________________
वक्षस्कारः-१
७७
सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, णमिति प्राग्वत्, भवनानि बहिर्वृत्तानि-बहिर्वृत्ताकाराणि अन्तः चतुरस्राणि-समचतुरस्राणि 'वण्णओ'त्ति अत्रभवनानां वर्णको वाच्यः, सच किंपर्यन्त इत्याह'जाव अच्छरगमसंघविकिण्ण त्ति, ततोऽपि कियत्पर्यन्त इत्याह-'जाव पडिरूव'त्ति, स च प्रज्ञापनास्थानाख्य द्वितीयपदोक्तः, यथा
'अहे पुक्खरकण्णिआसंठाणसंठिया उक्किण्णंतरविउलगंभीरखायपरिहा पागारट्टालयकवाडतोरणपडिदुवारदेसभागा जंतसयग्धिमुसलमुसुंढिपरिवारिआ अउज्झासयाजया सयागुत्ता अडयाललोडगरइआ अडयालकयवणमाला खेमा सिवा किंकरामदंडोवरक्खिआ लाउल्लोइअमहिआगोसीससरसरत्तचंदणदद्दर (दिण्ण)पंचंगुलितला उवचिअचंदणकलसा चंदनघडसुकयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवट्टवग्यारियमल्लदामकलावा पंचवण्णसरससुरहिमुक्कपुप्फपुंजोवयारकलिया कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमधमधेतगंधुद्धआभिरामा सुगंधवरगंधिआ गंधवट्टिभूया अच्छरगणसंघसंविकिण्णा दिव्बतुडियसद्दसंपणदिआसव्वरयणामया अच्छा सण्हा जाव अभिरुवा पडिरूव'त्ति, अत्र व्याख्या
__ अधस्तनभागे पुष्करकर्णिकासंस्थानसंस्थितानि तथा उत्कीर्णमिवोत्कीर्णं अतीव व्यक्तमित्यर्थउत्कीर्णमन्तरंयासां खातपरिखाणांताउत्कीर्णान्तराः, किमुक्तंभवति?-खातानां च परिखाणांचस्पष्टवैविक्त्योन्मीलनार्थमपान्तरालेमहती पाली समस्तीतिउत्कीर्णान्तराः, विपुलाविस्तीर्णागम्भीरा-अलब्धमध्यभागाःखातपरिखायेषांभवनानांपरितस्तानि तथा, खातपरिखाणामयं विशेषःपरिखाउपरि विशालाअधः सङ्कुचिताखातंतूभयत्रापि सममिति, तथा प्राकारेषु-वप्रेषु प्रतिभवनं अट्टालका:-प्रकारस्योपरिवत्यारियविशेषाः कपाटानि-प्रतोलीद्वारसत्कानि, एतेन प्रतोल्यः सर्वत्र सूचिताः, अन्यथा कपाटानामसम्भवात्, तोरणानि-प्रतोलीद्वारेषु प्रसिद्धानि प्रतिद्वाराणि-मूलद्वारापान्तरालवर्तिलघुद्वाराणि एतद्रूपा देशभागा-देशविशेषायेषुतानि तथा, यन्त्राणि नानाविधानिशतध्यो-महायष्टयो महाशिला वाया उपरिष्टात्पातिताः सत्यः पुरुषाणां शतानि मन्तीति, मुसलानि-प्रतीतानि मुषण्ढयः-शश्त्रविशेषास्तैः परिवारितानि-समन्ततो वेष्टितानि, अत एवायोध्यानिपर्योद्धमशक्यानि अयोध्यत्वादेव 'सदाजयानि' सदा-सर्वकालं जयो येषु तानि सदाजयानि, सर्वकालं जयवन्तीति भावः, तथा सदा-सर्वकालं गुप्तानि प्रहरणैः पुरुषैश्चयोध्द भिः सर्वतोनिरन्तरपरिवारिततया परेषामसहमानानां मनागपिप्रवेशासम्भवात्, तथा अष्टचत्वारिंशभेदभिन्नविच्छित्तिकलिताः कोष्ठकाः-अपवरका रचिताः-स्वयमेव रचनां प्राप्ता येषु तानि तथा, सुखादिदर्शनात् पाक्षिको निष्ठान्तस्य परनिपातः, तथा अष्टचत्वारिंश
भेदभिन्नविच्छित्तयः कृतावनमाला येषु तानितथा, अन्ये त्वभिदधति-अडयाल इति देशीशब्दः प्रशंसावाची, ततोऽयमर्थः
प्रशस्तकोष्ठकरचितानि प्रशस्तकृतवनमालानीति, तथा क्षेमाणि-परकृतोपद्रवरहितानि शिवानि-सदा मङ्गलोपेतानि, तथा किङ्कराः-किङ्करभूता येऽमरास्तैः दण्डैः कृत्वोपरक्षितानि, सर्वतः समन्ततोऽपरक्षितानि, तथा लाइअमिव लाइअं-छगणादिना भूमेरुपलेपनमिव 'उल्लोइआ' उल्लोइयमिव उल्लोइअंच सेटिकादिना कुडयादिषु धवलनमिव ताभ्यां महितानीव-पूजितानीव, तथा गोशीर्षेण-चन्दनविशेषेण सरसेन-रक्तचन्दनेन च दद्दरण-बहलेन दर्दराभिधानाद्रिजा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org