यर्थःयानि तोरणानितानिप्रतिद्वारदेशमार्ग-द्वारदेशमागे २ येषुतानि तथा, देशभागाश्च देशा एव, तथा आसक्तो भूमौ लग्न उत्सक्तश्च-उपरि लग्नोविपुलः-अतिविस्तीर्णो वृत्तःअतिनिचिततया वर्तुलो वग्यारिअत्ति-प्रलम्बितो माल्यदा- मकलापः-पुष्पमालासमूहो येषु तानि तथा, पञ्चवर्णा सरसाः सुरभयो ये मुक्ताः-करप्रेरिताः पुष्पपुआस्तैर्य उपचारः-पूजा भूमेस्तेन कलितानि, 'कालागरु' इत्यादि विशेषणत्रयं प्राग्वत्, अप्सरोगणानां संघः-समुदायः तेन सम्यग-रमणीयतया विकीर्णानि-व्याप्तानि, तथा दिव्यानां त्रुटितानांआतोद्यानां ये शब्दास्तैः सम्यक्-श्रोतृमनोहारितया प्रकर्षण-सर्वकालं नदितानि-शब्दवन्ति सव्वरयणामया' इत्यादि पदानि प्राग्वत्, 'तत्थ णमित्यादि, गतार्थमेतत्। ___ अथ वैताट्यस्य शिखरतलमाह तयोः-आभियोग्यश्रेण्योर्बहुसमरमणीयाद्भूमिभागाद्वैतादयस्य पर्वतस्योभयोः पार्श्वयोः पञ्च पञ्च योजनान्यर्द्धमुत्पत्य-गत्वा अत्रान्तरे वैताढ्यस्य पर्वतस्यशिखरतलंप्रज्ञप्तं, 'पाईणे त्यादिप्राग्वत्, तच्च शिखरतलं एकयापद्मवरवेदिकयातत्परिवेष्टकभूतेनचैकेन वनखण्डेन सर्वतः समन्तात् संपरिक्षिप्तं, यथाजगतीमध्यभागेपद्मवरवेदिकैकैव जगती दिक्षु विदिक्षु वेष्टयित्वा स्थिता तथेयमपि सर्वतः शिखरतलं पर्यन्ते वेष्टयतिवा स्थिता, परमेषा आयतचतुरस्राकारशिखरतलसंस्थितत्वेनायतचतुरस्र बोद्धव्या, अत एवैकसंख्याका, तत्परतोबहिर्वर्तिवनखण्डमप्येकं,नतुवैताळ्यमूलगतपद्मवरवेदिकावने इव दक्षिणोत्तरविभागेन द्वयरूपेइति, श्रीमलयगिरिपादास्तु क्षेत्रविचारबृहदृत्ती "तन्मध्ये पद्मवरवेदिकोभयपार्श्वयोर्वनखण्डा" वित्याहुः, प्रमाणं-विष्कम्भायामविषयं, वर्णकश्चद्वयोरपि पद्मवरवेदिकावनखण्डयोः, प्राग्वद्भ०ि इत्यध्याहार्यं, अथ शिखरतलस्य स्वरूपं पृच्छति 'वेअद्धस्स ण'मित्यादि, एतत्सर्वं जगतीगतपद्मवरवेदिकाया वनखण्डभूमिभागवद् व्याख्येयं, अथास्य कूटवक्तव्यता पृच्छति 'जंबुद्दीवेण',जम्बूद्वीपे मदन्त! द्वीपे भरतेवर्षे वैतान्यपर्वते कति कूटानिप्रज्ञप्तानि ?, भगवानाह-गौतम नव कूटानि प्रज्ञप्तानि, तद्यथा-सिद्धानि-शाश्वतानि सिद्धानां वा-शाश्वतीनामर्हतिमानामायतनं-स्थानं सिद्धायतनं तदाधारभूतं कूटं सिद्धाय- तनकूट, दक्षिणार्द्धभरतनाम्नांदेवस्य निवासभूतं कूटंदक्षिणार्द्धभरतकूट, खण्डप्रपातगुहाधि-पदेवनिवासभूतंकूटंखण्डप्रपातगुहाकूट, माणिभद्रनाम्नोदेवस्य निवासभूतंकूटंमाणिभद्रकूटं, वैताढ्यनाम्नो देवस्य निवासभूतं कूटं वैताढ्यकूट, पूर्णभद्रनाम्नो देवस्य निवासभूतं पूर्णभद्रकूट, अन्यत्र माणिभद्रकूटादनन्तरं पूर्णभद्रकूटं दृश्यते, तमिस्रगुहाधिपदेवस्य निवासभूतं कूटतमिस्र-गुहाकूट, उत्तरार्द्धभरतनाम्नो देवस्य निवासभूतंकूटं उत्तरार्द्धभरतकूटं, वैश्रमणलोकपालनिवासभूतं कूट वैश्रमणकूट, सर्वत्र मध्यपदलोपी समासः। अथ 'यथोद्देशं निर्देश' इति प्रथमसिद्धायतनकूटस्थानप्रश्नमाह मू. (१४) कहि णं भंते ! जंबुद्दीवे दीवे भारहे वासे वेअद्धपव्वए सिद्धायतनकूडे नामं कूडे पन्नते?, गो० ! पुरच्छिमलवणसमुदस्स पच्छिमेणं दाहिणद्धभरहकूडस्स पुरच्छिमेणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy