________________
वक्षस्कारः-१
७५
जगत्या रुद्धत्वानिरवकाशत्वेनैकीभवनासम्भवात, अन्यथा 'सव्वओ समंता संपरिक्खित्ते'त्ति वचनेनैकैवस्यादिति, 'ताओन मिति, सर्वंगतार्थं, नवरंपर्वतसमिका आयामेन, वैताढ्यसमाना आयामेनेत्यर्थः, अथैतदगतगुहाद्वयप्ररूपणायाह
'वेयद्धस्स णमित्यादि, वैतादयस्य पर्वतस्य पुरच्छिमपञ्चच्छिमेणं'ति, अत्रसूत्रपूर्वस्या दिशः पूज्यत्वात् आर्षत्वाद्वा पुरछिमेतिशब्दस्य प्राग्निपातेऽपिपश्चिमायांपूर्वस्यामिति व्याख्येयं, अत्र ग्रन्थे ग्रन्थान्तरे च पश्चिमायां तमिमगुहायाः पूर्वस्यांच खण्डप्रपातगुहायाः अभिधानात्, द्वे गुहे प्रज्ञप्ते, प्राकृतशैल्याचबहुवचनं, उत्तरदक्षिणयोरायते, एतावताय एव वैताव्यस्य विष्कम्भः स एवानयोरायाम इति भावः, प्राचीनप्रतीचीनविस्तीर्णे इत्याद्यर्थतो व्यक्तं, अत्र च उमास्वातिवाचककृतजम्बूद्वीपसमासप्रकरणे गुहाया विजयद्वारप्रमाणद्वारेतिविशेषणदर्शनात् चतुर्योजनविस्तृतद्वारा इत्यपि विशेषणंज्ञेयं, वज्रमयकपाटाभ्यामवघाटिते, आच्छादिते इत्यर्थः, एते च द्वे अपि चक्रवर्त्तिकालवर्जं दक्षिणपार्वे उत्तरपार्वे च प्रत्येकं सदासम्मीलितवज्रमयकपाटयुगले स्यातां, अत एव यमलानि-समस्थितानियुगलानि-द्वयरूपाणि घनानि-निश्छिद्राणि कपाटानि तैः दुष्प्रवेशे, तथा नित्यं अन्धकारतमिस्र, द्वौ तुल्यार्थी प्रकर्षपराविति प्रकृष्टान्धकारं ययोस्तेतथा, विशेषणद्वाराअवार्थेहेतुमाह-व्यपगतंग्रहचन्द्रसूर्यनक्षत्राणांज्योतिर्यतः स एताद्दशः पन्थाययोस्तेतथा,अथवाव्यपगता ग्रहादीनांज्योतिषश्च-अग्नेः प्रभा ययोस्ते तथायावप्रतिरूपे, अत्र यावतकरणात् 'पासाईया' इत्यादि विशेषणत्रयं 'अच्छाओ इत्यादीनि वा विशेषणानि यथासम्भवं ज्ञेयानि, ते गुहे नामतो दर्शयति, तद्यथा-'तमिन गुहा चैवखण्डप्रपाता, इमे द्वे अपि समस्वरूपेवेदितव्ये इति, 'तत्थणमित्यादि, सर्वमेतद्विजयदेवसमगमकमिति व्याख्यातप्राय, नवरं कृतमालकस्तमिस्पधिपति नृतमालकः खण्डप्रपाताधिपतिरिति ।
अथात्र श्रेणिप्ररूपणायाह-'तेसिणं वनसंडाण'मित्यादि, तयोर्वैतान्योभयपार्श्ववर्त्तिनोभूमिगतयोर्वनखण्डयोर्बहुसमरमणीयाद् भूमिभागादूर्ध्व वैतादयगिरेरुभयोः पार्श्वयोर्दश दश योजनान्युत्पत्य-गत्वा अत्र द्वे विद्याधरश्रेण्यौ-विद्याधराणामाश्रयभूते प्रज्ञप्ते, एका दक्षिणभागे एका चोत्तरभागे इत्यर्थः, प्रागपरायते उदगदक्षिणविस्तीर्णे,उभे अपि विष्कम्भेन दश २ योजनानि, अतएवप्रथममेखलायां वैतादयविष्कम्भस्त्रीशद्योजनानि, पर्वतसमिकेआयामेन, वैताढ्यवदिमे अपि पूर्वापरोदधिस्पृष्टे इत्यर्थः, तथा प्रत्येकमुभयोः पार्श्वयोः द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां च वनखण्डाभ्यां संपरिक्षिप्ते, एवमेकैकस्यां श्रेण्यां द्वे पद्मवरवेदिके द्वे च वनखण्डे इत्युभयोः श्रेण्योर्मीलनेचतस्म पद्मवरवेदिकाश्चत्वारिवनखण्डानीतिज्ञेयं, संवादी चायमर्थ श्रीमलयगिरिकृतबृहरक्षेत्रसमासवृत्या, तथा च तत्रोक्तम्-“एकैका च श्रेणरुभयपार्श्ववर्तिभ्यां वैतान्यप्रमाणायामाभ्यां द्वाभ्यां २ पद्मवरवेदिकाभ्यां द्वाभ्यां रवनखण्डाभ्यां समन्ततः परिक्षिप्ते"ति, शेषं सूत्रं गतार्थमिति, अथ तयोः श्रेण्योः स्वरूपंपृच्छति-विजाहरे' त्यादिगतार्थं, नवरं अत्र बहुष्वादशेषु 'नानामणिपंचवण्णेहिं मणीहिं' इति पाठोन दृश्यते, परंराजप्रश्नीयसूत्रवृत्योईष्टत्वात् सङ्गतत्वाच 'नानाविहपंचवण्णेहिं मणीहिं तणेहिं' इति पाठो लिखितोऽस्तीति बोध्यं ।।
___ अथोभयश्रेण्योर्नगरसङख्यामाह-'तत्थणंदाहिणिल्लाए' इत्यादि, तत्रतयोः श्रेण्योर्मध्ये दक्षिणस्यां विद्याधरश्रेण्यां गगनवल्लभप्रमुखाःपंचाशद्विद्याधरनगरावासाः प्रज्ञप्ताः, 'व्याख्यातो
Jain Education International
For Priva
For Private & Personal Use Only
www.jainelibrary.org